पूर्व खण्ड — आचार काण्ड

अध्याय 81: भारत के महान तीर्थ

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सर्वतीर्थ माहात्म्यं नामैकाशीतितमोऽध्यायः ॥

31 श्लोक · 81 में से 241

इस अध्याय में क्या होता है

भारत के महान तीर्थ

सूत तीर्थों का वर्णन करते हैं। गङ्गा सब तीर्थों में श्रेष्ठ है; वह सर्वत्र सुलभ है, पर गङ्गाद्वार, प्रयाग और गङ्गासागर सङ्गम, इन तीन स्थानों पर दुर्लभ है। प्रयाग में देह त्यागने वालों और पिण्ड देने वालों को भोग और मोक्ष दोनों मिलते हैं। वाराणसी परम तीर्थ है जहाँ विश्वेश और केशव विराजते हैं; कुरुक्षेत्र दान से फल देता है; प्रभास में सोमनाथ हैं। फिर लम्बी सूची आती है: कावेरी, चन्द्रभागा, विपाशा, एकाम्र, मथुरा, शोण, जम्बूसर, नासिक, गोवर्धन, कृष्णवेणी, भीमरथी, गण्डकी, विष्णुपादोदक वाला बिन्दुसर, सह्याद्रि और नील पर्वत के धाम। कनखल में स्नान करने वाला फिर जन्म नहीं लेता। अन्त में ब्रह्मा गया को सबसे उत्तम, अक्षय फल और ब्रह्मलोक देने वाला तीर्थ बताते हैं।

सूत उवाच

81.1

सर्वतीर्थानि वक्ष्यामि गङ्गा तीर्थोत्तमोत्तमा ।
सर्वत्र सुलभा गङ्गात्रिषु स्थानेषु दुर्लभा

sarvatīrthāni vakṣyāmi gaṅgā tīrthottamottamā |
sarvatra sulabhā gaṅgātriṣu sthāneṣu durlabhā

81.2

गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे ।
प्रयागं परमं तीर्थं मृतानां भुक्तिमुक्तिदम्

gaṅgādvāre prayāge ca gaṅgāsāgarasaṅgame |
prayāgaṃ paramaṃ tīrthaṃ mṛtānāṃ bhuktimuktidam

81.3

सेवनात्कृतपिण्डानां पापजित्कामदं नृणाम् ।
वाराणसी परं तीर्थं विश्वेशो यत्र केशवः

sevanātkṛtapiṇḍānāṃ pāpajitkāmadaṃ nṛṇām |
vārāṇasī paraṃ tīrthaṃ viśveśo yatra keśavaḥ

81.4

कुरुक्षेत्रं परं तीर्थं दानाद्यैर्भुक्तिमुक्तिदम् ।
प्रभासं परं तीर्थं सोमनाथो हि तत्र च

kurukṣetraṃ paraṃ tīrthaṃ dānādyairbhuktimuktidam |
prabhāsaṃ paraṃ tīrthaṃ somanātho hi tatra ca

81.5

द्वारका च पुरी रम्या भुक्तिमुक्तिप्रदायिका ।
प्राची सरस्वती पुण्या सप्तसारस्वतं परम्

dvārakā ca purī ramyā bhuktimuktipradāyikā |
prācī sarasvatī puṇyā saptasārasvataṃ param

81.6

केदारं सर्वपापघ्नं स
म्भलग्राम उत्तमः ।
नरनारायणं तीर्थं मुक्त्यै वदरिकाश्रमः

kedāraṃ sarvapāpaghnaṃ sa
mbhalagrāma uttamaḥ |
naranārāyaṇaṃ tīrthaṃ muktyai vadarikāśramaḥ

81.7

श्वेतद्वीपं पुरी माया नैमिषं पुष्करं परम् ।
अयोध्यां चार्घ्यतीर्थं तु चित्रकूटं च गोमती

śvetadvīpaṃ purī māyā naimiṣaṃ puṣkaraṃ param |
ayodhyāṃ cārghyatīrthaṃ tu citrakūṭaṃ ca gomatī

81.8

वैनायकं महीतीर्थं रामगिर्य्याश्रमं परम् ।
काञ्चीपुरी तुङ्गभद्रा श्रीशैलं सेतुबन्धनम्

vaināyakaṃ mahītīrthaṃ rāmagiryyāśramaṃ param |
kāñcīpurī tuṅgabhadrā śrīśailaṃ setubandhanam

81.9

रामेश्वरं परं तीर्थं कार्त्तिकेयं तथोत्तमम् ।
भृगुतुङ्गं कामतीर्थं तीर्थं चामरकंटकम्

rāmeśvaraṃ paraṃ tīrthaṃ kārttikeyaṃ tathottamam |
bhṛgutuṅgaṃ kāmatīrthaṃ tīrthaṃ cāmarakaṃṭakam

81.10

उज्जयिन्यां महाकालः कुब्जके श्रीधरो हरिः ।
कुब्जाम्रकं महातीर्थं कालसर्पिश्च कामदम्

ujjayinyāṃ mahākālaḥ kubjake śrīdharo hariḥ |
kubjāmrakaṃ mahātīrthaṃ kālasarpiśca kāmadam

81.11

महाकेशी च कावेरी चन्द्रभागा विपाशया ।
एकाम्रं च तथा तीर्थं ब्रह्मेशं देवकोटकम्

mahākeśī ca kāverī candrabhāgā vipāśayā |
ekāmraṃ ca tathā tīrthaṃ brahmeśaṃ devakoṭakam

81.12

मथुरा च पुरी रम्या शोणश्चैव महानदः ।
जम्बूसरो महातीर्थं तानि तीर्थानि विद्धि च

mathurā ca purī ramyā śoṇaścaiva mahānadaḥ |
jambūsaro mahātīrthaṃ tāni tīrthāni viddhi ca

81.13

सूर्य्यः शिवो गणो देवी हरिर्यत्र च तिष्ठति ।
एतेषु च यथान्येषु स्नानं दानं जपस्तपः

sūryyaḥ śivo gaṇo devī hariryatra ca tiṣṭhati |
eteṣu ca yathānyeṣu snānaṃ dānaṃ japastapaḥ

81.14

पूजा श्राद्धं पिण्डदानं सर्वं भवति चाक्षयम् ।
शालग्रामं सर्वदं स्यात्तीर्थं पशुपतेः परम्

pūjā śrāddhaṃ piṇḍadānaṃ sarvaṃ bhavati cākṣayam |
śālagrāmaṃ sarvadaṃ syāttīrthaṃ paśupateḥ param

81.15

कोकामुखं च वाराहं भा
ण्डीरं स्वामिसंज्ञकम् ।
लो
हदण्डे महाविष्णुर्मन्दारे मधुसूदनः

kokāmukhaṃ ca vārāhaṃ bhā
ṇḍīraṃ svāmisaṃjñakam |
lo
hadaṇḍe mahāviṣṇurmandāre madhusūdanaḥ

81.16

कामरूपं महातीर्थं कामाख्या
यत्र तिष्ठति ।
पुण्ड्रवर्द्धनकं तीर्थं कार्त्तिकेयश्च यत्र च

kāmarūpaṃ mahātīrthaṃ kāmākhyā
yatra tiṣṭhati |
puṇḍravarddhanakaṃ tīrthaṃ kārttikeyaśca yatra ca

81.17

विरजस्तु महातीर्थं तीर्थं श्रीपुरुषोत्तमम् ।
महेन्द्रपर्वतस्तीर्थं कावेरी च नदी परा

virajastu mahātīrthaṃ tīrthaṃ śrīpuruṣottamam |
mahendraparvatastīrthaṃ kāverī ca nadī parā

81.18

गोदावरी महातीर्थं पयोष्णी वरदा नदी ।
विन्ध्यः पापहरं तीर्थं नर्मदाभेद उत्तमः

godāvarī mahātīrthaṃ payoṣṇī varadā nadī |
vindhyaḥ pāpaharaṃ tīrthaṃ narmadābheda uttamaḥ

81.19

गोकर्णं परमं तीर्थं तीर्थं माहिष्मती पुरी ।
कालञ्जरं महीतीर्थं शुक्लतीर्थमनुत्तमम्

gokarṇaṃ paramaṃ tīrthaṃ tīrthaṃ māhiṣmatī purī |
kālañjaraṃ mahītīrthaṃ śuklatīrthamanuttamam

81.20

कृते शौचे मुक्तिदं च शार्ङ्गधारी तदन्तिके ।
विरजं सर्वदं तीर्थं स्वर्णाक्षं तीर्थमुत्तमम्

kṛte śauce muktidaṃ ca śārṅgadhārī tadantike |
virajaṃ sarvadaṃ tīrthaṃ svarṇākṣaṃ tīrthamuttamam

81.21

नन्दितीर्थं मुक्तिदं च कोटितीर्थफलप्रदम् ।
नासिक्यं च महातीर्थं गोवर्द्धनमतः परम्

nanditīrthaṃ muktidaṃ ca koṭitīrthaphalapradam |
nāsikyaṃ ca mahātīrthaṃ govarddhanamataḥ param

81.22

कृष्णवेणीं भीमरथीं गण्डकीं या त्विरावती ।
तीर्थं बिन्दुसरः पुण्यं विष्णुपादोदकं परम्

kṛṣṇaveṇīṃ bhīmarathīṃ gaṇḍakīṃ yā tvirāvatī |
tīrthaṃ bindusaraḥ puṇyaṃ viṣṇupādodakaṃ param

81.23

ब्रह्मध्यानं परं तीर्थं तीर्थमिन्द्रियनिग्रहः ।
दमस्तीर्थं तु परमं भवशुद्धिः परं तथा

brahmadhyānaṃ paraṃ tīrthaṃ tīrthamindriyanigrahaḥ |
damastīrthaṃ tu paramaṃ bhavaśuddhiḥ paraṃ tathā

81.24

ज्ञानह्रदे ध्यानजले रागद्वेषमलापहे ।
यः स्नाति मानसे तीर्थे स याति परमां गतिम्

jñānahrade dhyānajale rāgadveṣamalāpahe |
yaḥ snāti mānase tīrthe sa yāti paramāṃ gatim

81.25

इदं तीर्थमिदं नेति ये नरा भेददर्शिनः ।
तेषां विधीयते तीर्थगमनं तत्फलं च यत्

idaṃ tīrthamidaṃ neti ye narā bhedadarśinaḥ |
teṣāṃ vidhīyate tīrthagamanaṃ tatphalaṃ ca yat

81.26

सर्वं ब्रह्मेतियोऽवेति नातीर्थं तस्य किञ्चन ।
एतेषु स्नानदानानि श्राद्धं पिण्डमथाक्षयम्

sarvaṃ brahmetiyo'veti nātīrthaṃ tasya kiñcana |
eteṣu snānadānāni śrāddhaṃ piṇḍamathākṣayam

81.27

सर्वा नद्यः सर्वशैलाः तीर्थं देवादिसेवितम् ।
श्रीरङ्गं च हरेस्तीर्थं तापी श्रेष्ठा महानदी

sarvā nadyaḥ sarvaśailāḥ tīrthaṃ devādisevitam |
śrīraṅgaṃ ca harestīrthaṃ tāpī śreṣṭhā mahānadī

81.28

सप्तगोदावरं तीर्थं तीर्थं कोणगिरिः परम् ।
महालक्ष्मीर्यत्र देवी प्रणीता परमा नदी

saptagodāvaraṃ tīrthaṃ tīrthaṃ koṇagiriḥ param |
mahālakṣmīryatra devī praṇītā paramā nadī

81.29

सह्याद्रौ देवदेवेश एकवीरः सुरेश्वरी ।
गङ्गाद्वारे कुशावर्त्ते विन्ध्यके नीलपर्वते

sahyādrau devadeveśa ekavīraḥ sureśvarī |
gaṅgādvāre kuśāvartte vindhyake nīlaparvate

81.30

स्नात्वा कनखले तीर्थे स भवेन्न पुनर्भवे ।
(सूत उवाच)
एतान्यन्यानि तीर्थानि स्नानाद्यैः सर्वदानि हि

snātvā kanakhale tīrthe sa bhavenna punarbhave |
(sūta uvāca)
etānyanyāni tīrthāni snānādyaiḥ sarvadāni hi

81.31

श्रुत्वाऽब्रवीद्धरेर्ब्रह्मा व्यासं दक्षादिसंयुतम् ।
एतान्युक्त्वा च तीर्थानि पुनस्तीर्थोत्तमोत्तमम् ।
गयाख्यं प्राह सर्वेषामक्षयं ब्रह्मलोकदम्

śrutvā'bravīddharerbrahmā vyāsaṃ dakṣādisaṃyutam |
etānyuktvā ca tīrthāni punastīrthottamottamam |
gayākhyaṃ prāha sarveṣāmakṣayaṃ brahmalokadam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)