पूर्व खण्ड — आचार काण्ड

अध्याय 66: शालग्राम, साठ संवत्सर और स्वरोदय

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे शालग्रामषष्ट्यूब्दस्वरोदयानां निरूपणं नाम षट्षष्टितमोऽध्यायः इति ॥

23 श्लोक · 66 में से 241

इस अध्याय में क्या होता है

शालग्राम, साठ संवत्सर और स्वरोदय

हरि फिर शालग्राम पर आते हैं: बिना चिह्न की शिला भी शुभ है, और चक्रांकित शिला सब कामनाएँ देती है। चक्रों की संख्या से रूपों के नाम हैं: एक सुदर्शन, दो लक्ष्मीनारायण, तीन अच्युत, चार चतुर्भुज, फिर वासुदेव, प्रद्युम्न, संकर्षण, पुरुषोत्तम और आगे अनन्त तक। जहाँ शालग्राम और द्वारका शिला साथ हों, वहाँ मुक्ति निश्चित है। गंगा, नर्मदा, सरस्वती, पुरुषोत्तम और महाकाल तीर्थ कहे गए हैं। फिर साठ संवत्सर गिनाए गए हैं, प्रभव, विभव, शुक्ल, प्रमोद से दुर्मति तक। इसके बाद पाँच स्वरों से स्वरोदय है, जिसमें तिथि और वार के साथ कोष्ठकों में राजा, जय, उदासीन, पीड़ा और मृत्यु का फल पढ़ा जाता है। अन्त में शिव, नृसिंह और मृत्युंजय के बीजमन्त्र हैं, जो भोजपत्र पर लिखकर विजय के लिए धारण किए जाते हैं।

हरिरुवाच

66.1

निर्लक्षणा शुभा स्याच्च चक्राङ्कितशिलार्चनात् ।
आदौ सुदर्शनो मूर्तिर्लक्ष्मीनारायणः परः

nirlakṣaṇā śubhā syācca cakrāṅkitaśilārcanāt |
ādau sudarśano mūrtirlakṣmīnārāyaṇaḥ paraḥ

66.2

त्रिचक्रोऽसावच्युतः स्याच्चतुश्चक्रश्चतुर्भुजः ।
वासुदेवश्च प्रद्युम्नस्ततः सङ्कर्षणः स्मृतः

tricakro'sāvacyutaḥ syāccatuścakraścaturbhujaḥ |
vāsudevaśca pradyumnastataḥ saṅkarṣaṇaḥ smṛtaḥ

66.3

पुरुषोत्तमश्चाष्टमः स्यान्नवव्यूहो दशात्मकः ।
एकादशोऽनिरुद्धः स्याद्द्वादशो द्वादशात्मकः

puruṣottamaścāṣṭamaḥ syānnavavyūho daśātmakaḥ |
ekādaśo'niruddhaḥ syāddvādaśo dvādaśātmakaḥ

66.4

अत ऊर्ध्वमनन्तः स्याच्चक्रे रेखादिकैः क्रमात् ।
सुदर्शना लक्षिताश्च पूजिताः सर्वकामदाः

ata ūrdhvamanantaḥ syāccakre rekhādikaiḥ kramāt |
sudarśanā lakṣitāśca pūjitāḥ sarvakāmadāḥ

66.5

शालग्रामशिला यत्र देवो द्वारवतीभवः ।
उभयोः सङ्गमो यत्र तत्र मुक्तिर्न संशयः

śālagrāmaśilā yatra devo dvāravatībhavaḥ |
ubhayoḥ saṅgamo yatra tatra muktirna saṃśayaḥ

66.6

शालग्रामो द्वारका च नैमिषं पुष्करं गया ।
वाराणसी प्रयागश्च कुरुक्षेत्रं च सूकरम्

śālagrāmo dvārakā ca naimiṣaṃ puṣkaraṃ gayā |
vārāṇasī prayāgaśca kurukṣetraṃ ca sūkaram

66.7

गङ्गा च नर्मदा चैव चन्द्रभागा सरस्वती ।
पुरुषोत्तमो महाकालस्तीर्थान्येतानि शङ्कर

gaṅgā ca narmadā caiva candrabhāgā sarasvatī |
puruṣottamo mahākālastīrthānyetāni śaṅkara

66.8

सर्वपापहराण्येव भुक्तमुक्तिप्रदानि वै ।
प्रभवो विभवः शुक्लः प्रमोदोऽथ प्रजापतिः

sarvapāpaharāṇyeva bhuktamuktipradāni vai |
prabhavo vibhavaḥ śuklaḥ pramodo'tha prajāpatiḥ

66.9

अङ्गिराः श्रीमुखो भावः युवा धाता तथैव च ।
ईश्वरो बहुधान्यश्च प्रमाथी विक्रमो विषुः

aṅgirāḥ śrīmukho bhāvaḥ yuvā dhātā tathaiva ca |
īśvaro bahudhānyaśca pramāthī vikramo viṣuḥ

66.10

चित्रभानुः स्वभानुश्च तारणः पार्थिवो व्ययः ।
सर्वजित्सर्वधारी च विरोधी विकृतिः स्वरः

citrabhānuḥ svabhānuśca tāraṇaḥ pārthivo vyayaḥ |
sarvajitsarvadhārī ca virodhī vikṛtiḥ svaraḥ

66.11

नन्दनो विजयश्चैव जयो मन्मथदुर्मुखौ ।
हेमलम्बो विलंबश्च विकारः शर्वरी प्लवः

nandano vijayaścaiva jayo manmathadurmukhau |
hemalambo vilaṃbaśca vikāraḥ śarvarī plavaḥ

66.12

शुभकृच्छोभनः क्रोधी विश्वावमुपराभवौ ।
प्लवङ्गः कीलकः सौम्यः साधारणविरोधकृत्

śubhakṛcchobhanaḥ krodhī viśvāvamuparābhavau |
plavaṅgaḥ kīlakaḥ saumyaḥ sādhāraṇavirodhakṛt

66.13

परिधावी प्रमादी च आनन्दो राक्षसो नलः ।
पिङ्गलः कालसिद्धार्थौ रौद्रिर्वै दुर्मतिस्तथा

paridhāvī pramādī ca ānando rākṣaso nalaḥ |
piṅgalaḥ kālasiddhārthau raudrirvai durmatistathā

66.14

दुन्दुभी रुधिरोद्गारी रक्ताक्षः क्रोधनोऽक्षयः ।
अशोभनाः शोभनाश्च नाम्नैवैते हि वत्सराः

dundubhī rudhirodgārī raktākṣaḥ krodhano'kṣayaḥ |
aśobhanāḥ śobhanāśca nāmnaivaite hi vatsarāḥ

66.15

कालं वक्ष्यामि संसिद्ध्यै रुद्र पञ्चस्वरोदयात् ।
राजा सा
जा उदासा च पीडा मृत्युस्तथैव च

kālaṃ vakṣyāmi saṃsiddhyai rudra pañcasvarodayāt |
rājā sā
jā udāsā ca pīḍā mṛtyustathaiva ca

66.16

आ ई ऊ ऐ औ स्वरांश्च लिखेत्पञ्चाग्निकोष्ठके ।
ऊर्ध्वतिर्य्यग्गतै रेखैः षड्वह्निक्रममागतैः

ā ī ū ai au svarāṃśca likhetpañcāgnikoṣṭhake |
ūrdhvatiryyaggatai rekhaiḥ ṣaḍvahnikramamāgataiḥ

66.17

तिथी एकाग्निकोष्ठेषु त्रयो राजाथ सा
जयाः ।
उदासामृत्युपीडाश्च कुजः सोमसुतः क्रमात्

tithī ekāgnikoṣṭheṣu trayo rājātha sā
jayāḥ |
udāsāmṛtyupīḍāśca kujaḥ somasutaḥ kramāt

66.18

गुरुशुक्रौ च मन्दश्च रविचन्द्रौ यथोदितम् ।
रेवत्यादिमृगान्ताश्च ऋक्षाणि प्रथमा कला

guruśukrau ca mandaśca ravicandrau yathoditam |
revatyādimṛgāntāśca ṛkṣāṇi prathamā kalā

66.19

पञ्चपञ्चान्यत्र भानि चैत्राद्य उदयस्तथा ।
द्वादशाहैर्द्वयोर्मासनाम्नोराद्यक्षरं तथा

pañcapañcānyatra bhāni caitrādya udayastathā |
dvādaśāhairdvayormāsanāmnorādyakṣaraṃ tathā

66.20

कलालिङ्गा च या तिष्ठेत्पञ्चमस्तस्य वै मृतिः ।
कला तिथिस्तथा वारो नक्षत्रं मासमेव च

kalāliṅgā ca yā tiṣṭhetpañcamastasya vai mṛtiḥ |
kalā tithistathā vāro nakṣatraṃ māsameva ca

66.21

नामोदयस्य पूर्वं च तथा भवति नान्यथा ।
ओं क्षौं
शिवाय नमः

nāmodayasya pūrvaṃ ca tathā bhavati nānyathā |
oṃ kṣauṃ
śivāya namaḥ

66.22

क्षामाद्यङ्गशिवामीक्षा विषग्रहमतिर्हर ।
त्रैलोक्यमोहनं बीजं नृसिंहस्य तु पद्म
गम्

kṣāmādyaṅgaśivāmīkṣā viṣagrahamatirhara |
trailokyamohanaṃ bījaṃ nṛsiṃhasya tu padma
gam

66.23

मृत्युञ्जयो गणो लक्ष्मी रोचनाद्यैस्तु लेखितः ।
भूर्जे तु धारिताः कण्ठे बाहौ चेति जयादिदाः

mṛtyuñjayo gaṇo lakṣmī rocanādyaistu lekhitaḥ |
bhūrje tu dhāritāḥ kaṇṭhe bāhau ceti jayādidāḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)