अग्नीध्रश्चाग्निबाहुश्च वपुष्मान्ध्युतिमांस्तथा ।
मेधामेधातिथिर्भव्यः शबलः पुत्र एव च
agnīdhraścāgnibāhuśca vapuṣmāndhyutimāṃstathā |
medhāmedhātithirbhavyaḥ śabalaḥ putra eva ca
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशवर्णनोपयोगिप्रियव्रतवंशनिरूपणं नाम चतुः पञ्चाशत्तमोऽध्यायः ॥
18 श्लोक · 54 में से 241
हरि लोकों का वर्णन प्रियव्रत के दस पुत्रों से आरम्भ करते हैं: अग्नीध्र, अग्निबाहु, वपुष्मान, द्युतिमान, मेधा, मेधातिथि, भव्य, शबल, पुत्र और ज्योतिष्मान। मेधा, अग्निबाहु और पुत्र योगपरायण थे और राज्य नहीं चाहते थे, इसलिए सात द्वीप शेष सात को मिले। पचास करोड़ योजन की पृथ्वी जल पर नाव की भाँति तैरती है, और प्रत्येक द्वीप और समुद्र पिछले से दुगुना है। जम्बूद्वीप में मेरु है, चौरासी हज़ार योजन ऊँचा, सोलह हज़ार नीचे धँसा और शिखर पर बत्तीस हज़ार चौड़ा। अग्नीध्र के पुत्रों को अपने नाम के खण्ड मिले। नाभि और मेरुदेवी से ऋषभ हुए और उनसे भरत, जो शालग्राम में व्रत करते रहे। वंश सुमति, पृथु और गय से होता हुआ शतजित और विष्वग्ज्योति तक चलता है।
हरिरुवाच
अग्नीध्रश्चाग्निबाहुश्च वपुष्मान्ध्युतिमांस्तथा ।
मेधामेधातिथिर्भव्यः शबलः पुत्र एव च
agnīdhraścāgnibāhuśca vapuṣmāndhyutimāṃstathā |
medhāmedhātithirbhavyaḥ śabalaḥ putra eva ca
ज्योतिष्मान्दशमो जातः पुत्रा ह्येते प्रियव्रतात् ।
मेधाग्निबाहुपुत्रास्तु त्रयो योगपरायणाः
jyotiṣmāndaśamo jātaḥ putrā hyete priyavratāt |
medhāgnibāhuputrāstu trayo yogaparāyaṇāḥ
जातिस्मरा महाभागा नैराज्याय मनो दधुः ।
विभज्य सप्त द्वीपानि सप्तानां प्रददौ नृपः
jātismarā mahābhāgā nairājyāya mano dadhuḥ |
vibhajya sapta dvīpāni saptānāṃ pradadau nṛpaḥ
योजनानां प्रमाणेन पञ्चाशत्कोटिराप्लुता ।
जलोपरि मही याता नौरिवास्ते सरिज्जले
yojanānāṃ pramāṇena pañcāśatkoṭirāplutā |
jalopari mahī yātā naurivāste sarijjale
जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलश्चापरो हर ।
कुशः क्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः
jambūplakṣāhvayau dvīpau śālmalaścāparo hara |
kuśaḥ krauñcastathā śākaḥ puṣkaraścaiva saptamaḥ
एते द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः ।
लवणेक्षुसुरासर्पिर्दाधिदुग्धजलैः समम्
ete dvīpāḥ samudraistu sapta saptabhirāvṛtāḥ |
lavaṇekṣusurāsarpirdādhidugdhajalaiḥ samam
द्वीपात्तु द्विगुणो द्वीपः समुद्रश्च वृषध्वज ।
जम्बूद्वीपे स्थितो मेरुर्लक्षयोजनविस्तृतः
dvīpāttu dviguṇo dvīpaḥ samudraśca vṛṣadhvaja |
jambūdvīpe sthito merurlakṣayojanavistṛtaḥ
चतुरशीतिसाहस्त्रैर्योजनैरस्य चोच्छ्रयः ।
प्रविष्टः षोडशाधस्ताद्द्वत्रिंशन्मूर्ध्नि विस्तृतः
caturaśītisāhastrairyojanairasya cocchrayaḥ |
praviṣṭaḥ ṣoḍaśādhastāddvatriṃśanmūrdhni vistṛtaḥ
अधः षोडशसाहस्त्रः कर्णिकाकारसंस्थितः ।
हिमवान्हेमकूटश्च निषधश्चास्य दक्षिणे
adhaḥ ṣoḍaśasāhastraḥ karṇikākārasaṃsthitaḥ |
himavānhemakūṭaśca niṣadhaścāsya dakṣiṇe
नीलः श्वेतश्च श्रृंगी च उत्तरे वर्षपर्वताः ।
प्लक्षादिषु नरा रुद्र ये वसन्ति सनातनाः
nīlaḥ śvetaśca śrṛṃgī ca uttare varṣaparvatāḥ |
plakṣādiṣu narā rudra ye vasanti sanātanāḥ
शङ्कराथ न तेष्वस्ति युगावस्था कथञ्चन ।
जम्बूद्वीपेश्वरात्पुत्रा ह्यग्रीध्नादभवन्नव
śaṅkarātha na teṣvasti yugāvasthā kathañcana |
jambūdvīpeśvarātputrā hyagrīdhnādabhavannava
नाभिः किंपुरुषश्चैव हरिवर्षमिला वृतः ।
रम्यो हिरण्मयाख्यश्च कुरुर्भद्राश्व एव च
nābhiḥ kiṃpuruṣaścaiva harivarṣamilā vṛtaḥ |
ramyo hiraṇmayākhyaśca kururbhadrāśva eva ca
केतुमालो नृपस्तेभ्यस्तत्संज्ञान् खण्डकान्ददौ ।
नाभेस्तु मेरुदेव्यां तु पुत्रोऽभूदृषभो हर
ketumālo nṛpastebhyastatsaṃjñān khaṇḍakāndadau |
nābhestu merudevyāṃ tu putro'bhūdṛṣabho hara
तत्पुत्रो भरतो नाम शालग्रामे स्थितो व्रती ।
सुमतिर्भरतस्याभूत्तत्पुत्रस्तैजसोऽभवत्
tatputro bharato nāma śālagrāme sthito vratī |
sumatirbharatasyābhūttatputrastaijaso'bhavat
इन्द्रद्युम्नश्च तत्पुत्रः परमेष्ठी ततः स्मृतः ।
प्रतीहारश्चतत्पुत्रः प्रतिहर्त्ता तदात्मजः
indradyumnaśca tatputraḥ parameṣṭhī tataḥ smṛtaḥ |
pratīhāraścatatputraḥ pratiharttā tadātmajaḥ
सुतस्तस्मादथै जातः प्रस्तारस्तत्सुतो विभुः ।
पृथुश्च तत्सुतो नक्तो नक्तस्यापि गयः स्मृतः
sutastasmādathai jātaḥ prastārastatsuto vibhuḥ |
pṛthuśca tatsuto nakto naktasyāpi gayaḥ smṛtaḥ
नरो गयस्य तनयस्तत्पुत्रोभुद्विराडगतः ।
ततो धीमान्महातेजा भौवनस्तस्य चात्मजः
naro gayasya tanayastatputrobhudvirāḍagataḥ |
tato dhīmānmahātejā bhauvanastasya cātmajaḥ
त्वष्टा त्वष्टुश्च विरजा रजस्तस्याप्यभूत्सुतः ।
शतजिद्रजसस्तस्य विष्वग्ज्योतिः सुतः स्मृतः
tvaṣṭā tvaṣṭuśca virajā rajastasyāpyabhūtsutaḥ |
śatajidrajasastasya viṣvagjyotiḥ sutaḥ smṛtaḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)