पूर्व खण्ड — आचार काण्ड

अध्याय 55: जम्बूद्वीप के वर्ष और भारत के जनपद

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशवर्णनं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥

20 श्लोक · 55 में से 241

इस अध्याय में क्या होता है

जम्बूद्वीप के वर्ष और भारत के जनपद

हरि रुद्र को जम्बूद्वीप का विभाग बताते हैं। मध्य में इलावृत है, पूर्व में भद्राश्व, आग्नेय में हिरण्वान, मेरु के दक्षिण में किम्पुरुष और फिर भारत, नैऋत्य में हरिवर्ष, पश्चिम में केतुमाल, वायव्य में रम्यक और उत्तर में कल्पवृक्षों से भरा कुरुवर्ष। भारत को छोड़ सब वर्षों में सिद्धि स्वभाव से मिलती है। भारत के नौ भाग हैं, जिनमें इन्द्रद्वीप, कशेरुमान और ताम्रवर्ण हैं, और यहाँ चारों वर्ण बसते हैं। इसके कुलपर्वत महेन्द्र, मलय, सह्य, शुक्तिमान, ऋक्ष, विन्ध्य और पारियात्र हैं, और नदियों में नर्मदा है। दिशाओं के अनुसार जनपद गिनाए गए हैं: आग्नेय में कलिंग, वंग, पुण्ड्र और विदर्भ; दक्षिणापथ में अश्मक और कर्णाट; वायव्य में तुषार और खश; उत्तर में मद्र, गान्धार, त्रिगर्त और काश्मीर।

हरिरुवाच

55.1

मध्ये त्विलावृतो वर्षो भद्राश्वः पूर्वतोऽद्भुतः ।
पूर्वदक्षिणतो वर्षो हिरण्वान्वृषभध्वज

madhye tvilāvṛto varṣo bhadrāśvaḥ pūrvato'dbhutaḥ |
pūrvadakṣiṇato varṣo hiraṇvānvṛṣabhadhvaja

55.2

ततः किम्पुरुषो वर्षो मेरोर्दक्षिणतः स्मृतः ।
भारतो दक्षिणे प्रोक्तो हरिर्दक्षिणपश्चिमे

tataḥ kimpuruṣo varṣo merordakṣiṇataḥ smṛtaḥ |
bhārato dakṣiṇe prokto harirdakṣiṇapaścime

55.3

पश्चिमे केतुमालश्च रम्यकः पश्चिमोत्तरे ।
उत्तरे च कुरोर्वर्षः कल्पवृक्षसमावृतः

paścime ketumālaśca ramyakaḥ paścimottare |
uttare ca kurorvarṣaḥ kalpavṛkṣasamāvṛtaḥ

55.4

सिद्धिः स्वाभाविकी रुद्र वर्जयित्वा तु भारतम् ।
इन्द्रद्वीपः कशेरुमांस्ताम्रवर्णो गभस्तितमान्

siddhiḥ svābhāvikī rudra varjayitvā tu bhāratam |
indradvīpaḥ kaśerumāṃstāmravarṇo gabhastitamān

55.5

नागद्वीपः कटाहश्च सिंहलो वारुणस्तथा ।
अयं तुनवमस्तेषां द्वीपः सागरसंवृतः

nāgadvīpaḥ kaṭāhaśca siṃhalo vāruṇastathā |
ayaṃ tunavamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ

55.6

पूर्वे किरातास्तस्यास्ते पश्चिमे यवनाः स्थिताः ।
अन्ध्रा दक्षिणतो रुद्र तुरष्कास्त्वपि चोत्तरे

pūrve kirātāstasyāste paścime yavanāḥ sthitāḥ |
andhrā dakṣiṇato rudra turaṣkāstvapi cottare

55.7

ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राश्चान्तरवासिनः ।
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः

brāhmaṇāḥ kṣattriyā vaiśyāḥ śūdrāścāntaravāsinaḥ |
mahendro malayaḥ sahyaḥ śuktimānṛkṣaparvataḥ

55.8

विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः ।
वेदस्मृति र्नर्मदा च वरदा सुरसा शिवा

vindhyaśca pāriyātraśca saptātra kulaparvatāḥ |
vedasmṛti rnarmadā ca varadā surasā śivā

55.9

तापी पयोष्णी सरयूः कावेरी गोमती तथा ।
गोदावरी भीमरथी कृष्णवेणी महानदी

tāpī payoṣṇī sarayūḥ kāverī gomatī tathā |
godāvarī bhīmarathī kṛṣṇaveṇī mahānadī

55.10

केतुमाला ताम्रपर्णो चन्द्रभागा सरस्वती ।
ऋषिकुल्या च कावेरी मृत्तगङ्गा पयस्विनी

ketumālā tāmraparṇo candrabhāgā sarasvatī |
ṛṣikulyā ca kāverī mṛttagaṅgā payasvinī

55.11

विदर्भा च शतद्रूश्च नद्यः पापहराः शुभाः ।
आसां पिबन्ति सलिलं मध्यदेशादयो जनाः

vidarbhā ca śatadrūśca nadyaḥ pāpaharāḥ śubhāḥ |
āsāṃ pibanti salilaṃ madhyadeśādayo janāḥ

55.12

पाञ्चालाः कुरवो मत्स्या यौधेयाः सपटच्चराः ।
कुन्तयः शूरसेनाश्च मध्यदेशजनाः स्मृताः

pāñcālāḥ kuravo matsyā yaudheyāḥ sapaṭaccarāḥ |
kuntayaḥ śūrasenāśca madhyadeśajanāḥ smṛtāḥ

55.13

वृषध्वज जनाः पाद्माः सूतमागधचेदयः ।
काशय
श्च विदेहाश्च पूर्वस्यां कोशलास्तथा

vṛṣadhvaja janāḥ pādmāḥ sūtamāgadhacedayaḥ |
kāśaya
śca videhāśca pūrvasyāṃ kośalāstathā

55.14

कलिंगवंगपुण्ड्रांगा वैदर्भा मूलकास्तथा ।
विन्ध्यान्तर्निलया देशाः पूर्वदक्षिणतः स्मृताः

kaliṃgavaṃgapuṇḍrāṃgā vaidarbhā mūlakāstathā |
vindhyāntarnilayā deśāḥ pūrvadakṣiṇataḥ smṛtāḥ

55.15

पुलन्दाश्मकजीमूतनयराष्ट्रनिवासिनः ।
कर्णा
टकम्बोजघणा दक्षिणापथवासिनः

pulandāśmakajīmūtanayarāṣṭranivāsinaḥ |
karṇā
ṭakambojaghaṇā dakṣiṇāpathavāsinaḥ

55.16

अम्बष्ठद्रविडा लाटाः काम्बोजाः स्त्रीमुखाः शकाः ।
आनर्त्तवासिनश्चैव ज्ञेया यक्षिणपश्चिमे

ambaṣṭhadraviḍā lāṭāḥ kāmbojāḥ strīmukhāḥ śakāḥ |
ānarttavāsinaścaiva jñeyā yakṣiṇapaścime

55.17

स्त्रीराज्याः सैन्धवा म्लेच्छा नास्ति का यवनास्तथा ।
पश्चिमेन च विज्ञेया माथुरा नैषधैः सह

strīrājyāḥ saindhavā mlecchā nāsti kā yavanāstathā |
paścimena ca vijñeyā māthurā naiṣadhaiḥ saha

55.18

माण्डव्याश्च तुषाराश्च मूलिकाश्वमुखाः खशाः ।
महाकेशा महानादा देशास्तूत्तरपश्चिमे

māṇḍavyāśca tuṣārāśca mūlikāśvamukhāḥ khaśāḥ |
mahākeśā mahānādā deśāstūttarapaścime

55.19

लम्ब
का स्तननागाश्च माद्रगान्धारबाह्लिकाः ।
हिमाचलालया म्लेच्छा उदीचीं दिशमाश्रिताः

lamba
kā stananāgāśca mādragāndhārabāhlikāḥ |
himācalālayā mlecchā udīcīṃ diśamāśritāḥ

55.20

त्रिगर्त्तनीलकोलात
ब्रह्मपुत्राः सटङ्कणाः ।
अभीषाहाः सकाश्मीरा उदक्पर्वेण कीर्त्तिताः

trigarttanīlakolāta
brahmaputrāḥ saṭaṅkaṇāḥ |
abhīṣāhāḥ sakāśmīrā udakparveṇa kīrttitāḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)