पूर्व खण्ड — आचार काण्ड

अध्याय 82: गयासुर और गया क्षेत्र की स्थापना

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम द्व्यशीतितमोऽध्यायः ॥

19 श्लोक · 82 में से 241

इस अध्याय में क्या होता है

गयासुर और गया क्षेत्र की स्थापना

ब्रह्मा व्यास को गया का माहात्म्य सुनाते हैं। प्राचीन काल में पराक्रमी गयासुर ने ऐसा घोर तप किया कि सब प्राणी तप उठे। देवता हरि की शरण गए, और हरि ने कहा कि उसका विशाल शरीर गिराया जाएगा। एक बार शिवपूजा के लिए क्षीरसागर से कमल लाकर गयासुर कीकट देश में लेट गया; विष्णु की माया से मोहित उस असुर को विष्णु ने गदा से मार गिराया। इसी से गया में विष्णु गदाधर रूप में मोक्षदाता बनकर स्थित हैं। ब्रह्मा ने वहाँ यज्ञ किया और पाँच कोस का क्षेत्र ब्राह्मणों को दिया, पर लोभवश दान लेने पर उन्हें शाप दिया। गया में श्राद्ध करने से ब्रह्महत्या, सुरापान, चोरी जैसे पाप नष्ट होते हैं, और संस्कारहीन, चोर से मारे गए तथा सर्पदंश से मरे पितर भी स्वर्ग जाते हैं।

ब्रह्मोवाच

82.1

सारात्सारतरं व्यास गयामाहात्म्यमुत्तमम् ।
प्रवक्ष्यामि समासेन भुक्तिमुक्तिप्रदं श्रृणु

sārātsārataraṃ vyāsa gayāmāhātmyamuttamam |
pravakṣyāmi samāsena bhuktimuktipradaṃ śrṛṇu

82.2

गयासुरोऽभवत्पूर्वं वीर्य्यवान्परमः स च ।
तपस्तप्यन्महाघोरं सर्वभूतोपतापनम्

gayāsuro'bhavatpūrvaṃ vīryyavānparamaḥ sa ca |
tapastapyanmahāghoraṃ sarvabhūtopatāpanam

82.3

तत्तपस्तापिता देवास्तद्वधार्थं हरिं गताः ।
शरणं हरिरूचे तान् भवितव्यं शिवात्मभइः

tattapastāpitā devāstadvadhārthaṃ hariṃ gatāḥ |
śaraṇaṃ harirūce tān bhavitavyaṃ śivātmabhaiḥ

82.4

पात्यतेऽस्य महादेहो तथेत्यूचुः सुरा हरिम् ।
कदाचिच्छिवपूजार्थं क्षीराब्धेः कमलानि च

pātyate'sya mahādeho tathetyūcuḥ surā harim |
kadācicchivapūjārthaṃ kṣīrābdheḥ kamalāni ca

82.5

आनीय कीकटे देशे शयनं चाकरोद्वली ।
विष्णुमायाविमूढोऽसौ गदया विष्णुना हतः

ānīya kīkaṭe deśe śayanaṃ cākarodvalī |
viṣṇumāyāvimūḍho'sau gadayā viṣṇunā hataḥ

82.6

अतो गदाधरो विष्णुर्गयायां मुक्तिदः स्थितः ।
तस्य देहो लिङ्गरूपी स्थितः शुद्धे पितामहः

ato gadādharo viṣṇurgayāyāṃ muktidaḥ sthitaḥ |
tasya deho liṅgarūpī sthitaḥ śuddhe pitāmahaḥ

82.7

जनार्द्दनश्च कालेशस्तथान्यः प्रपितामहः ।
विष्णुराहाथ मर्य्यादां पुण्यक्षेत्रं भविष्यति

janārddanaśca kāleśastathānyaḥ prapitāmahaḥ |
viṣṇurāhātha maryyādāṃ puṇyakṣetraṃ bhaviṣyati

82.8

यज्ञं श्राद्धं पिण्डदानं स्नानादि कुरुते नरः ।
स स्वर्गं ब्रह्मलोकं च गच्छेन्न नरकं नरः

yajñaṃ śrāddhaṃ piṇḍadānaṃ snānādi kurute naraḥ |
sa svargaṃ brahmalokaṃ ca gacchenna narakaṃ naraḥ

82.9

गयातीर्थं परं ज्ञात्वा यागं चक्रे पितामहः ।
ब्राह्मणान्पूजयामास ऋत्विगर्थमुपागतान्

gayātīrthaṃ paraṃ jñātvā yāgaṃ cakre pitāmahaḥ |
brāhmaṇānpūjayāmāsa ṛtvigarthamupāgatān

82.10

महानदीं रसवहां सृष्ट्वा वाप्यादिकं तथा ।
भक्ष्यभोज्यफलादींश्च कामधेनुं तथासृजत्

mahānadīṃ rasavahāṃ sṛṣṭvā vāpyādikaṃ tathā |
bhakṣyabhojyaphalādīṃśca kāmadhenuṃ tathāsṛjat

82.11

पञ्चक्रोशं गया क्षेत्रं ब्राह्मणेभ्यो ददौ प्रभुः ।
धर्मयागेषु लोभात्तु प्रतिगृह्य धनादिकम्

pañcakrośaṃ gayā kṣetraṃ brāhmaṇebhyo dadau prabhuḥ |
dharmayāgeṣu lobhāttu pratigṛhya dhanādikam

82.12

स्थिता विप्रास्तदा शप्ता गयायां ब्राह्मणास्ततः ।
मा भूत्त्रैपुरुषी विद्या मा भूत्त्रैपुरुषं धनम्

sthitā viprāstadā śaptā gayāyāṃ brāhmaṇāstataḥ |
mā bhūttraipuruṣī vidyā mā bhūttraipuruṣaṃ dhanam

82.13

युष्माकं स्याद्वारिवहा नदी पाषाणपर्वतः ।
शप्तैस्तु प्रार्थितो ब्रह्मानुग्रहं कृतवान्प्रभुः

yuṣmākaṃ syādvārivahā nadī pāṣāṇaparvataḥ |
śaptaistu prārthito brahmānugrahaṃ kṛtavānprabhuḥ

82.14

लोकाः पुण्या गयायां हि श्राद्धिनो ब्रह्मलोकगाः ।
युष्मान्ये पूजयिष्यन्ति तैरहं पूजितः सदा

lokāḥ puṇyā gayāyāṃ hi śrāddhino brahmalokagāḥ |
yuṣmānye pūjayiṣyanti tairahaṃ pūjitaḥ sadā

82.15

ब्रह्मज्ञानं गयाश्राद्धं गोगृहे मरणं तथा ।
वासः पुंसां कुरुक्षेत्रे मुक्तिरेषा चतुर्विधा

brahmajñānaṃ gayāśrāddhaṃ gogṛhe maraṇaṃ tathā |
vāsaḥ puṃsāṃ kurukṣetre muktireṣā caturvidhā

82.16

समुद्राः सरितः सर्वा वापीकूपह्रदास्तथा ।
स्नातुकामा गयातीर्थं व्यास यान्ति न संशयः

samudrāḥ saritaḥ sarvā vāpīkūpahradāstathā |
snātukāmā gayātīrthaṃ vyāsa yānti na saṃśayaḥ

82.17

ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ।
पापं तत्सङ्गजं सर्वं गयाश्राद्धाद्विनश्यति

brahmahatyā surāpānaṃ steyaṃ gurvaṃganāgamaḥ |
pāpaṃ tatsaṅgajaṃ sarvaṃ gayāśrāddhādvinaśyati

82.18

असंस्कृता मृता य च पशुचोरहताश्च ये ।
सर्पदष्टा गयाश्राद्धान्मुक्ताः स्वर्गं व्रजन्ति ते

asaṃskṛtā mṛtā ya ca paśucorahatāśca ye |
sarpadaṣṭā gayāśrāddhānmuktāḥ svargaṃ vrajanti te

82.19

गयायां पिण्डदानेन यत्फलं लभते नरः ।
न तच्छक्यं मया वक्तुं वर्षकोटिशतैरपि

gayāyāṃ piṇḍadānena yatphalaṃ labhate naraḥ |
na tacchakyaṃ mayā vaktuṃ varṣakoṭiśatairapi

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)