पूर्व खण्ड — आचार काण्ड

अध्याय 46: वास्तु: इक्यासी पद और गृहविन्यास

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वास्तुमानलक्षणं नाम षट्चत्वारिंशोऽध्यायः ॥

38 श्लोक · 46 में से 241

इस अध्याय में क्या होता है

वास्तु: इक्यासी पद और गृहविन्यास

हरि संक्षेप में वास्तु बताते हैं, जिसकी पूजा घर के विघ्न दूर रखती है। भूमि इक्यासी पदों में बँटती है और पूजा ईशान से आरम्भ होती है; वहाँ वास्तुपुरुष का सिर है, नैऋत्य में पैर और आग्नेय तथा वायव्य में हाथ। यही विन्यास घर, नगर, ग्राम, बाज़ार, देवालय, दुर्ग और मठ के लिए है। बाहरी घेरे में बत्तीस और भीतर तेरह देवता हैं, जो ईश, पर्जन्य, जयन्त और इन्द्र से आरम्भ होते हैं। रसोई आग्नेय में हो। फिर गणित के नियमों से भवन की माप द्वारा आय, नक्षत्र और व्यय निकाले जाते हैं, और प्रत्येक दिशा के आठ भागों में द्वार का शुभ अशुभ फल कहा गया है। चारों ओर पीपल, पाकड़, बरगद और गूलर शुभ हैं, और ईशान में सेमल।

हरिरुवाच

46.1

वास्तुं संक्षेपतो वक्ष्ये गृहादौ विघ्ननाशनम् ।
ईशानकोणादारभ्य ह्येकाशीतिपदे यजेत्

vāstuṃ saṃkṣepato vakṣye gṛhādau vighnanāśanam |
īśānakoṇādārabhya hyekāśītipade yajet

46.2

ईशाने च शिरः पादौ नैर्ऋतेऽग्न्यनिले करौ ।
आवासवासवेश्मादौ पुरे ग्रामे वणिक्पथे

īśāne ca śiraḥ pādau nairṛte'gnyanile karau |
āvāsavāsaveśmādau pure grāme vaṇikpathe

46.3

प्रासादारामदुर्गेषु देवालयमठेषु च ।
द्वाविंशति सुरान्बाह्ये तदन्तश्च त्रयोदश

prāsādārāmadurgeṣu devālayamaṭheṣu ca |
dvāviṃśati surānbāhye tadantaśca trayodaśa

46.4

ईशश्चैवाथ पर्जन्यो जयन्तः कुलिशायुधः ।
सूर्य्यः सत्यो भृगुश्चैव आकाशो वायुरेव च

īśaścaivātha parjanyo jayantaḥ kuliśāyudhaḥ |
sūryyaḥ satyo bhṛguścaiva ākāśo vāyureva ca

46.5

पूषा च वितथश्चैव ग्रहक्षेत्रयमावुभौ ।
गन्धर्वी भृगुराजस्तु मृगः पितृगणस्तथा

pūṣā ca vitathaścaiva grahakṣetrayamāvubhau |
gandharvī bhṛgurājastu mṛgaḥ pitṛgaṇastathā

46.6

दौवारिकोऽथ सुग्रीवः पुष्पदन्तो गणाधिपः ।
असुरः शेषपापौ
च रोगो ।डहिमुख
एव च

dauvāriko'tha sugrīvaḥ puṣpadanto gaṇādhipaḥ |
asuraḥ śeṣapāpau
ca rogo |ḍahimukha
eva ca

46.7

भल्लाटः सोमसर्पौ च अदितिश्चदितिस्तथा ।
बहिर्द्वात्रिंशदेते तु तदन्तश्चतुरः श्रृणु

bhallāṭaḥ somasarpau ca aditiścaditistathā |
bahirdvātriṃśadete tu tadantaścaturaḥ śrṛṇu

46.8

ईशानादिचतुष्कोणसंस्थितान्पूजयेद्धुधः ।
आपश्चैवाथ सावित्री जयो रुद्रस्तथैव च

īśānādicatuṣkoṇasaṃsthitānpūjayeddhudhaḥ |
āpaścaivātha sāvitrī jayo rudrastathaiva ca

46.9

मध्ये नवपदे ब्रह्मा तस्याष्टौ च समीपगान् ।
देवानेकोत्तरानेतान्पूर्वादौ नामतः श्रृणु

madhye navapade brahmā tasyāṣṭau ca samīpagān |
devānekottarānetānpūrvādau nāmataḥ śrṛṇu

46.10

अर्य्यमा सविता चैव विवस्वान्विबुधाधिपः ।
मित्रोऽथ राजयक्ष्मा च तथा पृथ्वीधरः क्रमात्

aryyamā savitā caiva vivasvānvibudhādhipaḥ |
mitro'tha rājayakṣmā ca tathā pṛthvīdharaḥ kramāt

46.11

अष्टमश्चापवत्सश्च परितो ब्रह्मणः स्मृताः ।
ईशानकोणादारभ्य दुर्गे च
वंश उच्यते

aṣṭamaścāpavatsaśca parito brahmaṇaḥ smṛtāḥ |
īśānakoṇādārabhya durge ca
vaṃśa ucyate

46.12

आग्नेयकोणादारभ्य वंशो भवति दुर्द्धरः ।
अदितिं हिमवन्तं च जयन्तं च इदं त्रयम्

āgneyakoṇādārabhya vaṃśo bhavati durddharaḥ |
aditiṃ himavantaṃ ca jayantaṃ ca idaṃ trayam

46.13

नायिका कालिका नाम शक्राद्गन्धर्वगाः पुनः ।
वास्तुदेवान्पूजयित्वा गृहप्रासादकृद्भवेत्

nāyikā kālikā nāma śakrādgandharvagāḥ punaḥ |
vāstudevānpūjayitvā gṛhaprāsādakṛdbhavet

46.14

सुरेज्यः पुरतः कार्यो यस्याग्नेय्यां महानसम् ।
कपिनिर्गमने येन पूर्वतः सत्रमण्डपम्

surejyaḥ purataḥ kāryo yasyāgneyyāṃ mahānasam |
kapinirgamane yena pūrvataḥ satramaṇḍapam

46.15

गन्धपुष्पगृहं कार्य्यमैशान्यां पट्टसंयुतम् ।
भाण्डागारं च कौबेर्य्यां गोष्ठागारं च वायवे

gandhapuṣpagṛhaṃ kāryyamaiśānyāṃ paṭṭasaṃyutam |
bhāṇḍāgāraṃ ca kauberyyāṃ goṣṭhāgāraṃ ca vāyave

46.16

उदगाश्रयं च वारुण्यां वातायनसमन्वितम् ।
समित्कुशेन्धनस्थानमायुधानां च नैर्ऋते

udagāśrayaṃ ca vāruṇyāṃ vātāyanasamanvitam |
samitkuśendhanasthānamāyudhānāṃ ca nairṛte

46.17

अभ्यागतालयं रम्यसशय्यासनपादुकम् ।
तोयाग्निदीपसद्भृत्यैर्युक्तं दक्षिणतो भवेत्

abhyāgatālayaṃ ramyasaśayyāsanapādukam |
toyāgnidīpasadbhṛtyairyuktaṃ dakṣiṇato bhavet

46.18

गृहान्तराणि सर्वाणि सजलैः कदलीगृहैः ।
पञ्चवर्णैश्च कुसुमैः शोभितानि प्रकल्पयेत्

gṛhāntarāṇi sarvāṇi sajalaiḥ kadalīgṛhaiḥ |
pañcavarṇaiśca kusumaiḥ śobhitāni prakalpayet

46.19

प्राकारं तद्बहिर्दद्यात्पञ्चहस्तप्रमाणतः ।
एवं विष्ण्वाश्रमं कुर्य्याद्वनैश्चोपवनैर्युतम्

prākāraṃ tadbahirdadyātpañcahastapramāṇataḥ |
evaṃ viṣṇvāśramaṃ kuryyādvanaiścopavanairyutam

46.20

चतुः षष्टिपदो वास्तुः प्रासादादौ प्रपूजितः ।
मध्ये चतुष्पदो ब्रह्मा द्विपदास्त्वर्य्यमादयः

catuḥ ṣaṣṭipado vāstuḥ prāsādādau prapūjitaḥ |
madhye catuṣpado brahmā dvipadāstvaryyamādayaḥ

46.21

कर्णे चैवाथ शिख्याद्यास्तथा देवाः प्रकीर्त्तिताः ।
तेभ्यो ह्युभयतः सार्द्धादन्येऽपि द्विपदाः सुराः

karṇe caivātha śikhyādyāstathā devāḥ prakīrttitāḥ |
tebhyo hyubhayataḥ sārddhādanye'pi dvipadāḥ surāḥ

46.22

चतुः षष्टिपदा देवा इत्येवं परिकीर्त्तिताः ।
चरकी च विदारी च पूतना पापराक्षसी

catuḥ ṣaṣṭipadā devā ityevaṃ parikīrttitāḥ |
carakī ca vidārī ca pūtanā pāparākṣasī

46.23

ईशानाद्यास्ततो बाह्ये देवाद्या हेतुकादयः ।
हैतुकस्त्रिपुरान्तश्च अग्निवेतालकौ यमः

īśānādyāstato bāhye devādyā hetukādayaḥ |
haitukastripurāntaśca agnivetālakau yamaḥ

46.24

अग्निजिह्वः कालकश्च करालो ह्योकपादकः ।
ऐशान्यां भीमरूपस्तु पाताले प्रेतनायकः

agnijihvaḥ kālakaśca karālo hyokapādakaḥ |
aiśānyāṃ bhīmarūpastu pātāle pretanāyakaḥ

46.25

आकाशे गन्धमाली स्यात्क्षेत्रपालांस्ततो यजेत् ।
विस्ताराभिहतं दैर्घ्यं राशिं वास्तोस्तु कारयेत्

ākāśe gandhamālī syātkṣetrapālāṃstato yajet |
vistārābhihataṃ dairghyaṃ rāśiṃ vāstostu kārayet

46.26

कृत्वा च वसुभिर्भागं शेषं बद्धा यमादिशेत् ।
पुनर्गुणितमष्टाभिर्ऋक्षभागं तु भाजयेत्

kṛtvā ca vasubhirbhāgaṃ śeṣaṃ baddhā yamādiśet |
punarguṇitamaṣṭābhirṛkṣabhāgaṃ tu bhājayet

46.27

यच्छेषं तद्भवेदृक्षं भागैर्हृत्वाव्ययं भवेत् ।
ऋक्षं चतुर्गुणं कृत्वा नवभिर्भागहारितम्

yaccheṣaṃ tadbhavedṛkṣaṃ bhāgairhṛtvāvyayaṃ bhavet |
ṛkṣaṃ caturguṇaṃ kṛtvā navabhirbhāgahāritam

46.28

शेषमंशं विजानीयाद्देवलस्य मतं यथा ।
अष्टाभिर्गुणितं पिण्डं षष्टिभिर्भागहारितम्

śeṣamaṃśaṃ vijānīyāddevalasya mataṃ yathā |
aṣṭābhirguṇitaṃ piṇḍaṃ ṣaṣṭibhirbhāgahāritam

46.29

यच्छेषं तद्भवेज्जीवं मरणं भूतहारितम् ।
वास्तुक्रोडे गृहं कुर्य्यान्न पृष्ठे मानवः सदा

yaccheṣaṃ tadbhavejjīvaṃ maraṇaṃ bhūtahāritam |
vāstukroḍe gṛhaṃ kuryyānna pṛṣṭhe mānavaḥ sadā

46.30

वामपार्श्वेन स्वपिति नात्र कार्य्या विचारणा ।
सिंहकन्यातुलायां च द्वारं शुध्येदथोत्तरम्

vāmapārśvena svapiti nātra kāryyā vicāraṇā |
siṃhakanyātulāyāṃ ca dvāraṃ śudhyedathottaram

46.31

एवं च वृश्चिकादौ स्यात्पूर्वदक्षिणपश्चिमम् ।
द्वारं दीर्घार्द्धविस्तारं द्वाराण्यष्टौ स्मृतानि च

evaṃ ca vṛścikādau syātpūrvadakṣiṇapaścimam |
dvāraṃ dīrghārddhavistāraṃ dvārāṇyaṣṭau smṛtāni ca

46.32

सन्तानप्रेष्यनीचत्वं स्वयानं स्वर्णभूषणम् ।
सुतहीनं तु रौद्रेण वीर्य्यघ्नं दक्षिणे तथा

santānapreṣyanīcatvaṃ svayānaṃ svarṇabhūṣaṇam |
sutahīnaṃ tu raudreṇa vīryyaghnaṃ dakṣiṇe tathā

46.33

वह्नौ वध
श्चायुर्वृद्धिंपुत्त्रलाभसुतृप्तिदः ।
धनदे नृपपीडादमर्थघ्नं रोगदं जले

vahnau vadha
ścāyurvṛddhiṃputtralābhasutṛptidaḥ |
dhanade nṛpapīḍādamarthaghnaṃ rogadaṃ jale

46.34

नृपभीतिर्मृतापत्यं ह्यनपत्यं न वैरदम् ।
अर्थदं चार्थहान्यै च दोषदं पुत्रमृत्युदम्

nṛpabhītirmṛtāpatyaṃ hyanapatyaṃ na vairadam |
arthadaṃ cārthahānyai ca doṣadaṃ putramṛtyudam

46.35

द्वाराण्युत्तरसंज्ञानि पूर्वद्वाराणि वच्म्यहम् ।
अग्निभीतिर्बहु कन्याधनसम्मानकोपदम्

dvārāṇyuttarasaṃjñāni pūrvadvārāṇi vacmyaham |
agnibhītirbahu kanyādhanasammānakopadam

46.36

राजघ्नं कोपदं पूर्वे फलतो द्वारमीरितम् ।
ईशानादौ भवेत्पूर्वमाग्नेय्यादौ तु दक्षिणम्

rājaghnaṃ kopadaṃ pūrve phalato dvāramīritam |
īśānādau bhavetpūrvamāgneyyādau tu dakṣiṇam

46.37

नैर्ऋत्यादौ पश्चिमं स्याद्वायव्यादौ तु चोत्तरम् ।
अष्टभागे कृते भागे द्वाराणां च फलाफलम्

nairṛtyādau paścimaṃ syādvāyavyādau tu cottaram |
aṣṭabhāge kṛte bhāge dvārāṇāṃ ca phalāphalam

46.38

अश्वत्थप्लक्षन्यग्रोधाः पूर्वादौ स्यादुदुम्बरः ।
गृहस्य शोभनः प्रोक्त ईशाने चैव शाल्मलिः ।
पूजितो विघ्नहारी स्यात्प्रासादस्य गृहस्य च

aśvatthaplakṣanyagrodhāḥ pūrvādau syādudumbaraḥ |
gṛhasya śobhanaḥ prokta īśāne caiva śālmaliḥ |
pūjito vighnahārī syātprāsādasya gṛhasya ca

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)