नरस्त्रीलक्षणं वक्ष्ये संक्षपाच्छृणु शङ्कर ।
अस्वेदिनौ मृदुतलौ कमलोदरसन्निभौ
narastrīlakṣaṇaṃ vakṣye saṃkṣapācchṛṇu śaṅkara |
asvedinau mṛdutalau kamalodarasannibhau
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे सामुद्रिके पुँल्लक्षणनिरूपणं नाम त्रिषष्टितमोऽध्यायः ॥
20 श्लोक · 63 में से 241
हरि शंकर को पुरुष के अंगलक्षण बताते हैं। जिन चरणों में पसीना न आए, तलवे कमल जैसे कोमल हों, उँगलियाँ सटी हों, नख ताँबे जैसे, नसें छिपी और उभार कछुए जैसा हो, वे राजा के होते हैं; रूखे, टेढ़े, नसों भरे और सूप जैसे चरण दरिद्रता देते हैं। शास्त्र गुप्तांगों को भी धन, पुत्र या अल्पायु के लक्षण के रूप में स्पष्ट पढ़ता है, और मूत्रत्याग के शब्द को भी: निर्धन शब्द के साथ, राजा निःशब्द धारा से। सम उदर भोग देता है, घड़े जैसा उदर अभाव। ललाट की रेखाएँ चालीस से सत्तर वर्ष तक आयु बताती हैं, और ललाट पर त्रिशूल का चिह्न धन, पुत्र और सौ वर्ष देता है। कनिष्ठा से अटूट चलने वाली आयुरेखा सौ वर्ष देती है।
हरिरुवाच
नरस्त्रीलक्षणं वक्ष्ये संक्षपाच्छृणु शङ्कर ।
अस्वेदिनौ मृदुतलौ कमलोदरसन्निभौ
narastrīlakṣaṇaṃ vakṣye saṃkṣapācchṛṇu śaṅkara |
asvedinau mṛdutalau kamalodarasannibhau
श्लिष्टाङ्गुली ताम्रनखौ सुगुल्फौ शिरयोज्झितौ ।
कूर्मोन्नतौ च चरणौ स्यातां नृपवरस्य हि
śliṣṭāṅgulī tāmranakhau sugulphau śirayojjhitau |
kūrmonnatau ca caraṇau syātāṃ nṛpavarasya hi
विरूक्षपाण्डुरनखौ वक्रौ चैव शिरानतौ ।
सूर्पाकारौ च चरणौ संशुष्कौ विरलाङ्गुली
virūkṣapāṇḍuranakhau vakrau caiva śirānatau |
sūrpākārau ca caraṇau saṃśuṣkau viralāṅgulī
दुः खदारिद्यदौ स्याता नात्र कार्य्यां विचारणा ।
अल्परोमयुता श्रेष्ठा जङ्घा हस्तिकरोपमा
duḥ khadāridyadau syātā nātra kāryyāṃ vicāraṇā |
alparomayutā śreṣṭhā jaṅghā hastikaropamā
रोमैकैकं कूपके स्याद्भूपानां तु महात्मनाम् ।
द्वेद्वे रोम्णी पण्डितानां श्रोत्रियाणां तथैव च
romaikaikaṃ kūpake syādbhūpānāṃ tu mahātmanām |
dvedve romṇī paṇḍitānāṃ śrotriyāṇāṃ tathaiva ca
रोमत्रयं दरिद्राणां रोगी निर्मांसजानुकः ।
अल्पलिङ्गी च धनवान्स्याच्च पुत्रादिवर्जितः
romatrayaṃ daridrāṇāṃ rogī nirmāṃsajānukaḥ |
alpaliṅgī ca dhanavānsyācca putrādivarjitaḥ
स्थूललिङ्गो दरिद्रः स्यादुख्येकवृष्णी भवेत् ।
विषमेस्त्रीचञ्चलो वै नृपः स्याद्वृषणे समे
sthūlaliṅgo daridraḥ syādukhyekavṛṣṇī bhavet |
viṣamestrīcañcalo vai nṛpaḥ syādvṛṣaṇe same
प्रलम्बवृषणोऽल्पायुर्निर्द्रव्यः कुमणिर्भवेत् ।
पाण्डुरैर्मलिनैश्चैव मणिभिश्च सुखी नरः
pralambavṛṣaṇo'lpāyurnirdravyaḥ kumaṇirbhavet |
pāṇḍurairmalinaiścaiva maṇibhiśca sukhī naraḥ
निः स्वाः सशब्दमूत्राः स्युर्नृपा निश्शब्दधारया ।
भोगाढ्याः समजठरा निः स्वाः स्युर्घटसन्निभाः
niḥ svāḥ saśabdamūtrāḥ syurnṛpā niśśabdadhārayā |
bhogāḍhyāḥ samajaṭharā niḥ svāḥ syurghaṭasannibhāḥ
सर्पोदरा दरिद्राः स्यू रेखाभिस्चायुरुच्यते ।
ललाटे यस्य दृश्यन्ते तिस्त्रो रेखाः समाहिताः
sarpodarā daridrāḥ syū rekhābhiscāyurucyate |
lalāṭe yasya dṛśyante tistro rekhāḥ samāhitāḥ
सुखी पुत्रसमायुक्तः स षष्टिं जीवते नरः ।
चत्वारिंशच्च वर्षाणि द्विरेखादर्शनान्नरः
sukhī putrasamāyuktaḥ sa ṣaṣṭiṃ jīvate naraḥ |
catvāriṃśacca varṣāṇi dvirekhādarśanānnaraḥ
विंशत्यब्दं त्वेकरेखा आकर्णान्ताः शतायुषः
viṃśatyabdaṃ tvekarekhā ākarṇāntāḥ śatāyuṣaḥ
सप्तत्यायुर्द्विरेखा तु षष्ट्यायुस्तिसृभिर्भवेत् ।
व्यक्ताव्यक्ताभी रेखाभिर्विंशत्यायुर्भवेन्नरः
saptatyāyurdvirekhā tu ṣaṣṭyāyustisṛbhirbhavet |
vyaktāvyaktābhī rekhābhirviṃśatyāyurbhavennaraḥ
चत्वारिंशच्च वर्षाणि हीनरेखस्तु जीवति ।
भिन्नाभिश्चैव रेखाभिरपमृत्युर्नरस्य हि
catvāriṃśacca varṣāṇi hīnarekhastu jīvati |
bhinnābhiścaiva rekhābhirapamṛtyurnarasya hi
त्रिशूलं पट्टिशं वापि ललाटे यस्य दृश्यते ।
धनपुत्र समायुक्तः स जीवेच्छरदः शतम्
triśūlaṃ paṭṭiśaṃ vāpi lalāṭe yasya dṛśyate |
dhanaputra samāyuktaḥ sa jīveccharadaḥ śatam
तर्जन्या मध्यमाङ्गुल्या आयूरेखा तु मध्यतः ।
संप्राप्ता या भवेद्रुद्र स जीवेच्छरदः शतम्
tarjanyā madhyamāṅgulyā āyūrekhā tu madhyataḥ |
saṃprāptā yā bhavedrudra sa jīveccharadaḥ śatam
प्रथमा ज्ञानरेखा तु ह्यंगुष्ठादनुवर्त्तते ।
मध्यमामूलगा रेखा आयूरेखा अतः परम्
prathamā jñānarekhā tu hyaṃguṣṭhādanuvarttate |
madhyamāmūlagā rekhā āyūrekhā ataḥ param
कनिष्ठिकां समाश्रित्य आयूरेखा समाविशेत् ।
अच्छिन्ना वा विभक्ता वा स जीवेच्छरदः शतम्
kaniṣṭhikāṃ samāśritya āyūrekhā samāviśet |
acchinnā vā vibhaktā vā sa jīveccharadaḥ śatam
यस्य पाणितले रेखा आयुस्तस्य प्रकाशयेत् ।
शतवर्षाणि जीवेच्च भोगी रुद्र न संशयः
yasya pāṇitale rekhā āyustasya prakāśayet |
śatavarṣāṇi jīvecca bhogī rudra na saṃśayaḥ
कनिष्ठिकां समाश्रित्य मध्यमायामुपागता ।
षष्ठिवर्षायुषं कुर्य्यादायूरेखा तु मानवम्
kaniṣṭhikāṃ samāśritya madhyamāyāmupāgatā |
ṣaṣṭhivarṣāyuṣaṃ kuryyādāyūrekhā tu mānavam
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)