भूमिष्ठे मण्डपे स्नात्वा मण्डले विष्णुमर्चयेत् ।
पञ्चरंगिकचूर्णेन वज्रनाभं तु मण्डलम्
bhūmiṣṭhe maṇḍape snātvā maṇḍale viṣṇumarcayet |
pañcaraṃgikacūrṇena vajranābhaṃ tu maṇḍalam
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुपूजोपयोगिवज्रनाभमण्डलनिरूपणं नामाष्टमोऽध्यायः ॥
16 श्लोक · 8 में से 241
श्रीहरि बताते हैं कि जिस वज्रनाभ मण्डल पर विष्णु का पूजन होता है, वह कैसे बनाया जाए। चौकोर स्थान सोलह कोष्ठों में बाँटा जाता है। सूत्रों से कमल की कर्णिका, केसर और दल बनाए जाते हैं। मण्डल पाँच रंगों के चूर्ण से भरा जाता है: चौकोर भाग काला, द्वार श्वेत, और रेखाएँ क्रम से श्वेत, लाल, पीली और काली। फिर न्यास होता है। साधक पूरे शरीर में ब्रह्मा और हाथों में श्रीधर का न्यास करता है, "मैं विष्णु हूँ" ऐसा ध्यान करता है और कर्णिका में हरि को स्थापित करता है। पूर्व में संकर्षण, दक्षिण में प्रद्युम्न, पश्चिम में अनिरुद्ध, उत्तर में ब्रह्मा और दिशाओं में इन्द्र आदि रखे जाते हैं। ऐसे पूजन से परम पद मिलता है।
हरिरुवाच
भूमिष्ठे मण्डपे स्नात्वा मण्डले विष्णुमर्चयेत् ।
पञ्चरंगिकचूर्णेन वज्रनाभं तु मण्डलम्
bhūmiṣṭhe maṇḍape snātvā maṇḍale viṣṇumarcayet |
pañcaraṃgikacūrṇena vajranābhaṃ tu maṇḍalam
षोडशैः कोष्ठकैस्तत्र सम्मितं रुद्र कारयेत् ।
चतुर्थपंचकोणेषु सूत्रपातं तु कारयेत्
ṣoḍaśaiḥ koṣṭhakaistatra sammitaṃ rudra kārayet |
caturthapaṃcakoṇeṣu sūtrapātaṃ tu kārayet
कोणसूत्रादुभयतः कोणा ये तत्र संस्थिताः ।
तेषु चैव प्रकुर्वीत सूत्रपातं विचक्षणः
koṇasūtrādubhayataḥ koṇā ye tatra saṃsthitāḥ |
teṣu caiva prakurvīta sūtrapātaṃ vicakṣaṇaḥ
तदनन्तरकोणेषु एवमेव हि कारयेत् ।
प्रथमा नाभिरुद्दिष्टा मध्ये रेखाप्रसंगमे
tadanantarakoṇeṣu evameva hi kārayet |
prathamā nābhiruddiṣṭā madhye rekhāprasaṃgame
अन्तरेषु च सर्वेषु अष्टौ चैव तुनाभयः ।
पूर्वमध्यमनाभिभ्यामथं सूत्रं तु भ्रामयेत्
antareṣu ca sarveṣu aṣṭau caiva tunābhayaḥ |
pūrvamadhyamanābhibhyāmathaṃ sūtraṃ tu bhrāmayet
अन्तरा स द्विजश्रेष्ठः पादोनं भ्रामयेद्धर ।
अनेन नाभिसूत्रस्य कर्णिकां भ्रामयेच्छिव
antarā sa dvijaśreṣṭhaḥ pādonaṃ bhrāmayeddhara |
anena nābhisūtrasya karṇikāṃ bhrāmayecchiva
कर्णिकाया द्विभागेन केसराणि विचक्षणः ।
तदग्रेण सदा विद्वान्दलान्येव समालिखेत्
karṇikāyā dvibhāgena kesarāṇi vicakṣaṇaḥ |
tadagreṇa sadā vidvāndalānyeva samālikhet
सर्वेषु नाभिक्षेत्रषु मानेनानेन सुव्रत ।
पद्मानि तानि कुर्वीत देशिकः पर मार्थवित्
sarveṣu nābhikṣetraṣu mānenānena suvrata |
padmāni tāni kurvīta deśikaḥ para mārthavit
आदिसूत्रविभागेन द्वाराणि परिकल्पयेत् ।
द्वारशोभां तथा तत्र तदर्द्धेन तु कल्पयेत्
ādisūtravibhāgena dvārāṇi parikalpayet |
dvāraśobhāṃ tathā tatra tadarddhena tu kalpayet
कर्णिकां पीतवर्णेन सितरक्तादिकेसरैः ।
अन्तरं नीलवर्णेन दलानि असितेन च
karṇikāṃ pītavarṇena sitaraktādikesaraiḥ |
antaraṃ nīlavarṇena dalāni asitena ca
कृष्णवर्णेन रजसा चतुरश्रं प्रपूरयेत् ।
द्वाराणि शुक्लवर्णेन रेखाः पंच च मण्डले
kṛṣṇavarṇena rajasā caturaśraṃ prapūrayet |
dvārāṇi śuklavarṇena rekhāḥ paṃca ca maṇḍale
सिता रक्ता तथा पीता कृष्णा चैव यथाक्रमम् ।
कृत्वैव मण्डलञ्चादौ न्यासं कृत्वार्चयेद्धरिम्
sitā raktā tathā pītā kṛṣṇā caiva yathākramam |
kṛtvaiva maṇḍalañcādau nyāsaṃ kṛtvārcayeddharim
हृन्मध्ये तु न्यसेद्विष्णुं कण्ठे सङ्कर्षणं तथा ।
प्रद्युम्नं शिरसिन्यस्य शिखायामनिरुद्धकम्
hṛnmadhye tu nyasedviṣṇuṃ kaṇṭhe saṅkarṣaṇaṃ tathā |
pradyumnaṃ śirasinyasya śikhāyāmaniruddhakam
ब्रह्माणं सर्वगात्रेषु करयोः श्रीधरं तथा ।
अहं विष्णुरिति ध्यात्वा कर्णिकायां न्यसेद्धरिम्
brahmāṇaṃ sarvagātreṣu karayoḥ śrīdharaṃ tathā |
ahaṃ viṣṇuriti dhyātvā karṇikāyāṃ nyaseddharim
न्यसेत्सङ्कर्षणं पूर्वे प्रद्युम्नं चैव दक्षिणे ।
अनिरुद्धं पश्चिमे च ब्रह्माणं चोत्तरे न्यसेत्
nyasetsaṅkarṣaṇaṃ pūrve pradyumnaṃ caiva dakṣiṇe |
aniruddhaṃ paścime ca brahmāṇaṃ cottare nyaset
श्रीधरं रुद्रकोणेषु इन्द्रादीन्दिक्षु विन्यसेत् ।
ततोऽभ्यर्च्य च गन्धाद्यैः प्राप्नुयात्परमं पदम्
śrīdharaṃ rudrakoṇeṣu indrādīndikṣu vinyaset |
tato'bhyarcya ca gandhādyaiḥ prāpnuyātparamaṃ padam
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)