उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः ।
विधाय कापटं विषं ग्रामस्यापि प्रदक्षिणम्
udyatastu gayāṃ gantuṃ śrāddhaṃ kṛtvā vidhānataḥ |
vidhāya kāpaṭaṃ viṣaṃ grāmasyāpi pradakṣiṇam
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम चतुरशीतितमोऽध्यायः ॥
48 श्लोक · 84 में से 241
गया जाने से पहले घर पर श्राद्ध करे, गाँव की प्रदक्षिणा करे और मार्ग में दान न ले; उसका हर पग पितरों के लिए स्वर्ग की सीढ़ी बनता है। मुण्डन और उपवास सब तीर्थों में विहित है, केवल कुरुक्षेत्र, विशाला, विरजा और गया को छोड़कर। ब्रह्मा दिन के अनुसार क्रम बताते हैं: उत्तर मानस, मौन रहकर दक्षिण मानस, कनखल, फल्गु, फिर पितामह और गदाधर के दर्शन, जिससे मनुष्य पितृऋण से मुक्त होकर दस पूर्व और दस आगे की पीढ़ियाँ तारता है। धर्मारण्य, ब्रह्मतीर्थ आदि का भी विधान है। दो कथाएँ गया पिण्ड की महिमा दिखाती हैं: एक वणिक प्रेत को और अपने पितरों को मुक्त करता है, और राजपुत्र विशाल पुत्र पाकर अपने श्वेत, रक्त और कृष्ण वर्ण पितरों को अवीचि नरक से स्वर्ग जाते देखता है।
ब्रह्मोवाच
उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः ।
विधाय कापटं विषं ग्रामस्यापि प्रदक्षिणम्
udyatastu gayāṃ gantuṃ śrāddhaṃ kṛtvā vidhānataḥ |
vidhāya kāpaṭaṃ viṣaṃ grāmasyāpi pradakṣiṇam
ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम् ।
कृत्वा प्रदक्षिणं गच्छेत्प्रतिग्रहविवर्जितः
tato grāmāntaraṃ gatvā śrāddhaśeṣasya bhojanam |
kṛtvā pradakṣiṇaṃ gacchetpratigrahavivarjitaḥ
गृहाच्चलितमात्रस्य गयायां गमनं प्रति ।
स्वर्गारोहणसोपानं पितॄणां तु पदे पदे
gṛhāccalitamātrasya gayāyāṃ gamanaṃ prati |
svargārohaṇasopānaṃ pitṝṇāṃ tu pade pade
मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः ।
वर्जयित्वा कुरुक्षेत्रं विशालां विरजां गयाम्
muṇḍanaṃ copavāsaśca sarvatīrtheṣvayaṃ vidhiḥ |
varjayitvā kurukṣetraṃ viśālāṃ virajāṃ gayām
दिवा च सर्वदा रात्रौ गयायां श्राद्धकृद्भवेत् ।
वाराणस्यां कृतं श्राद्धं तीर्थे शोणनदे तथा
divā ca sarvadā rātrau gayāyāṃ śrāddhakṛdbhavet |
vārāṇasyāṃ kṛtaṃ śrāddhaṃ tīrthe śoṇanade tathā
पुनः पुनामहानद्यां श्राद्धी स्वर्गं पितॄन्नयेत् ।
उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम्
punaḥ punāmahānadyāṃ śrāddhī svargaṃ pitṝnnayet |
uttaraṃ mānasaṃ gatvā siddhiṃ prāpnotyanuttamām
तस्मिन्निवर्त्तयेच्छ्राद्धं स्नानं चैव निवर्त्तयेत् ।
कामान्स लभते दिव्यान्मोक्षोपायं च सर्वशः
tasminnivarttayecchrāddhaṃ snānaṃ caiva nivarttayet |
kāmānsa labhate divyānmokṣopāyaṃ ca sarvaśaḥ
दक्षिणं मानसं गत्वा मौनी पिण्डादि कारयेत् ।
ऋणत्रयापाकरणं लभेद्दक्षिणमानसे
dakṣiṇaṃ mānasaṃ gatvā maunī piṇḍādi kārayet |
ṛṇatrayāpākaraṇaṃ labheddakṣiṇamānase
सिद्धानां प्रीतिजननैः पापानां च भयङ्करैः ।
लेलिहानैर्महाघोरैरक्षतैः पन्नगोत्तमैः
siddhānāṃ prītijananaiḥ pāpānāṃ ca bhayaṅkaraiḥ |
lelihānairmahāghorairakṣataiḥ pannagottamaiḥ
नाम्ना कनखलं तीर्थं त्रिषु लोकेषु विश्रुतम् ।
उदीच्यां मुण्डपृष्ठस्य देवर्षिगणसेवितम्
nāmnā kanakhalaṃ tīrthaṃ triṣu lokeṣu viśrutam |
udīcyāṃ muṇḍapṛṣṭhasya devarṣigaṇasevitam
तत्र स्नात्वा दिवं याति श्राद्धं दत्तमथाक्षयम् ।
सूर्य्यं नत्वा त्विदं कुर्य्यात्कृतपिण्डादिसत्क्रियः
tatra snātvā divaṃ yāti śrāddhaṃ dattamathākṣayam |
sūryyaṃ natvā tvidaṃ kuryyātkṛtapiṇḍādisatkriyaḥ
कव्यवाहस्तथा सोमो यमश्चैवार्य्यमा तथा ।
अग्निष्वात्ता बर्हिषदः सोमपाः पितृदेवताः
kavyavāhastathā somo yamaścaivāryyamā tathā |
agniṣvāttā barhiṣadaḥ somapāḥ pitṛdevatāḥ
आगच्छन्तु महाभागा युषमाभी रक्षितास्त्विह ।
मदीयाः पितरो ये च कुले जाताः सनाभयः
āgacchantu mahābhāgā yuṣamābhī rakṣitāstviha |
madīyāḥ pitaro ye ca kule jātāḥ sanābhayaḥ
तेषां पिण्डप्रदानार्थमागतोऽस्मि गयामिमाम् ।
कृतपिण्डः फल्गुतीर्थे पश्यैद्देवं पितामहम्
teṣāṃ piṇḍapradānārthamāgato'smi gayāmimām |
kṛtapiṇḍaḥ phalgutīrthe paśyaiddevaṃ pitāmaham
गदाधरं ततः पश्येत्पितॄणामनृणामनृणो भवेत् ।
फल्गुतीर्थे नरः स्नात्वा दृष्ट्वा देवं गदाधरम्
gadādharaṃ tataḥ paśyetpitṝṇāmanṛṇāmanṛṇo bhavet |
phalgutīrthe naraḥ snātvā dṛṣṭvā devaṃ gadādharam
आत्मानं तारयेत्सद्यो दश पूर्वान्दशापरान् ।
प्रथमेह्निविधिः प्रोक्तो द्वितीयदिवसे व्रजेत्
ātmānaṃ tārayetsadyo daśa pūrvāndaśāparān |
prathamehnividhiḥ prokto dvitīyadivase vrajet
धर्मारण्यं मतङ्गस्य वाप्यां पिण्डादिकृद्भवेत् ।
धर्मारण्यं समासाद्य वाजपेयफलं लभेत्
dharmāraṇyaṃ mataṅgasya vāpyāṃ piṇḍādikṛdbhavet |
dharmāraṇyaṃ samāsādya vājapeyaphalaṃ labhet
राजसूयाश्वमेधाभ्यां फलं स्याद्ब्रह्मतीर्थके ।
श्राद्धं पिण्डोदकं कार्य्यं मध्ये वै कूपयूपयोः
rājasūyāśvamedhābhyāṃ phalaṃ syādbrahmatīrthake |
śrāddhaṃ piṇḍodakaṃ kāryyaṃ madhye vai kūpayūpayoḥ
कूपोदकेन तत्कार्य्यं पितॄणां दत्तमक्षयम् ।
तृतीयेऽह्नि ब्रह्मसदो गत्वा स्नात्वाथ तर्पणम्
kūpodakena tatkāryyaṃ pitṝṇāṃ dattamakṣayam |
tṛtīye'hni brahmasado gatvā snātvātha tarpaṇam
कृत्वा श्राद्धादिकं पिण्डं मध्ये वै यूपकूपयोः ।
गोप्रचारसमीपस्था आब्रह्म ब्रह्मकल्पिताः
kṛtvā śrāddhādikaṃ piṇḍaṃ madhye vai yūpakūpayoḥ |
gopracārasamīpasthā ābrahma brahmakalpitāḥ
तेषां सेवनमात्रेण पितरो मोक्षगामिनः ।
यूपं प्रदक्षिणीकृत्य वाजपेयफलं लभेत्
teṣāṃ sevanamātreṇa pitaro mokṣagāminaḥ |
yūpaṃ pradakṣiṇīkṛtya vājapeyaphalaṃ labhet
फल्गुतीर्थे चतुर्थेऽहनि स्नात्वा देवादितर्पणम् ।
कृत्वा श्राद्धंगयाशीर्षे कुर्याद्रुद्रपदादिषु
phalgutīrthe caturthe'hani snātvā devāditarpaṇam |
kṛtvā śrāddhaṃgayāśīrṣe kuryādrudrapadādiṣu
पिण्डान्देहिमुखे व्यासे पंचाग्नौ च पदत्रये ।
सूर्य्येन्दुकार्त्तिकेयेषु कृतं श्राद्धं तथाक्षयम्
piṇḍāndehimukhe vyāse paṃcāgnau ca padatraye |
sūryyendukārttikeyeṣu kṛtaṃ śrāddhaṃ tathākṣayam
श्राद्धं तु नवदेवत्यं कुर्य्याद्द्वादशदैवतम् ।
अन्वष्टकासु वृद्धौ च गयायां मृतवासरे
śrāddhaṃ tu navadevatyaṃ kuryyāddvādaśadaivatam |
anvaṣṭakāsu vṛddhau ca gayāyāṃ mṛtavāsare
अत्र मातुः पृथक् श्राद्धमन्यत्र पतिना सह ।
स्नात्वा दशाश्वमेधे तु दृष्ट्वा देवं पितामहम्
atra mātuḥ pṛthak śrāddhamanyatra patinā saha |
snātvā daśāśvamedhe tu dṛṣṭvā devaṃ pitāmaham
रुद्रपादं नरः स्पृष्ट्वा न चेहावर्त्तते पुनः ।
त्रिर्वित्तपूर्णां पृथिवीं दत्त्वा यत्फलमाप्नुयात्
rudrapādaṃ naraḥ spṛṣṭvā na cehāvarttate punaḥ |
trirvittapūrṇāṃ pṛthivīṃ dattvā yatphalamāpnuyāt
स तत्फलमवाप्नोति कृत्वा श्राद्धं गयाशिरे ।
शमीपत्रप्रमाणेन पिण्डं दद्याद्गयाशिरे
sa tatphalamavāpnoti kṛtvā śrāddhaṃ gayāśire |
śamīpatrapramāṇena piṇḍaṃ dadyādgayāśire
पितरो यान्ति देवत्वं नात्र कार्य्या विचारणा ।
मुण्डपृष्टे पदं न्यस्तं महादेवेन धीमता
pitaro yānti devatvaṃ nātra kāryyā vicāraṇā |
muṇḍapṛṣṭe padaṃ nyastaṃ mahādevena dhīmatā
अल्पेन तपसा तत्र महापुण्यमवाप्नुयात् ।
गयाशीर्षे तु यः पिण्डान्नाम्ना येषां तु निर्वपेत्
alpena tapasā tatra mahāpuṇyamavāpnuyāt |
gayāśīrṣe tu yaḥ piṇḍānnāmnā yeṣāṃ tu nirvapet
नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः ।
पञ्चमेऽह्नि गंदालोले स्नात्वा वटतले ततः
narakasthā divaṃ yānti svargasthā mokṣamāpnuyuḥ |
pañcame'hni gaṃdālole snātvā vaṭatale tataḥ
पिण्डान्दद्यात्पितॄणां च सकलं तारयेत्कुलम् ।
वटमूलं समासाद्य शाकेनोष्णोदकेन वा
piṇḍāndadyātpitṝṇāṃ ca sakalaṃ tārayetkulam |
vaṭamūlaṃ samāsādya śākenoṣṇodakena vā
एकस्मिन् भोजिते विप्र कोटिर्भवति भोजिताः ।
कृते श्राद्धेऽक्षयवटे दृष्ट्वा च प्रपितामहम्
ekasmin bhojite vipra koṭirbhavati bhojitāḥ |
kṛte śrāddhe'kṣayavaṭe dṛṣṭvā ca prapitāmaham
अक्षयान्लभते लोकान्कुलानामुद्धरेच्छतम् ।
एष्टव्या बहवः पुत्त्रा यद्येकोऽपि गयां व्रजेत्
akṣayānlabhate lokānkulānāmuddharecchatam |
eṣṭavyā bahavaḥ puttrā yadyeko'pi gayāṃ vrajet
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ।
प्रेतः कश्चित्समुद्दिश्य वणिजं कञ्चिदब्रवीत्
yajeta vāśvamedhena nīlaṃ vā vṛṣamutsṛjet |
pretaḥ kaścitsamuddiśya vaṇijaṃ kañcidabravīt
मम नाम्ना गयाशीर्षे पिण्डनिर्वपणं कुरु ।
प्रेतभावाद्विमुक्तः स्यांस्वर्गदो दातुरेव च
mama nāmnā gayāśīrṣe piṇḍanirvapaṇaṃ kuru |
pretabhāvādvimuktaḥ syāṃsvargado dātureva ca
श्रुत्वा वणिग्गयाशीर्ष प्रेतराजाय पिण्डकम् ।
प्रददावनुजैः सार्द्धं स्वपितृभ्यस्ततो ददौ
śrutvā vaṇiggayāśīrṣa pretarājāya piṇḍakam |
pradadāvanujaiḥ sārddhaṃ svapitṛbhyastato dadau
सर्वे मुक्ता विशालोऽपि सपुत्रोऽभुच्च पिंडदः ।
विशालायां विशालोऽभूद्राजपुत्रोब्रवीद्द्विजान्
sarve muktā viśālo'pi saputro'bhucca piṃḍadaḥ |
viśālāyāṃ viśālo'bhūdrājaputrobravīddvijān
कथं पुत्रादयः स्युर्मे विप्राश्चोतुर्विशालकम् ।
गयायां पिण्डदानेन तव सर्वं भविष्यति
kathaṃ putrādayaḥ syurme viprāścoturviśālakam |
gayāyāṃ piṇḍadānena tava sarvaṃ bhaviṣyati
विशालोऽथ गयाशीर्ष पिण्डदोऽभूच्च पुत्रवान् ।
दृष्ट्वाकाशे सितं रक्तं कृष्णं पुरुषमब्रवीत्
viśālo'tha gayāśīrṣa piṇḍado'bhūcca putravān |
dṛṣṭvākāśe sitaṃ raktaṃ kṛṣṇaṃ puruṣamabravīt
के यूयं तेषु चैवैकः सितः प्रोचे विशालकम् ।
अहं सितस्ते जनक इन्द्रलोकं गतः शुभम्
ke yūyaṃ teṣu caivaikaḥ sitaḥ proce viśālakam |
ahaṃ sitaste janaka indralokaṃ gataḥ śubham
मम पुत्र पिता रक्तो ब्रह्महा पापकृत्परम् ।
अयं पितामहः कृष्ण ऋषयोऽनेन घातिताः
mama putra pitā rakto brahmahā pāpakṛtparam |
ayaṃ pitāmahaḥ kṛṣṇa ṛṣayo'nena ghātitāḥ
अवीचिं नरकं प्राप्तौ मुक्तौ जातौ च पिण्डदः ।
मुक्तीकृतास्ततः सर्वे व्रजामः स्वर्गमुत्तमम्
avīciṃ narakaṃ prāptau muktau jātau ca piṇḍadaḥ |
muktīkṛtāstataḥ sarve vrajāmaḥ svargamuttamam
कृतकृत्यो विशालोऽपि राज्यं कृत्वा दिवं ययौ ।
येऽस्मत्कुले तु पितरो लुप्तपिण्डोदकक्रियाः
kṛtakṛtyo viśālo'pi rājyaṃ kṛtvā divaṃ yayau |
ye'smatkule tu pitaro luptapiṇḍodakakriyāḥ
ये चाप्यकृतचूडास्तु ये च गर्भाद्विनिस्सृताः ।
येषां दाहो न क्रियाच येऽग्निदग्धास्तथापरे
ye cāpyakṛtacūḍāstu ye ca garbhādvinissṛtāḥ |
yeṣāṃ dāho na kriyāca ye'gnidagdhāstathāpare
भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम् ।
पिता पितामहश्चैव तथैव प्रपितामहः
bhūmau dattena tṛpyantu tṛptā yāntu parāṃ gatim |
pitā pitāmahaścaiva tathaiva prapitāmahaḥ
माता पितामही चैव तथैव प्रपितामही ।
तथा मातामहश्चैव प्रमातामह एव च
mātā pitāmahī caiva tathaiva prapitāmahī |
tathā mātāmahaścaiva pramātāmaha eva ca
वृद्धप्रमातामहश्च तथा मातामही परम् ।
प्रमातामही तथा वृद्धप्रमातामहीति वै
vṛddhapramātāmahaśca tathā mātāmahī param |
pramātāmahī tathā vṛddhapramātāmahīti vai
अन्येषां चैव पिंडोऽयमक्षय्यमुपतिष्ठताम्
anyeṣāṃ caiva piṃḍo'yamakṣayyamupatiṣṭhatām
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)