पूर्व खण्ड — आचार काण्ड

अध्याय 59: नक्षत्र, उनके देवता और शुभ अशुभ योग

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे नक्षत्रतद्देवतादग्धयोगादिनिरूपणं नामैकोनषष्टितमोऽध्यायः ॥

49 श्लोक · 59 में से 241

इस अध्याय में क्या होता है

नक्षत्र, उनके देवता और शुभ अशुभ योग

केशव रुद्र को ज्योतिष का सार बताते हैं। प्रत्येक नक्षत्र का देवता है: कृत्तिका के अग्नि, रोहिणी के ब्रह्मा, आर्द्रा के रुद्र, पुष्य के बृहस्पति, आश्लेषा के सर्प, मघा के पितर, और इसी क्रम में रेवती के पूषा और अश्विनी के अश्विनीकुमार। अधोमुख नक्षत्र कुएँ तालाब खोदने के, पार्श्वमुख हाथी घोड़े साधने के और ऊर्ध्वमुख भवन उठाने के लिए हैं। तिथि और वार के जोड़े शुभ अशुभ बताए गए हैं, कुछ दग्ध हैं। बुधवार को दूर की यात्रा वर्जित है। नक्षत्र और वार से विषयोग, अमृतयोग और सिद्धियोग बनते हैं; व्यतीपात और वैधृति त्याज्य हैं। नामाक्षरों की गणना से बताया गया है कि पति पत्नी में पहले किसकी मृत्यु होगी, और कुछ नक्षत्रों में प्रस्थान मृत्युदायक कहा गया है।

सूत उवाच

59.1

ज्योतिश्चक्रं भुवो मानमुक्त्वा प्रोवाच केशवः ।
चतुर्लक्षं ज्योतिषस्य सारं रुद्राय सर्वदः

jyotiścakraṃ bhuvo mānamuktvā provāca keśavaḥ |
caturlakṣaṃ jyotiṣasya sāraṃ rudrāya sarvadaḥ

हरिरुवाच

59.2

कृत्तिकास्त्वग्निदेवत्या रोहिण्यो ब्रह्मणः स्मृताः ।
इल्वलाः सोमदेवत्या रौद्रं चार्द्रमुदाहृतम्

kṛttikāstvagnidevatyā rohiṇyo brahmaṇaḥ smṛtāḥ |
ilvalāḥ somadevatyā raudraṃ cārdramudāhṛtam

59.3

पुनर्वसुस्तथादित्यस्तिष्यश्च गुरुदैवतः ।
अश्लेषाः सर्पदेवत्या मघाश्च पितृदेवताः

punarvasustathādityastiṣyaśca gurudaivataḥ |
aśleṣāḥ sarpadevatyā maghāśca pitṛdevatāḥ

59.4

भाग्याश्च पूर्वफल्गुन्य अर्य्यमा च तथोत्तरः ।
सावित्रश्च तथा हस्ता चित्रा त्वष्टा प्रकीर्त्तितः

bhāgyāśca pūrvaphalgunya aryyamā ca tathottaraḥ |
sāvitraśca tathā hastā citrā tvaṣṭā prakīrttitaḥ

59.5

स्वाती च वायुदेवत्या नक्षत्रं परिकीर्त्तितम् ।
इन्द्राग्निदेवता प्रोक्ता विशाखा वृषभध्वज

svātī ca vāyudevatyā nakṣatraṃ parikīrttitam |
indrāgnidevatā proktā viśākhā vṛṣabhadhvaja

59.6

मैत्रमृक्षमनूराधा ज्येष्ठा शाक्रं प्रकीर्त्तितम् ।
तथा निर्ऋतिदेवत्यो मूलस्तज्ज्ञैरुदाहृतः

maitramṛkṣamanūrādhā jyeṣṭhā śākraṃ prakīrttitam |
tathā nirṛtidevatyo mūlastajjñairudāhṛtaḥ

59.7

आप्यास्त्वाषाढपूर्वास्तु उत्तरा वैश्वदेवताः ।
ब्राह्मश्चैवाभिजित्प्रोक्तः श्रवणा वैष्णवः स्मृतः

āpyāstvāṣāḍhapūrvāstu uttarā vaiśvadevatāḥ |
brāhmaścaivābhijitproktaḥ śravaṇā vaiṣṇavaḥ smṛtaḥ

59.8

वासवस्तु तथा ऋक्षं धनिष्ठा प्रोच्यते बुधैः ।
तथा शतभिषा प्रोक्तं नक्षत्रं वारुणं शिव

vāsavastu tathā ṛkṣaṃ dhaniṣṭhā procyate budhaiḥ |
tathā śatabhiṣā proktaṃ nakṣatraṃ vāruṇaṃ śiva

59.9

आजं भाद्रपदा पूर्वा अहिर्ब्रुध्न्यस्तथोत्तरा ।
पौष्णं च रेवती ऋक्षमश्वयुक्चाश्वदैवतम्

ājaṃ bhādrapadā pūrvā ahirbrudhnyastathottarā |
pauṣṇaṃ ca revatī ṛkṣamaśvayukcāśvadaivatam

59.10

भरण्यृक्षं तथा याम्यं प्रोक्तास्ते ऋक्षदेवताः ।
ब्रह्माणी संस्थिता पूर्वे प्रितपन्नवमीतिथौ

bharaṇyṛkṣaṃ tathā yāmyaṃ proktāste ṛkṣadevatāḥ |
brahmāṇī saṃsthitā pūrve pritapannavamītithau

59.11

माहेश्वरी चोत्तरे च द्वितीया दशामीतिथौ ।
पञ्चम्यां च त्रयोदश्यां वाराही दक्षिणे स्थिता

māheśvarī cottare ca dvitīyā daśāmītithau |
pañcamyāṃ ca trayodaśyāṃ vārāhī dakṣiṇe sthitā

59.12

षष्ठ्यां चैव चतुर्दश्यामिन्द्राणी पश्चिमे स्थिता ।
सप्तम्यां पौर्णमास्यां च चामुण्डा वायुगोचरे

ṣaṣṭhyāṃ caiva caturdaśyāmindrāṇī paścime sthitā |
saptamyāṃ paurṇamāsyāṃ ca cāmuṇḍā vāyugocare

59.13

अष्टम्यमावास्ययोगे महालक्ष्मीशगोचरे ।
एकादश्यां तृतीयायामग्निकोणे तु वैष्णवी

aṣṭamyamāvāsyayoge mahālakṣmīśagocare |
ekādaśyāṃ tṛtīyāyāmagnikoṇe tu vaiṣṇavī

59.14

द्वादश्यां च चतुर्थ्यां तु कौमारी नैर्ऋते तथा ।
योगिनीसम्मुखेनैव गमनादि न कारयेत्

dvādaśyāṃ ca caturthyāṃ tu kaumārī nairṛte tathā |
yoginīsammukhenaiva gamanādi na kārayet

59.15

अश्विनीमैत्ररेवत्यो मृगमूलपुनर्वसु ।
पुष्या हस्ता तथा ज्येष्ठा प्रस्थाने श्रेष्ठमुच्यते

aśvinīmaitrarevatyo mṛgamūlapunarvasu |
puṣyā hastā tathā jyeṣṭhā prasthāne śreṣṭhamucyate

59.16

हस्तादिपञ्चऋक्षाणि उत्तरात्रयमेव च ।
अश्विनी रोहिणी पुष्या धनिष्ठा च पुनर्वसु

hastādipañcaṛkṣāṇi uttarātrayameva ca |
aśvinī rohiṇī puṣyā dhaniṣṭhā ca punarvasu

59.17

वस्त्रप्रावरणे श्रेष्ठो नक्षत्राणां गणः स्मृतः ।
कृत्तिका भरण्यश्लेषा मघा मूलविशाखयोः

vastraprāvaraṇe śreṣṭho nakṣatrāṇāṃ gaṇaḥ smṛtaḥ |
kṛttikā bharaṇyaśleṣā maghā mūlaviśākhayoḥ

59.18

त्रीणि, पूर्वा तथा चैव अधोवक्राः प्रकीर्त्तिताः ।
एषु वापीतडागादिकूपभूमितृणानि च

trīṇi, pūrvā tathā caiva adhovakrāḥ prakīrttitāḥ |
eṣu vāpītaḍāgādikūpabhūmitṛṇāni ca

59.19

देवागारस्य खननं निधानखननं तथा ।
गणितं ज्योतिषारम्भं खनिबिलप्रवेशनम्

devāgārasya khananaṃ nidhānakhananaṃ tathā |
gaṇitaṃ jyotiṣārambhaṃ khanibilapraveśanam

59.20

कुर्य्यादधोगतान्येव अन्यानि च वृषध्वज ।
रेवती चाश्विनी चित्रा स्वाती हस्ता पुनर्वसु

kuryyādadhogatānyeva anyāni ca vṛṣadhvaja |
revatī cāśvinī citrā svātī hastā punarvasu

59.21

अनुराधा मृगो ज्येष्ठा एते पार्श्वमुखाः स्मृताः ।
गजोष्ट्राश्वबलीवर्ददमनं महिषस्य च

anurādhā mṛgo jyeṣṭhā ete pārśvamukhāḥ smṛtāḥ |
gajoṣṭrāśvabalīvardadamanaṃ mahiṣasya ca

59.22

बीजानां वपनं कुर्य्याद्गमनागमनादिकम् ।
चक्रयन्त्ररथानां च नावादीनां प्रवाहणम्

bījānāṃ vapanaṃ kuryyādgamanāgamanādikam |
cakrayantrarathānāṃ ca nāvādīnāṃ pravāhaṇam

59.23

पार्श्वेषु यानि कर्माणि कुर्य्यादेतेषु तान्यपि ।
रोहिण्यार्द्रां तथा पुष्या धनिष्ठा चोत्तरात्रयम्

pārśveṣu yāni karmāṇi kuryyādeteṣu tānyapi |
rohiṇyārdrāṃ tathā puṣyā dhaniṣṭhā cottarātrayam

59.24

वारुणं श्रवणं चैव नव चोर्ध्वमुखाः स्मृताः ।
एषु राज्याभिषेकं च पट्टबन्धं च कारयेत्

vāruṇaṃ śravaṇaṃ caiva nava cordhvamukhāḥ smṛtāḥ |
eṣu rājyābhiṣekaṃ ca paṭṭabandhaṃ ca kārayet

59.25

ऊर्ध्वमुख्यान्युच्छ्रितानि सर्वाण्येतेषु कारयेत् ।
चतुर्थी चाशुभा षष्ठी अष्टमी नवमी तथा

ūrdhvamukhyānyucchritāni sarvāṇyeteṣu kārayet |
caturthī cāśubhā ṣaṣṭhī aṣṭamī navamī tathā

59.26

अमावास्या पूर्णिमा च तद्वादशी च चतुर्दशी ।
अशुक्ला प्रतिपच्छ्रेष्ठा द्वितीया चन्द्रसूनुना

amāvāsyā pūrṇimā ca tadvādaśī ca caturdaśī |
aśuklā pratipacchreṣṭhā dvitīyā candrasūnunā

59.27

तृतीया भूमिपुत्रेण चतुर्थी च शनैश्चरे ।
गुरौ शुभा पञ्चमी स्यात्षष्ठी मङ्गलशुक्रयोः

tṛtīyā bhūmiputreṇa caturthī ca śanaiścare |
gurau śubhā pañcamī syātṣaṣṭhī maṅgalaśukrayoḥ

59.28

सप्तमी सोमपुत्रेण अष्टमी कुजभास्करौ ।
नवमी चन्द्रवा
रेण दशमी तु गुरौ शुभा

saptamī somaputreṇa aṣṭamī kujabhāskarau |
navamī candravā
reṇa daśamī tu gurau śubhā

59.29

एकादश्या गुरुशुक्रौ द्वादश्यां च पुनर्बुधः ।
त्रयोदशी शुक्रभौमौ शनौ श्रेष्ठा चतुर्दशी

ekādaśyā guruśukrau dvādaśyāṃ ca punarbudhaḥ |
trayodaśī śukrabhaumau śanau śreṣṭhā caturdaśī

59.30

पौर्णमास्यप्यमावास्या श्रेष्ठा स्याच्च बृहस्पतौ ।
द्वादशीं दहते भानुः शशी चैकादशीं दहेत्

paurṇamāsyapyamāvāsyā śreṣṭhā syācca bṛhaspatau |
dvādaśīṃ dahate bhānuḥ śaśī caikādaśīṃ dahet

59.31

कुजो दहेच्च दशमीं नवमीं च बुधो दहेत् ।
अष्टमीं दहते जीवः सप्तमीं भार्गवो दहेत्

kujo dahecca daśamīṃ navamīṃ ca budho dahet |
aṣṭamīṃ dahate jīvaḥ saptamīṃ bhārgavo dahet

59.32

सूर्य्यपुत्रो दहेत्षष्ठीं गमनाद्यासु नास्ति वै ।
प्रतिपन्नवमीष्वेव चतुर्दश्यष्टमीषु च

sūryyaputro dahetṣaṣṭhīṃ gamanādyāsu nāsti vai |
pratipannavamīṣveva caturdaśyaṣṭamīṣu ca

59.33

बुधवारे प्रस्थानं दूरतः परिवर्जयेत् ।
मेषे कर्कटके षष्ठी कन्यायां मिथुनेऽष्टमी

budhavāre prasthānaṃ dūrataḥ parivarjayet |
meṣe karkaṭake ṣaṣṭhī kanyāyāṃ mithune'ṣṭamī

59.34

वृषे कुम्भे चतुर्थो च द्वादशी मकरे तुले ।
दशमी वृश्चिके सिंहे धनुर्मोने चतुर्दशी

vṛṣe kumbhe caturtho ca dvādaśī makare tule |
daśamī vṛścike siṃhe dhanurmone caturdaśī

59.35

एता दग्धा न गन्तव्यं पीडादिः किल मानवैः ।
विशाखात्रयमादित्ये पूर्वाषाढात्रये शशी

etā dagdhā na gantavyaṃ pīḍādiḥ kila mānavaiḥ |
viśākhātrayamāditye pūrvāṣāḍhātraye śaśī

59.36

धनिष्ठात्रितयं भौमे बुधे वै रेवतीत्रयम् ।
रोहिण्यादित्रयं जीवे शुक्रे पुष्यात्रयं शिव

dhaniṣṭhātritayaṃ bhaume budhe vai revatītrayam |
rohiṇyāditrayaṃ jīve śukre puṣyātrayaṃ śiva

59.37

शनिवारे वर्जयेच्च उत्तराफल्गुनीत्रयम् ।
एषु योगेषु चोत्पातमृत्युरोगादिकं भवेत्

śanivāre varjayecca uttarāphalgunītrayam |
eṣu yogeṣu cotpātamṛtyurogādikaṃ bhavet

59.38

मूलेऽर्कः श्रवणे चन्द्रः प्रोष्ठपद्युत्तरे कुजः ।
कृत्तिकासु बुधश्चैव गुरौ रुद्र पुनर्वसुः

mūle'rkaḥ śravaṇe candraḥ proṣṭhapadyuttare kujaḥ |
kṛttikāsu budhaścaiva gurau rudra punarvasuḥ

59.39

पूर्वफल्गुनी शुक्रे च स्वातिश्चैव शनैश्वरे ।
एतै चामृतयोगाः स्युः सर्वकार्य्यप्रसाधकाः

pūrvaphalgunī śukre ca svātiścaiva śanaiśvare |
etai cāmṛtayogāḥ syuḥ sarvakāryyaprasādhakāḥ

59.40

कालं प्रवध्यन्नि शक्तिदा नेष्टमंद ।
पर्वादिस्तु ज्ञेयः कालः कालविशारदैः

kālaṃ pravadhyanni śaktidā neṣṭamaṃda |
parvādistu jñeyaḥ kālaḥ kālaviśāradaiḥ

59.41

एकीकृत्याक्षरान्मात्रं नाम्नोः स्त्रीपुंसयोस्त्रिभिः ।
भागे द्विशेषे स्त्रीनाशः पुसः स्यादेकशून्ययोः

ekīkṛtyākṣarānmātraṃ nāmnoḥ strīpuṃsayostribhiḥ |
bhāge dviśeṣe strīnāśaḥ pusaḥ syādekaśūnyayoḥ

59.42

विष्कम्भे घटिकाः पंच शूले सप्त प्रकीर्तिताः ।
षड्गण्डे चातिगण्डे च नव व्याघातवज्रयोः

viṣkambhe ghaṭikāḥ paṃca śūle sapta prakīrtitāḥ |
ṣaḍgaṇḍe cātigaṇḍe ca nava vyāghātavajrayoḥ

59.43

व्यतीपाते च परिघे वैधृते च दिनेदिने ।
एतै मृत्युयुता ह्येषु सर्वकर्माणि वर्जयेत्

vyatīpāte ca parighe vaidhṛte ca dinedine |
etai mṛtyuyutā hyeṣu sarvakarmāṇi varjayet

59.44

हस्तेऽर्कश्च गुरुः पुष्ये अनुराधा बुधे शुभा ।
रोहिणी च शनौ श्रेष्ठा सौमं सोमेन वै शुभम्

haste'rkaśca guruḥ puṣye anurādhā budhe śubhā |
rohiṇī ca śanau śreṣṭhā saumaṃ somena vai śubham

59.45

शुक्रे च रेवती श्रेष्ठा अश्विनी मंगले शुभा ।
एतेषु सिद्धियोगा वै सर्वदोषविनाशनाः

śukre ca revatī śreṣṭhā aśvinī maṃgale śubhā |
eteṣu siddhiyogā vai sarvadoṣavināśanāḥ

59.46

भार्गवे भरणी चैव सोमे चित्रा वृषध्वज ।
भौमे चै वोत्तराषाढा धनिष्ठा च बुधे हर

bhārgave bharaṇī caiva some citrā vṛṣadhvaja |
bhaume cai vottarāṣāḍhā dhaniṣṭhā ca budhe hara

59.47

गुरौ शतभिषा रुद्र शुक्रे वै रोहिणी तथा ।
शनौ च रेवती शम्भो विषयोगाः प्रकीर्त्तिताः

gurau śatabhiṣā rudra śukre vai rohiṇī tathā |
śanau ca revatī śambho viṣayogāḥ prakīrttitāḥ

59.48

पुष्यः पुनर्वसुश्चैव रेवती चित्रया सह ।
श्रवणं च धनिष्ठा च हस्ताश्वनीमृगास्तथा

puṣyaḥ punarvasuścaiva revatī citrayā saha |
śravaṇaṃ ca dhaniṣṭhā ca hastāśvanīmṛgāstathā

59.49

कुर्य्याच्छतभिषायां च जातकर्मादि मानवः ।
विशाखा चोत्तरात्रीणि मघार्द्रा भरणी तथा ।
आश्लेषा कृत्तिका रुद्र प्रस्थाने मरणप्रदाः

kuryyācchatabhiṣāyāṃ ca jātakarmādi mānavaḥ |
viśākhā cottarātrīṇi maghārdrā bharaṇī tathā |
āśleṣā kṛttikā rudra prasthāne maraṇapradāḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)