पूजयित्वा पवित्राद्यैर्ब्रह्म ध्यात्वा हरिर्भवेत् ।
ब्रह्मध्यानं प्रवक्ष्यामि मायायन्त्रप्रमर्दकम्
pūjayitvā pavitrādyairbrahma dhyātvā harirbhavet |
brahmadhyānaṃ pravakṣyāmi māyāyantrapramardakam
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ब्रह्ममूर्तिध्याननिरूपणं नाम चतुश्चत्वारिंशोऽध्यायः ॥
15 श्लोक · 44 में से 241
हरि ब्रह्मध्यान बताते हैं, जो माया के यन्त्र को मसल देता है। ज्ञानी वाणी को मन में, मन को ज्ञान में और ज्ञान को महान आत्मा में लीन करे। ब्रह्म देह, इन्द्रिय, मन, बुद्धि, प्राण और अहंकार से परे, स्वप्रकाश, निराकार, नित्य, शुद्ध, सत्य, आनन्द और अद्वय है। कठोपनिषद का दृष्टान्त आता है: आत्मा रथी है, शरीर रथ, बुद्धि सारथी, मन लगाम और इन्द्रियाँ घोड़े। मन को टिकाना धारणा है, ब्रह्म में स्थित होना समाधि। यदि चित्त स्थिर न हो तो पहले हृदयकमल में शंख, चक्र, गदा, पद्म, श्रीवत्स और कौस्तुभ सहित हरि का ध्यान करे और भावना करे कि मैं वही परम ब्रह्म हूँ। वे शालग्राम और द्वारका शिलाओं की चौबीस मूर्तियों में स्थित हैं। निष्काम ध्याता मुक्ति पाता है।
हरिरुवाच
पूजयित्वा पवित्राद्यैर्ब्रह्म ध्यात्वा हरिर्भवेत् ।
ब्रह्मध्यानं प्रवक्ष्यामि मायायन्त्रप्रमर्दकम्
pūjayitvā pavitrādyairbrahma dhyātvā harirbhavet |
brahmadhyānaṃ pravakṣyāmi māyāyantrapramardakam
यच्छेद्वाङ्मनसं प्राज्ञस्तं यजेज्ज्ञानमात्मनि ।
ज्ञानं महति संयच्छेद्य इच्छेज्ज्ञानमात्मानि
yacchedvāṅmanasaṃ prājñastaṃ yajejjñānamātmani |
jñānaṃ mahati saṃyacchedya icchejjñānamātmāni
देहेन्द्रियमनोबुद्धिप्राणाहङ्करावर्जितम् ।
वर्जितं भूततन्मात्रैर्गुणजन्माशनादिभिः
dehendriyamanobuddhiprāṇāhaṅkarāvarjitam |
varjitaṃ bhūtatanmātrairguṇajanmāśanādibhiḥ
स्वप्रकाशं निराकारं सदानं दमनादि यत् ।
नित्यं शुद्धं बुद्धमृद्धं सत्यमानन्दमद्वयम्
svaprakāśaṃ nirākāraṃ sadānaṃ damanādi yat |
nityaṃ śuddhaṃ buddhamṛddhaṃ satyamānandamadvayam
तुरीयमक्षरं ब्रह्म अहमस्मि परं पदम् ।
अहं ब्रह्मेत्यवस्थानं समाधिरपि
गीयते
turīyamakṣaraṃ brahma ahamasmi paraṃ padam |
ahaṃ brahmetyavasthānaṃ samādhirapi
gīyate
आत्मानं रथिनं विद्धि शरीरं रथमेव तु ।
बुद्धिं च सारथिं विद्धि मनः प्रग्रहमेव च ।
इन्द्रियाणि हयानाहुर्विषयास्तेषु गोचराः
ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu |
buddhiṃ ca sārathiṃ viddhi manaḥ pragrahameva ca |
indriyāṇi hayānāhurviṣayāsteṣu gocarāḥ
आत्मेंद्रियमनोयुक्तो भोक्तेत्याहुर्मनीषिणः ।
यस्तु विज्ञानबाह्मेन युक्तेन मनसा सदा
ātmeṃdriyamanoyukto bhoktetyāhurmanīṣiṇaḥ |
yastu vijñānabāhmena yuktena manasā sadā
स तु तत्पदमाप्नोति स हि भूयो न जायते ।
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः
sa tu tatpadamāpnoti sa hi bhūyo na jāyate |
vijñānasārathiryastu manaḥ pragrahavānnaraḥ
स्वर्धुन्याः पारमाप्नोति तद्विष्णोः परमं पदम् ।
अहिंसादिर्यमः प्रोक्तः शौचादिर्नियमः स्मृतः
svardhunyāḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam |
ahiṃsādiryamaḥ proktaḥ śaucādirniyamaḥ smṛtaḥ
आसनं पद्मकाद्युक्तं प्राणायामो मरुज्जयः ।
प्रत्याहारो जयः प्रोक्तो ध्यानमीश्वरचिन्तनम्
āsanaṃ padmakādyuktaṃ prāṇāyāmo marujjayaḥ |
pratyāhāro jayaḥ prokto dhyānamīśvaracintanam
मनोधृतिर्धारणा स्यात्समाधिर्ब्रह्मणि स्थितिः ।
पूर्वं चेतः स्थिरं न स्यात्ततोमूर्त्तिं विचिन्तयेत्
manodhṛtirdhāraṇā syātsamādhirbrahmaṇi sthitiḥ |
pūrvaṃ cetaḥ sthiraṃ na syāttatomūrttiṃ vicintayet
हृत्पद्मकर्णिकामध्ये शङ्खचक्रगदाब्जवान् ।
श्रीवत्सकौस्तुभयुतो वनमालाश्रिया युतः
hṛtpadmakarṇikāmadhye śaṅkhacakragadābjavān |
śrīvatsakaustubhayuto vanamālāśriyā yutaḥ
नित्यः शुद्धो भूतियुक्तः सत्यानन्दाह्वयः परः ।
आत्माहं परमं ब्रह्म परमं ज्योतिरेव तु
nityaḥ śuddho bhūtiyuktaḥ satyānandāhvayaḥ paraḥ |
ātmāhaṃ paramaṃ brahma paramaṃ jyotireva tu
चतुर्विंशतिमूर्त्तिः स शालग्रामशिलास्थितः ।
द्वारकादिशिलासंस्थो ध्येयः पूज्योऽप्यहं च सः
caturviṃśatimūrttiḥ sa śālagrāmaśilāsthitaḥ |
dvārakādiśilāsaṃstho dhyeyaḥ pūjyo'pyahaṃ ca saḥ
मनसोऽभीप्सितं प्राप्य देवो वैमानिको भवेत् ।
निष्कामो मुक्तिमाप्नोति मूर्त्तिं ध्याययंस्तुवञ्जपन्
manaso'bhīpsitaṃ prāpya devo vaimāniko bhavet |
niṣkāmo muktimāpnoti mūrttiṃ dhyāyayaṃstuvañjapan
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)