पूर्व खण्ड — आचार काण्ड

अध्याय 48: देवप्रतिष्ठा का सम्पूर्ण विधान

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे देवप्रतिष्ठादिनिरूपणं नामाष्टचत्वारिंशोऽध्यायः इति प्रतिष्ठाप्रकरणं समाप्तम् ॥

101 श्लोक · 48 में से 241

इस अध्याय में क्या होता है

देवप्रतिष्ठा का सम्पूर्ण विधान

सूत सभी देवताओं की प्रतिष्ठा का विधान बताते हैं। शुभ तिथि पर यजमान आचार्य और ऋत्विजों का वरण करके अँगूठी, वस्त्र, गन्ध और माला से सत्कार करे, और गुरु न्यास करे। प्रासाद के आगे दस हाथ का मण्डप बने, जिसमें कुण्ड, तोरण, ध्वज और कलश हों। प्रतिमा को स्नान कराकर शय्या पर रखा जाता है और रात भर मन्त्रों के साथ अधिवास होता है। वायव्य में गणपति का आवाहन होता है और ईशान में वास्तोष्पति मन्त्र से वास्तुदोष शान्त होता है। ब्रह्मा, विष्णु, हर और ईशान की पूजा होती है, अग्नि को कुशों से घेरकर होम होता है। फिर देवस्थापना, दिक्पालों को बलि, और आचार्य को कपिला गौ, चामर, मुकुट, कुण्डल और छत्र दिए जाते हैं। बड़ा भोज कर्म पूरा करता है।

सूत उवाच

48.1

प्रतिष्ठां सर्वदेवानां संक्षेपेण वदाम्यहम् ।
सुतिथ्यादौ सुरम्यां च प्रतिष्ठां कारयेद्गुरुः

pratiṣṭhāṃ sarvadevānāṃ saṃkṣepeṇa vadāmyaham |
sutithyādau suramyāṃ ca pratiṣṭhāṃ kārayedguruḥ

48.2

ऋत्विग्भिः सह चाचार्य्यं वरयेन्मध्यदेशगम् ।
स्वशाखोक्तविधानेन अथ वा प्रणवेन तु

ṛtvigbhiḥ saha cācāryyaṃ varayenmadhyadeśagam |
svaśākhoktavidhānena atha vā praṇavena tu

48.3

पञ्चभिर्बहुभिर्वाथ कुर्य्यात्पाद्यार्घ्यमेव च ।
मुद्रिकाभिस्तथा वस्त्रैर्गन्धमाल्यानुलेपनैः

pañcabhirbahubhirvātha kuryyātpādyārghyameva ca |
mudrikābhistathā vastrairgandhamālyānulepanaiḥ

48.4

मन्त्रन्यासं गुरुः कृत्वा ततः कर्म समारभेत् ।
प्रासादस्याग्रतः कुर्य्यान्मण्डपं दशहस्तकम्

mantranyāsaṃ guruḥ kṛtvā tataḥ karma samārabhet |
prāsādasyāgrataḥ kuryyānmaṇḍapaṃ daśahastakam

48.5

कुर्य्याद्द्वादशहस्तं वा स्तम्भैः षोडशभिर्युतम् ।
ध्वजाष्टकैश्चतुर्हस्तां मध्ये वेदिं च कारयेत्

kuryyāddvādaśahastaṃ vā stambhaiḥ ṣoḍaśabhiryutam |
dhvajāṣṭakaiścaturhastāṃ madhye vediṃ ca kārayet

48.6

नदीसङ्गमतीरात्थां वालुकां तत्र दापयेत् ।
चतुरश्रं कार्मुकाभं वर्त्तुलं कमलाकृति

nadīsaṅgamatīrātthāṃ vālukāṃ tatra dāpayet |
caturaśraṃ kārmukābhaṃ varttulaṃ kamalākṛti

48.7

पूर्वादितः समारभ्य कर्त्तव्यं कुण्डपञ्चकम् ।
अथवा चतुरश्राणि सर्वाण्येतानि कारयेत्

pūrvāditaḥ samārabhya karttavyaṃ kuṇḍapañcakam |
athavā caturaśrāṇi sarvāṇyetāni kārayet

48.8

शान्तिकर्मिधानेन सर्वकामार्थसिद्धये ।
शिरः स्थाने तु देवस्य आचार्य्यो होममाचरेत्

śāntikarmidhānena sarvakāmārthasiddhaye |
śiraḥ sthāne tu devasya ācāryyo homamācaret

48.9

ऐशान्यां केचिदिच्छन्ति उपलिप्यावनिं शुभाम् ।
द्वाराणि चैव चत्वारि कृत्वा वै तोरणान्तिके

aiśānyāṃ kecidicchanti upalipyāvaniṃ śubhām |
dvārāṇi caiva catvāri kṛtvā vai toraṇāntike

48.10

न्यग्रोधोदुम्बराश्वत्थबैल्वपालाशखादिराः ।
तोरणाः पञ्चहस्ताश्च वस्त्रपुष्पाद्यलङ्कृताः

nyagrodhodumbarāśvatthabailvapālāśakhādirāḥ |
toraṇāḥ pañcahastāśca vastrapuṣpādyalaṅkṛtāḥ

48.11

निखनेद्धस्तमेकैकं चत्वारश्चतुरो दिशः ।
पूर्वद्वारे मृगेन्द्रं तु हयराजं तु दक्षिणे

nikhaneddhastamekaikaṃ catvāraścaturo diśaḥ |
pūrvadvāre mṛgendraṃ tu hayarājaṃ tu dakṣiṇe

48.12

पश्चिमे गोपतिर्नाम सुरशार्दूलमुत्तरे ।
अग्निमीलेति हि मन्त्रेण प्रथमं पूर्वतो न्यसेत्

paścime gopatirnāma suraśārdūlamuttare |
agnimīleti hi mantreṇa prathamaṃ pūrvato nyaset

48.13

ईषेत्वेतिहि मन्त्रेण दक्षिणस्यां द्वितीयकम् ।
अग्नआयाहिमन्त्रेण पश्चिमस्यां तृतीयकम्

īṣetvetihi mantreṇa dakṣiṇasyāṃ dvitīyakam |
agnaāyāhimantreṇa paścimasyāṃ tṛtīyakam

48.14

शन्नोदेवीति मन्त्रेण उत्तरस्यां चतुर्थकम् ।
पूर्वे अम्बुदवत्कार्य्या आग्नोय्यां धूमरूपिणी

śannodevīti mantreṇa uttarasyāṃ caturthakam |
pūrve ambudavatkāryyā āgnoyyāṃ dhūmarūpiṇī

48.15

याम्यां वै कृष्णरूपा तु नैर्ऋत्या श्यामला
भवेत् ।
वारुण्यां पाण्डुरा ज्ञेया वायव्यां पीतवर्णिका

yāmyāṃ vai kṛṣṇarūpā tu nairṛtyā śyāmalā
bhavet |
vāruṇyāṃ pāṇḍurā jñeyā vāyavyāṃ pītavarṇikā

48.16

उत्तरे रक्तवर्णा तु शुक्लैशी च पताकिका ।
बहुरूपा तथा मध्ये इन्द्रविद्येति पूर्वके

uttare raktavarṇā tu śuklaiśī ca patākikā |
bahurūpā tathā madhye indravidyeti pūrvake

48.17

आग्निं संसुप्तिमन्त्रेण यमोनागेति दक्षिणे ।
पूज्या रक्षोहनोवेति पश्चिमे उत्तरेऽपि च

āgniṃ saṃsuptimantreṇa yamonāgeti dakṣiṇe |
pūjyā rakṣohanoveti paścime uttare'pi ca

48.18

वात इत्यभिषिच्याथ आप्यायस्वेति चोत्तरे ।
तमीशानमतश्चैव विष्णोर्नुकेति मध्यमे

vāta ityabhiṣicyātha āpyāyasveti cottare |
tamīśānamataścaiva viṣṇornuketi madhyame

48.19

कलशौ तु ततो द्वौ द्वौ निवेश्यौ तोरणान्तिके ।
वस्त्रयुग्मसमायुक्ताश्चन्दनाद्यैः स्वलङ्कृताः

kalaśau tu tato dvau dvau niveśyau toraṇāntike |
vastrayugmasamāyuktāścandanādyaiḥ svalaṅkṛtāḥ

48.20

पुष्पैर्वितानैर्बहुलैरादिवर्णाभिमन्त्रिताः ।
दिक्पालाश्च ततः पूज्याः शास्त्रदृष्टेन कर्मणा

puṣpairvitānairbahulairādivarṇābhimantritāḥ |
dikpālāśca tataḥ pūjyāḥ śāstradṛṣṭena karmaṇā

48.21

त्रातारमिन्द्रभन्त्रेण अग्निर्मूर्द्धेति चापरे ।
अस्मिन्वृक्ष इतं चैव प्रचारीति परा स्मृता

trātāramindrabhantreṇa agnirmūrddheti cāpare |
asminvṛkṣa itaṃ caiva pracārīti parā smṛtā

48.22

किञ्चेदधातु आचत्वाऽभित्वादेति च सप्तमी ।
इमारुद्रेति दिक्यालान्पूजयित्वा विचक्षणः

kiñcedadhātu ācatvā'bhitvādeti ca saptamī |
imārudreti dikyālānpūjayitvā vicakṣaṇaḥ

48.23

होमद्रव्याणि वायव्ये कुर्य्यात्सोपस्कराणि च ।
शङ्खाञ्छास्त्रोदिताञ्छ्वेतान्नेत्राभ्यां विन्यसेद्गुरुः

homadravyāṇi vāyavye kuryyātsopaskarāṇi ca |
śaṅkhāñchāstroditāñchvetānnetrābhyāṃ vinyasedguruḥ

48.24

आलोकनेन द्रव्याणि शुद्धिं यान्ति न संशयः ।
ह्रृदयादीनि चाङ्गानि व्याहृतिप्रणवेन च

ālokanena dravyāṇi śuddhiṃ yānti na saṃśayaḥ |
hrṛdayādīni cāṅgāni vyāhṛtipraṇavena ca

48.25

अस्त्रं चैव समस्तानां न्यासोऽयं सर्वकामिकः ।
अक्षतान्विष्टरं चैव अस्त्रेणैवाभिमन्त्रितान्

astraṃ caiva samastānāṃ nyāso'yaṃ sarvakāmikaḥ |
akṣatānviṣṭaraṃ caiva astreṇaivābhimantritān

48.26

विष्टरेण स्पृशेद्दुव्यान्यागमण्डपसंभृतान् ।
अक्षतान्विकिरेत्पश्चादस्त्रपूतान्समन्ततः

viṣṭareṇa spṛśedduvyānyāgamaṇḍapasaṃbhṛtān |
akṣatānvikiretpaścādastrapūtānsamantataḥ

48.27

शाक्रीं दिशमथारभ्य यावदीशानगोचरम् ।
अवकीर्य्याक्षतार्न्संवाँल्लेपयेन्मण्डपं ततः

śākrīṃ diśamathārabhya yāvadīśānagocaram |
avakīryyākṣatārnsaṃvām̐llepayenmaṇḍapaṃ tataḥ

48.28

गन्धाद्यैरर्घ्यपात्रे च मन्त्रग्रामं न्यसेद्गुरुः ।
तेनार्घ्यपात्रतोयेन प्रोक्षयेद्यागमण्डपम्

gandhādyairarghyapātre ca mantragrāmaṃ nyasedguruḥ |
tenārghyapātratoyena prokṣayedyāgamaṇḍapam

48.29

प्रतिष्ठा यस्य देवस्य तदाख्यं कलशं न्यसेत् ।
ऐशान्यां पूजयेद्याम्ये अस्त्रेणैव च वर्द्धनीम्

pratiṣṭhā yasya devasya tadākhyaṃ kalaśaṃ nyaset |
aiśānyāṃ pūjayedyāmye astreṇaiva ca varddhanīm

48.30

कलशं वर्द्धनीं चैव ग्रहान्वास्तोष्पतिं तथा ।
आसने तानि सर्वाणि प्रणवाख्यं जपेद्गुरुः

kalaśaṃ varddhanīṃ caiva grahānvāstoṣpatiṃ tathā |
āsane tāni sarvāṇi praṇavākhyaṃ japedguruḥ

48.31

सूत्रग्रीवं रत्नगर्भं वस्त्रयुग्मेन वेष्टितम् ।
सर्वौषधीगन्धलिप्तं पूजयेत्कलशं गुरुः

sūtragrīvaṃ ratnagarbhaṃ vastrayugmena veṣṭitam |
sarvauṣadhīgandhaliptaṃ pūjayetkalaśaṃ guruḥ

48.32

देवस्तु कलशे पूज्यो वर्द्धन्या वस्त्रमुत्तमम् ।
वर्द्धन्या तु समायुक्तं कलशं भ्रामयेदनु

devastu kalaśe pūjyo varddhanyā vastramuttamam |
varddhanyā tu samāyuktaṃ kalaśaṃ bhrāmayedanu

48.33

वर्द्धनीधारया सिञ्चन्नग्रतो धारयेत्ततः ।
अभ्यर्च्य वर्द्धनीकुम्भं स्थण्डिले देवमर्चयेत्

varddhanīdhārayā siñcannagrato dhārayettataḥ |
abhyarcya varddhanīkumbhaṃ sthaṇḍile devamarcayet

48.34

घटं चावाह्य वायव्यां गणानां त्वेति सद्गणम् ।
देवमीशानकोणे तु जपेद्वास्तोष्पतिं बुधः

ghaṭaṃ cāvāhya vāyavyāṃ gaṇānāṃ tveti sadgaṇam |
devamīśānakoṇe tu japedvāstoṣpatiṃ budhaḥ

48.35

वास्तोष्पतीति मन्त्रेण वास्तुदोषोपशान्तये ।
कुम्भस्य पूर्वतो भूतं गणदेवं बलिं हरेत्

vāstoṣpatīti mantreṇa vāstudoṣopaśāntaye |
kumbhasya pūrvato bhūtaṃ gaṇadevaṃ baliṃ haret

48.36

पठेदिति च विद्याश्च कुर्य्यादालम्भनं बुधः ।
योगेयोगेति मन्त्रेणास्तरणं शाद्वलैः कुशैः

paṭhediti ca vidyāśca kuryyādālambhanaṃ budhaḥ |
yogeyogeti mantreṇāstaraṇaṃ śādvalaiḥ kuśaiḥ

48.37

ऋत्विग्भिः सार्द्धमाचार्यः स्नानपीठे गुरुस्तदा ।
विविधैर्ब्रह्मघोषैश्च पुण्याहजयमङ्गलैः

ṛtvigbhiḥ sārddhamācāryaḥ snānapīṭhe gurustadā |
vividhairbrahmaghoṣaiśca puṇyāhajayamaṅgalaiḥ

48.38

कृत्वा ब्रह्मरथे देवं प्रतिष्ठन्ति ततो द्विजाः ।
ऐशान्यामानयेत्पीठमण्डपे विन्यसेद्गुरुः

kṛtvā brahmarathe devaṃ pratiṣṭhanti tato dvijāḥ |
aiśānyāmānayetpīṭhamaṇḍape vinyasedguruḥ

48.39

भद्रंकर्णेत्यथ स्नात्वा सूत्रवल्कलजेन तु ।
संस्नाप्य लक्षणोद्धारं कुर्य्यात्तूर्यादि
वादनैः

bhadraṃkarṇetyatha snātvā sūtravalkalajena tu |
saṃsnāpya lakṣaṇoddhāraṃ kuryyāttūryādi
vādanaiḥ

48.40

मधुसर्पिः समायुक्तं कांस्ये वा ताम्रभाजने ।
अक्षिणी चांजयेच्चास्य सुवर्णस्य शलाकया

madhusarpiḥ samāyuktaṃ kāṃsye vā tāmrabhājane |
akṣiṇī cāṃjayeccāsya suvarṇasya śalākayā

48.41

अग्निर्ज्योतीति मन्त्रेण नेत्रोद्वाटं तु कारयेत् ।
लक्षणे क्रियमाणे तु नामैकं स्थापको व
देत्

agnirjyotīti mantreṇa netrodvāṭaṃ tu kārayet |
lakṣaṇe kriyamāṇe tu nāmaikaṃ sthāpako va
det

48.42

इमम्मेगङ्गेमन्त्रेण नेत्रयोः शीतलक्रिया ।
अग्निर्मूर्द्धेति मन्त्रेण दद्याद्वल्मी कमृत्तिकाम्

imammegaṅgemantreṇa netrayoḥ śītalakriyā |
agnirmūrddheti mantreṇa dadyādvalmī kamṛttikām

48.43

बिल्वोदुम्बरमश्वत्थं वटं पालाशमेव च ।
यज्ञायज्ञेति मन्त्रेण दद्यात्पञ्चकषायकम्

bilvodumbaramaśvatthaṃ vaṭaṃ pālāśameva ca |
yajñāyajñeti mantreṇa dadyātpañcakaṣāyakam

48.44

पञ्चगव्यं स्नापयेच्च सहदेव्यादि भिस्ततः ।
सहदेवी बला चैव शतमूली शतावरी

pañcagavyaṃ snāpayecca sahadevyādi bhistataḥ |
sahadevī balā caiva śatamūlī śatāvarī

48.45

कुमारी च गुडूची च सिंही व्याघ्री तथैव च ।
या ओषधीति मन्त्रेण स्नानमोषधिमज्जलैः

kumārī ca guḍūcī ca siṃhī vyāghrī tathaiva ca |
yā oṣadhīti mantreṇa snānamoṣadhimajjalaiḥ

48.46

याः फलिनीति मन्त्रेण फलस्नानं विधीयते ।
द्रुपदादिवेति मन्त्रेण कार्य्यमुद्वर्त्तनं बुधैः

yāḥ phalinīti mantreṇa phalasnānaṃ vidhīyate |
drupadādiveti mantreṇa kāryyamudvarttanaṃ budhaiḥ

48.47

कलशेषु च विन्यस्य उत्तरादिष्वनुक्रमात् ।
रत्नानि चैव धान्यानि औषधीं शतपुष्पिकाम्

kalaśeṣu ca vinyasya uttarādiṣvanukramāt |
ratnāni caiva dhānyāni auṣadhīṃ śatapuṣpikām

48.48

समुद्रांश्चैव विन्यस्य चतुरश्चतुरो दिशः ।
क्षीरं दधि क्षीरोदस्य घृतोदस्येति वा पुनः

samudrāṃścaiva vinyasya caturaścaturo diśaḥ |
kṣīraṃ dadhi kṣīrodasya ghṛtodasyeti vā punaḥ

48.49

आप्यायस्व दधिक्राव्णो याऔषधीरितीति च ।
तेजोऽसीति च मन्त्रैश्च कुम्भं चैवाभिमन्त्रयेत्

āpyāyasva dadhikrāvṇo yāauṣadhīritīti ca |
tejo'sīti ca mantraiśca kumbhaṃ caivābhimantrayet

48.50

समुद्राख्यैश्चतुर्भिश्च स्नापयेत्कलशैः पुनः ।
स्नातश्चैव सुवेषश्च धूपो देयश्च गुग्गुलुः

samudrākhyaiścaturbhiśca snāpayetkalaśaiḥ punaḥ |
snātaścaiva suveṣaśca dhūpo deyaśca gugguluḥ

48.51

अभिषेकाय कुम्भेषु तत्तत्तीर्थानि विन्यसेत् ।
पृथिव्यां यानि तीर्थानि सरितः सागरास्तथा

abhiṣekāya kumbheṣu tattattīrthāni vinyaset |
pṛthivyāṃ yāni tīrthāni saritaḥ sāgarāstathā

48.52

याओषधीति मन्त्रेण कुम्भं चैवाभिमन्त्रयेत् ।
तेन तोयेन यः स्नायात्स मुच्येत्सर्वपातकैः

yāoṣadhīti mantreṇa kumbhaṃ caivābhimantrayet |
tena toyena yaḥ snāyātsa mucyetsarvapātakaiḥ

48.53

अभिषिच्य समुद्रैश्च त्वर्घ्यं दद्यात्ततः पुनः ।
गन्धद्वारेति गन्धं च न्यासं वै वेदमन्त्रकैः

abhiṣicya samudraiśca tvarghyaṃ dadyāttataḥ punaḥ |
gandhadvāreti gandhaṃ ca nyāsaṃ vai vedamantrakaiḥ

48.54

स्वशास्त्रविहितैः प्राप्तैर्युवंवस्त्रेति वस्त्रकम् ।
कविहाविति मन्त्रेण आनयेन्मण्डपं शुभम्

svaśāstravihitaiḥ prāptairyuvaṃvastreti vastrakam |
kavihāviti mantreṇa ānayenmaṇḍapaṃ śubham

48.55

शम्भवायेति मन्त्रेण शय्यायां विनिवेशयेत् ।
विश्वतश्चक्षुर्मन्त्रेण कुर्य्यात्सकलनिष्कलम्

śambhavāyeti mantreṇa śayyāyāṃ viniveśayet |
viśvataścakṣurmantreṇa kuryyātsakalaniṣkalam

48.56

स्थित्वा चैव परे तत्त्वे मन्त्रन्यासं तु कारयेत् ।
स्वशास्त्रविहितो मन्त्रो न्यासस्तस्मिंस्तथोदितः

sthitvā caiva pare tattve mantranyāsaṃ tu kārayet |
svaśāstravihito mantro nyāsastasmiṃstathoditaḥ

48.57

वस्त्रेणाच्छादयित्वा तु पूजनीयः स्वभावतः ।
यथाशास्त्रं निवेद्यानि पादमूले तु दापयेत्

vastreṇācchādayitvā tu pūjanīyaḥ svabhāvataḥ |
yathāśāstraṃ nivedyāni pādamūle tu dāpayet

48.58

अथ प्रणवसंयुक्तं वस्त्रयुग्मेन वेष्टितम् ।
कलशं सहिरण्यं च शिरः स्थाने निवेदयेत्

atha praṇavasaṃyuktaṃ vastrayugmena veṣṭitam |
kalaśaṃ sahiraṇyaṃ ca śiraḥ sthāne nivedayet

48.59

स्थित्वा कुण्डसमीपेऽथ अग्नेः स्थापनमाचरेत् ।
स्वशास्त्रविहितैर्मन्त्रैर्वेदोक्तैर्वाथ वा गुरुः

sthitvā kuṇḍasamīpe'tha agneḥ sthāpanamācaret |
svaśāstravihitairmantrairvedoktairvātha vā guruḥ

48.60

श्रीसूक्तं पावमान्यं च वासदाम्यसवाजिनम् ।
वृषाकपिं च मित्रं बह्वचः पूर्वतो जपेत्

śrīsūktaṃ pāvamānyaṃ ca vāsadāmyasavājinam |
vṛṣākapiṃ ca mitraṃ bahvacaḥ pūrvato japet

48.61

रुद्रं पुरुषसूक्तं च श्लोकाध्यायं च शुक्रियम् ।
ब्रह्माणं पितृमैत्रं च अध्वर्य्युर्दक्षिणे जपेत्

rudraṃ puruṣasūktaṃ ca ślokādhyāyaṃ ca śukriyam |
brahmāṇaṃ pitṛmaitraṃ ca adhvaryyurdakṣiṇe japet

48.62

वेदव्रतं वामदेव्यं ज्येष्ठसाम रथन्तरम् ।
भेरुण्डानि च सामानि छन्दोगः पश्चिमे जपेत्

vedavrataṃ vāmadevyaṃ jyeṣṭhasāma rathantaram |
bheruṇḍāni ca sāmāni chandogaḥ paścime japet

48.63

अथर्वशिरसं चैव कुम्भसूक्तमथर्वणः ।
नीलरुद्रांश्च मैत्रं च अथर्वश्चोत्तरे जपेत्

atharvaśirasaṃ caiva kumbhasūktamatharvaṇaḥ |
nīlarudrāṃśca maitraṃ ca atharvaścottare japet

48.64

कुण्डं चास्त्रेण संप्रोक्ष्य आचार्य्यस्तु विशेषतः ।
ताम्रपात्रे शरावे वा यथाविभवतोऽपि वा

kuṇḍaṃ cāstreṇa saṃprokṣya ācāryyastu viśeṣataḥ |
tāmrapātre śarāve vā yathāvibhavato'pi vā

48.65

जातवेदसमानीय अग्रतस्तं निवेशयेत् ।
अस्त्रेण ज्वालयेद्वह्निं कवचेन तु वेष्टयेत्

jātavedasamānīya agratastaṃ niveśayet |
astreṇa jvālayedvahniṃ kavacena tu veṣṭayet

48.66

अमृतीकृत्य तं पश्चान्मन्त्रैः सर्वैश्च देशिकः ।
पात्रं गृह्य कराभ्यां च कुण्डं भ्राम्य ततः पुनः

amṛtīkṛtya taṃ paścānmantraiḥ sarvaiśca deśikaḥ |
pātraṃ gṛhya karābhyāṃ ca kuṇḍaṃ bhrāmya tataḥ punaḥ

48.67

वैष्णवेन तु योगेन परं तेजस्तु निः क्षिपेत् ।
दक्षिणे स्थापयेद्ब्रह्म प्रणीताञ्चोत्तरेण तु

vaiṣṇavena tu yogena paraṃ tejastu niḥ kṣipet |
dakṣiṇe sthāpayedbrahma praṇītāñcottareṇa tu

48.68

साधारणेन मन्त्रेण स्वसूत्रविहितेन वा ।
दिक्षुदिक्षु ततो दद्यात्परिधीं विष्टरैः सह

sādhāraṇena mantreṇa svasūtravihitena vā |
dikṣudikṣu tato dadyātparidhīṃ viṣṭaraiḥ saha

48.69

ब्रह्मविष्णुहरेशानाः पूज्याः साधारणेन तु ।
दर्भेषु स्थापयेद्वह्निं दर्भैश्च परिवेष्टितम्

brahmaviṣṇuhareśānāḥ pūjyāḥ sādhāraṇena tu |
darbheṣu sthāpayedvahniṃ darbhaiśca pariveṣṭitam

48.70

दर्भतोयेन संस्पृष्टो मन्त्रहीनोऽपि शुध्यति ।
प्रागग्रैरुदगग्रैश्च प्रत्यगग्रैरखण्डितैः

darbhatoyena saṃspṛṣṭo mantrahīno'pi śudhyati |
prāgagrairudagagraiśca pratyagagrairakhaṇḍitaiḥ

48.71

विततैर्वेष्टितो वह्निः स्वयं सान्निध्यमाव्रजेत् ।
अग्नेस्तु रक्षणार्थाय यदुक्तं कर्ममन्त्रवित्

vitatairveṣṭito vahniḥ svayaṃ sānnidhyamāvrajet |
agnestu rakṣaṇārthāya yaduktaṃ karmamantravit

48.72

आचार्य्याः केचिदिच्छन्ति जातकर्माद्यनन्तरम् ।
पवित्रं तु ततः कृत्वा कुर्य्यादाज्यस्य संस्कृतिम्

ācāryyāḥ kecidicchanti jātakarmādyanantaram |
pavitraṃ tu tataḥ kṛtvā kuryyādājyasya saṃskṛtim

48.73

आचार्य्योऽथ निरीक्ष्यापि नीराज्यमभिमन्त्रितम् ।
आज्यभागाभिघारान्तमवेक्षेताज्यसिद्धये

ācāryyo'tha nirīkṣyāpi nīrājyamabhimantritam |
ājyabhāgābhighārāntamavekṣetājyasiddhaye

48.74

पञ्चपञ्चाहुतीर्हुत्वा आज्येन तदनन्तरम् ।
गर्भाधानादितस्तावद्यावद्गोदानिकं भवेत्

pañcapañcāhutīrhutvā ājyena tadanantaram |
garbhādhānāditastāvadyāvadgodānikaṃ bhavet

48.75

स्वशास्त्रविहितैर्मन्त्रैः प्रणवेनाथ होमयेत् ।
ततः पूर्णाहुतिं दत्त्वा पूर्णात्पूर्णमनारेथः

svaśāstravihitairmantraiḥ praṇavenātha homayet |
tataḥ pūrṇāhutiṃ dattvā pūrṇātpūrṇamanārethaḥ

48.76

एवमुत्पादितो वह्निः सर्वकर्मसु सिद्धिदः ।
पूजयित्वा ततो वह्निं कुण्डेषु विहरेत्तथा

evamutpādito vahniḥ sarvakarmasu siddhidaḥ |
pūjayitvā tato vahniṃ kuṇḍeṣu viharettathā

48.77

इन्द्रादीनां स्वमन्त्रैश्च तथाहुतिशतं शतम् ।
पुर्णाहुतिं शतस्यान्ते सर्वेषां चैव होमयेत्

indrādīnāṃ svamantraiśca tathāhutiśataṃ śatam |
purṇāhutiṃ śatasyānte sarveṣāṃ caiva homayet

48.78

स्वामाहुतिमथाज्येषु होता तत्कलशे न्यसेत् ।
देवताश्चैव मन्त्रांश्च तथैव जातवेदसम्

svāmāhutimathājyeṣu hotā tatkalaśe nyaset |
devatāścaiva mantrāṃśca tathaiva jātavedasam

48.79

आत्मानमेकतः कृत्वा ततः पूर्णां प्रदापयेत् ।
निष्कृष्य बहिराचार्य्यो दिक्पालानां बलिं हरेत्

ātmānamekataḥ kṛtvā tataḥ pūrṇāṃ pradāpayet |
niṣkṛṣya bahirācāryyo dikpālānāṃ baliṃ haret

48.80

भूतानां चैव देवानां नागानां च प्रयोगतः ।
तिलाश्च समिधश्चैव होमद्रव्यं द्वयं स्मृतम्

bhūtānāṃ caiva devānāṃ nāgānāṃ ca prayogataḥ |
tilāśca samidhaścaiva homadravyaṃ dvayaṃ smṛtam

48.81

आज्यं तयोः सहकारि तत्प्रधानं यदङ्क
योः ।
पुरुषसुक्तं पूर्वेणैव रुद्रचैव तु दक्षिणे

ājyaṃ tayoḥ sahakāri tatpradhānaṃ yadaṅka
yoḥ |
puruṣasuktaṃ pūrveṇaiva rudracaiva tu dakṣiṇe

48.82

ज्येष्ठसाम च भारुण्डं तन्नयामीति पश्चिमे ।
नीलरुद्रो महामन्त्रः कुम्भसूक्तमथर्वणः

jyeṣṭhasāma ca bhāruṇḍaṃ tannayāmīti paścime |
nīlarudro mahāmantraḥ kumbhasūktamatharvaṇaḥ

48.83

हुत्वा सहस्त्रमेकैकं देवं शिरसि कल्पयेत् ।
एवं मध्ये तथा पादे पूर्णाहुत्या तथा पुनः

hutvā sahastramekaikaṃ devaṃ śirasi kalpayet |
evaṃ madhye tathā pāde pūrṇāhutyā tathā punaḥ

48.84

शिरः स्थानेषु जुहुयादाविशेच्चाप्यनुक्रमात् ।
वेदानामादिमन्त्रैर्वा मन्त्रैर्वा देवनामभिः

śiraḥ sthāneṣu juhuyādāviśeccāpyanukramāt |
vedānāmādimantrairvā mantrairvā devanāmabhiḥ

48.85

स्वशास्त्रविहितैर्वापि गायत्त्र्या वाथ ते द्विजाः ।
गायत्त्र्या वाथवाचार्य्यो व्याहृतिप्रणवेन तु

svaśāstravihitairvāpi gāyattryā vātha te dvijāḥ |
gāyattryā vāthavācāryyo vyāhṛtipraṇavena tu

48.86

एवं होमविधिं कृत्वा न्यसेन्मन्त्रांस्तु देशिकः ।
चरणावग्निमीळे तु इषेत्वो गुल्फयोः स्थिताः

evaṃ homavidhiṃ kṛtvā nyasenmantrāṃstu deśikaḥ |
caraṇāvagnimīḻe tu iṣetvo gulphayoḥ sthitāḥ

48.87

अग्न आयाहि जङ्घे द्वे शन्नोदेवीति जानुनी ।
बृहद्रथन्तरे ऊरू उदरेष्वातिलो
न्यसेत्

agna āyāhi jaṅghe dve śannodevīti jānunī |
bṛhadrathantare ūrū udareṣvātilo
nyaset

48.88

दीर्घायुष्ट्वाय हृदये श्रीश्चते गलके न्यसेत् ।
त्रातारमिन्द्रमुरसि नेत्राभ्यां तु त्रियम्बकम्

dīrghāyuṣṭvāya hṛdaye śrīścate galake nyaset |
trātāramindramurasi netrābhyāṃ tu triyambakam

48.89

मूर्द्धाभव तथा मूर्ध्नि आलग्नाद्धोममाचरेत् ।
उत्था पयेत्ततो देवमुत्तिष्ठब्रह्मणस्पते

mūrddhābhava tathā mūrdhni ālagnāddhomamācaret |
utthā payettato devamuttiṣṭhabrahmaṇaspate

48.90

वेदपुण्याहशब्देन प्रासादानां प्रदक्षिणम् ।
पिण्डिकालंभनं कृत्वा देवस्यत्वेति मन्त्रवित्

vedapuṇyāhaśabdena prāsādānāṃ pradakṣiṇam |
piṇḍikālaṃbhanaṃ kṛtvā devasyatveti mantravit

48.91

दिक्पालान्सह रत्नैश्च धातूनौषधयस्तथा ।
लौहबीजानि सिद्धानि पश्चाद्देवं तु विन्यसेत्

dikpālānsaha ratnaiśca dhātūnauṣadhayastathā |
lauhabījāni siddhāni paścāddevaṃ tu vinyaset

48.92

न गर्भे स्थापयेद्देवं न गर्भं तु परित्यजेत् ।
ईषन्मध्यं परित्यज्य ततो दोषापहं तु तत्

na garbhe sthāpayeddevaṃ na garbhaṃ tu parityajet |
īṣanmadhyaṃ parityajya tato doṣāpahaṃ tu tat

48.93

तिलस्य तुषमात्रं तु उत्तरं किञ्चिदानयेत् ।
ॐ स्थिरो भव शिवो भव प्रजाभ्यश्च नमोनमः

tilasya tuṣamātraṃ tu uttaraṃ kiñcidānayet |
oṃ sthiro bhava śivo bhava prajābhyaśca namonamaḥ

48.94

देवस्य त्वा सवितुर्वः षड्भ्यो वै विन्यसेद्गुरुः ।
तत्त्ववर्णकलामात्रं प्रजानि भुवनात्मजे

devasya tvā saviturvaḥ ṣaḍbhyo vai vinyasedguruḥ |
tattvavarṇakalāmātraṃ prajāni bhuvanātmaje

48.95

षड्भ्यो विन्यस्य सिद्धार्थं ध्रुवार्थैरभिमन्त्रयेत् ।
सम्पातकलशेनैव स्नापयेत्सुप्रतिष्ठितम्

ṣaḍbhyo vinyasya siddhārthaṃ dhruvārthairabhimantrayet |
sampātakalaśenaiva snāpayetsupratiṣṭhitam

48.96

दीपधूपसुगन्धैश्च नैवेद्यैश्च प्रपूजयेत् ।
अर्घ्यं दत्त्वा नमस्कृत्य ततो देवं क्षमापयेत्

dīpadhūpasugandhaiśca naivedyaiśca prapūjayet |
arghyaṃ dattvā namaskṛtya tato devaṃ kṣamāpayet

48.97

पात्रं वस्त्रयुगं छत्रं तथा दिव्याङ्गुलीयकम् ।
ऋत्त्विग्भ्यश्च प्रदातव्या दक्षिणा चैव शक्तितः

pātraṃ vastrayugaṃ chatraṃ tathā divyāṅgulīyakam |
ṛttvigbhyaśca pradātavyā dakṣiṇā caiva śaktitaḥ

48.98

चतुर्थी जुहुयात्पश्चाद्यजमानः समाहितः ।
आहुतीनां शतं हुत्वा ततः पूर्णां प्रदापयेत्

caturthī juhuyātpaścādyajamānaḥ samāhitaḥ |
āhutīnāṃ śataṃ hutvā tataḥ pūrṇāṃ pradāpayet

48.99

निष्क्रम्य बहिराचार्य्यो दिक्पालानां बलिं हरेत् ।
आचार्य्यः पुष्पहस्तस्तु क्षमस्वेति विसर्जयेत्

niṣkramya bahirācāryyo dikpālānāṃ baliṃ haret |
ācāryyaḥ puṣpahastastu kṣamasveti visarjayet

48.100

यागान्ते कपिलां दद्यादाचार्य्याय च चामरम् ।
मुकुटं कुण्डलं छत्रं केयूरं कटिसूत्रकम्

yāgānte kapilāṃ dadyādācāryyāya ca cāmaram |
mukuṭaṃ kuṇḍalaṃ chatraṃ keyūraṃ kaṭisūtrakam

48.101

व्यजनं ग्रामवस्त्रादीन्सोपस्कारं सुमण्डपम् ।
भोजनं च महात्कुर्य्यात्कृतकृत्यश्च जायते ।
यजमानो विमुक्तः स्यात्स्थापकस्य प्रसादतः

vyajanaṃ grāmavastrādīnsopaskāraṃ sumaṇḍapam |
bhojanaṃ ca mahātkuryyātkṛtakṛtyaśca jāyate |
yajamāno vimuktaḥ syātsthāpakasya prasādataḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)