पूर्व खण्ड — आचार काण्ड

अध्याय 52: महापातकों के प्रायश्चित्त

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे प्रायश्चित्तनिरूपणं नाम द्विपञ्चाशत्तमोऽध्यायः ॥

27 श्लोक · 52 में से 241

इस अध्याय में क्या होता है

महापातकों के प्रायश्चित्त

ब्रह्मा पाँच महापातकी बताते हैं: ब्रह्महत्यारा, सुरा पीने वाला, स्वर्ण चोर, गुरुपत्नीगामी और इनका संसर्गी। ब्रह्महत्यारा वन में कुटी बनाकर चीर पहने बारह वर्ष रहे, या अनशन करे, पर्वत से गिरे, अग्नि या जल में प्रवेश करे, या ब्राह्मण अथवा गौ की रक्षा में प्राण दे। कामवश गुरुपत्नी के पास जाने वाला तपी हुई लोहे की स्त्रीप्रतिमा का आलिंगन करे, या ब्रह्महत्या का व्रत करे। संसर्गी वही व्रत करे या वर्ष भर तप्तकृच्छ्र। गया की यात्रा पाप मिटाती है, और अमावस्या को शिव की, शुक्ल सप्तमी को सूर्य की और एकादशी को जनार्दन की पूजा भी। पतिव्रता को कोई पाप नहीं लगता, जैसे सीता ने राक्षसराज को जीता।

ब्रह्मोवाच

52.1

अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं द्विजाः ।
ब्रह्महा च सुरापश्च स्तेयी च गुरुतल्पगः

ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ dvijāḥ |
brahmahā ca surāpaśca steyī ca gurutalpagaḥ

52.2

पञ्च पातकिनस्त्वेते तत्संयोगी च पञ्चमः ।
उपपापानि गोहत्याप्रभृतीनि सुरा जगुः

pañca pātakinastvete tatsaṃyogī ca pañcamaḥ |
upapāpāni gohatyāprabhṛtīni surā jaguḥ

52.3

ब्रह्महा द्वादशाब्दानि कुटीं कृत्वा वने वसेत् ।
कुर्य्यादनशनं वाथ भृगोः पतनमेव च

brahmahā dvādaśābdāni kuṭīṃ kṛtvā vane vaset |
kuryyādanaśanaṃ vātha bhṛgoḥ patanameva ca

52.4

ज्वलन्तं वा विशेदग्निं जलं वा प्रविशेत्स्वयम् ।
ब्राह्मणार्थे गवार्थे वा सम्यक् प्राणान्परित्यजेत्

jvalantaṃ vā viśedagniṃ jalaṃ vā praviśetsvayam |
brāhmaṇārthe gavārthe vā samyak prāṇānparityajet

52.5

दत्त्वा चान्नं च विदुषे ब्रह्महत्यां व्यपोहति ।
अश्वमेधावभृथके स्नात्वा वा मुच्यते द्विजः

dattvā cānnaṃ ca viduṣe brahmahatyāṃ vyapohati |
aśvamedhāvabhṛthake snātvā vā mucyate dvijaḥ

52.6

सर्वस्वं वा वेदविदे ब्राह्मणाय प्रदापयेत् ।
सरस्वत्यास्तरङ्गिण्याः सङ्गमे लोकविश्रुते

sarvasvaṃ vā vedavide brāhmaṇāya pradāpayet |
sarasvatyāstaraṅgiṇyāḥ saṅgame lokaviśrute

52.7

शुद्धे त्रिषवणस्नातस्त्रिरात्रोपोषितो द्विजः ।
सेतुबन्धे नरः स्नात्वा मुच्यते ब्रह्महत्यया

śuddhe triṣavaṇasnātastrirātropoṣito dvijaḥ |
setubandhe naraḥ snātvā mucyate brahmahatyayā

52.8

कपालमोचने स्नात्वा वाराणस्यां तथैव च ।
सुरापस्तु सुरां पीत्वा अग्निवर्णां द्विजोत्तमः

kapālamocane snātvā vārāṇasyāṃ tathaiva ca |
surāpastu surāṃ pītvā agnivarṇāṃ dvijottamaḥ

52.9

पयो घृतं वा गोमूत्रं तस्मात्पापात्प्रमुच्यते ।
सुवर्णस्तेयी मुक्तः स्यान्मुसलेन हतो नृपैः

payo ghṛtaṃ vā gomūtraṃ tasmātpāpātpramucyate |
suvarṇasteyī muktaḥ syānmusalena hato nṛpaiḥ

52.10

चीरवासा द्विजोऽरण्ये चरेद्ब्रह्महणव्रतम् ।
गुरुभार्य्यां समारुह्य ब्राह्मणः काममोहितः

cīravāsā dvijo'raṇye caredbrahmahaṇavratam |
gurubhāryyāṃ samāruhya brāhmaṇaḥ kāmamohitaḥ

52.11

अवगूहेत्स्त्रियं तप्तां दीप्तां कार्ष्णायसीं कृताम् ।
गुर्वङ्गनागामिनश्च चरेयुर्बह्महाव्रतम्

avagūhetstriyaṃ taptāṃ dīptāṃ kārṣṇāyasīṃ kṛtām |
gurvaṅganāgāminaśca careyurbahmahāvratam

52.12

चान्द्रायणानि वा कुर्य्यात्पञ्च चत्वारि वा पुनः ।
पतितेन च संसर्गं कुरुते यस्तु वै द्विजः

cāndrāyaṇāni vā kuryyātpañca catvāri vā punaḥ |
patitena ca saṃsargaṃ kurute yastu vai dvijaḥ

52.13

स तत्पापापनोदार्थं तस्यैव व्रतमाचरेत् ।
तप्तकृच्छ्रं चरेद्वाथ संवत्सरमतन्द्रितः

sa tatpāpāpanodārthaṃ tasyaiva vratamācaret |
taptakṛcchraṃ caredvātha saṃvatsaramatandritaḥ

52.14

सर्वस्वदानं विधिवत्सर्वपापविशोधनम् ।
चान्द्रायणं च विधिना कृतं चैवातिकृच्छ्रकम्

sarvasvadānaṃ vidhivatsarvapāpaviśodhanam |
cāndrāyaṇaṃ ca vidhinā kṛtaṃ caivātikṛcchrakam

52.15

पुण्यक्षेत्रे गयादौ च गमनं पापनाशनम् ।
अमावस्यां तिथिं प्राप्य यः समाराधयेद्भवम्

puṇyakṣetre gayādau ca gamanaṃ pāpanāśanam |
amāvasyāṃ tithiṃ prāpya yaḥ samārādhayedbhavam

52.16

ब्राह्मणान् भोजयित्वा तु सर्वपापैः प्रमुच्यते ।
उपोषितश्चतुर्दश्यां कृष्णपक्षे समाहितः

brāhmaṇān bhojayitvā tu sarvapāpaiḥ pramucyate |
upoṣitaścaturdaśyāṃ kṛṣṇapakṣe samāhitaḥ

52.17

यमाय धर्मराजाय मृत्यवे चान्तकाय च ।
वैवस्वताय कालाय सर्वभूतक्षयाय च

yamāya dharmarājāya mṛtyave cāntakāya ca |
vaivasvatāya kālāya sarvabhūtakṣayāya ca

52.18

प्रत्येकं तिलसंयुक्तान्दद्यात्सप्त जलाञ्जलीन् ।
स्नात्वा नद्यां तु पूर्वाह्णे मुच्यते सर्वपातकैः

pratyekaṃ tilasaṃyuktāndadyātsapta jalāñjalīn |
snātvā nadyāṃ tu pūrvāhṇe mucyate sarvapātakaiḥ

52.19

ब्रह्मचर्य्यमधः शय्यामुपवासं द्विजार्चनम् ।
व्रतेष्वेतेषु कुर्वीत शान्तः संयतमानसः

brahmacaryyamadhaḥ śayyāmupavāsaṃ dvijārcanam |
vrateṣveteṣu kurvīta śāntaḥ saṃyatamānasaḥ

52.20

पष्ठ्यामुपोषितो देवं शुक्लपक्षे समाहितः ।
सप्तम्यामर्चयेद्भानुं मुच्यते सर्वपातकैः

paṣṭhyāmupoṣito devaṃ śuklapakṣe samāhitaḥ |
saptamyāmarcayedbhānuṃ mucyate sarvapātakaiḥ

52.21

एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् ।
द्वादश्यां शुक्लपक्षस्य महापापैः प्रमुच्यते

ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam |
dvādaśyāṃ śuklapakṣasya mahāpāpaiḥ pramucyate

52.22

तपो जपस्तीर्थसेवा देवब्राह्मणपूजनम् ।
ग्रहणादिषु कालेषु महापातकनाशनम्

tapo japastīrthasevā devabrāhmaṇapūjanam |
grahaṇādiṣu kāleṣu mahāpātakanāśanam

52.23

यः सर्वपापयुक्तोऽपि पुण्यतीर्थेषु मानवः ।
नियमेन त्यजेत्प्राणान्मुच्यते सर्वपातकैः

yaḥ sarvapāpayukto'pi puṇyatīrtheṣu mānavaḥ |
niyamena tyajetprāṇānmucyate sarvapātakaiḥ

52.24

ब्रह्मघ्नं वा कृतघ्नं वा महापातकदूषितम् ।
भर्त्तारमुद्धरेन्नारी प्रविष्टा सह पावकम्

brahmaghnaṃ vā kṛtaghnaṃ vā mahāpātakadūṣitam |
bharttāramuddharennārī praviṣṭā saha pāvakam

52.25

पतिव्रता तु या नारी भर्त्तुः शुश्रूषणोत्सुका ।
न तस्या विद्यते पापमिह लोके परत्र च

pativratā tu yā nārī bharttuḥ śuśrūṣaṇotsukā |
na tasyā vidyate pāpamiha loke paratra ca

52.26

तथा रामस्य सुभगा सीता त्रैलोक्यविश्रुता ।
पत्नी दाशरथेर्देवी विजिग्ये राक्षसेश्वरम्

tathā rāmasya subhagā sītā trailokyaviśrutā |
patnī dāśaratherdevī vijigye rākṣaseśvaram

52.27

फल्गुतीर्थादिषु स्नातः सर्वाचारफलं लभेत् ।
इत्याह भगवान्विष्णुः पुरा मम यतव्रताः

phalgutīrthādiṣu snātaḥ sarvācāraphalaṃ labhet |
ityāha bhagavānviṣṇuḥ purā mama yatavratāḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)