पूर्व खण्ड — आचार काण्ड

अध्याय 43: विष्णु का पवित्रारोपण और उसकी उत्पत्ति

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुपवित्रारोपणं नाम त्रिचत्वारिंशोऽध्यायः ॥

43 श्लोक · 43 में से 241

इस अध्याय में क्या होता है

विष्णु का पवित्रारोपण और उसकी उत्पत्ति

हरि बताते हैं कि विष्णु के पवित्रारोपण का आरम्भ कैसे हुआ। देवासुर संग्राम में देवता विष्णु की शरण गए; विष्णु ने उन्हें ध्वज और ग्रैवेयक आभूषण दिया और कहा कि इन्हें देखकर दानव नष्ट होंगे। वासुकि के छोटे भाई एक नाग ने वर माँगा कि यह आभूषण उसके नाम से पवित्र कहलाए, और वैसा ही हुआ। आगे विधि है: अँगूठे, मध्यमा और कनिष्ठा के माप से तीन प्रकार के पवित्रक और उनकी गाँठें। पवित्रक एक या तीन रात अधिवासित रहता है, रात्रिजागरण होता है, और प्रातः केशव को क्रम से मालाएँ पहनाकर प्रार्थना होती है कि वनमाला और कौस्तुभ की भाँति इसे हृदय पर धारण करें। ब्राह्मणभोजन के बाद अगली सन्ध्या पवित्रक विष्णुलोक को विदा होता है।

हरिरुवाच

43.1

पवित्रारोपणं वक्ष्ये भुक्तिमुक्तिप्रदं हरेः ।
पुरा देवासुरे युद्धे ब्रह्माद्याः शरणं ययुः

pavitrāropaṇaṃ vakṣye bhuktimuktipradaṃ hareḥ |
purā devāsure yuddhe brahmādyāḥ śaraṇaṃ yayuḥ

43.2

विष्णुश्च तेषां देवानां ध्वजं ग्रैवेयकं ददौ ।
एतौ दृष्ट्वा विनङ्क्ष्यन्ति दानवानब्रवीद्धरिः

viṣṇuśca teṣāṃ devānāṃ dhvajaṃ graiveyakaṃ dadau |
etau dṛṣṭvā vinaṅkṣyanti dānavānabravīddhariḥ

43.3

विष्णूक्ते ह्यब्रवीन्नागो वासुकेरनुजस्तदा ।
वृणीत च पवित्राख्यं वरं चेदं वृषध्वज

viṣṇūkte hyabravīnnāgo vāsukeranujastadā |
vṛṇīta ca pavitrākhyaṃ varaṃ cedaṃ vṛṣadhvaja

43.4

ग्रैवेयं हरिदत्तं तु मन्नाम्ना ख्यातिमेष्यति ।
इत्युक्ते तेन ते देवास्तन्नाम्ना तद्वरं विदुः

graiveyaṃ haridattaṃ tu mannāmnā khyātimeṣyati |
ityukte tena te devāstannāmnā tadvaraṃ viduḥ

43.5

प्रावृट्काले तु ये मर्त्त्या नार्चिष्यन्ति पवित्रकैः ।
तेषां सांवत्सरी पूजा विफला च भविष्यति

prāvṛṭkāle tu ye marttyā nārciṣyanti pavitrakaiḥ |
teṣāṃ sāṃvatsarī pūjā viphalā ca bhaviṣyati

43.6

तस्मात्सर्वेषु देवेषु पवित्रारोपणं क्रमात् ।
प्रतिपत्पौर्णमास्यान्ता यस्य या तिथिरुच्यते

tasmātsarveṣu deveṣu pavitrāropaṇaṃ kramāt |
pratipatpaurṇamāsyāntā yasya yā tithirucyate

43.7

द्वादश्यां विष्णवे कार्य्यं शुक्ले कृष्णेऽथ वा हर ।
व्यतीपातेऽयने चैव चन्द्रसूर्य्यग्रहे शिव

dvādaśyāṃ viṣṇave kāryyaṃ śukle kṛṣṇe'tha vā hara |
vyatīpāte'yane caiva candrasūryyagrahe śiva

43.8

विष्णवे वृद्धिकार्य्ये च गुरोरागमने तथा ।
नित्यं पवित्रमुद्दिष्टं प्रावृट्काले त्ववश्यकम्

viṣṇave vṛddhikāryye ca gurorāgamane tathā |
nityaṃ pavitramuddiṣṭaṃ prāvṛṭkāle tvavaśyakam

43.9

कौशेयं पट्टसूत्रं वा कार्पासं क्षौममेव वा ।
कुशसूत्र द्विजानां स्याद्राज्ञा कौशेयपट्टकम्

kauśeyaṃ paṭṭasūtraṃ vā kārpāsaṃ kṣaumameva vā |
kuśasūtra dvijānāṃ syādrājñā kauśeyapaṭṭakam

43.10

वैश्यानां चीरणं क्षौमं शूद्राणां शणवल्कजम् ।
कार्पासं पद्मजं चैव सर्वेषां शस्तमीश्वर

vaiśyānāṃ cīraṇaṃ kṣaumaṃ śūdrāṇāṃ śaṇavalkajam |
kārpāsaṃ padmajaṃ caiva sarveṣāṃ śastamīśvara

43.11

ब्राह्मण्या कर्त्तितं सूत्रं त्रिगुणं त्रिगुणीकृतम् ।
ॐ कारोऽथ शिवः सोमो ह्यग्निर्ब्रह्या फणी रविः

brāhmaṇyā karttitaṃ sūtraṃ triguṇaṃ triguṇīkṛtam |
oṃ kāro'tha śivaḥ somo hyagnirbrahyā phaṇī raviḥ

43.12

विघ्नेशो विष्णुरित्येते स्थितास्तन्तुषु देवताः ।
ब्रह्मा विष्णुश्च रुद्रश्च त्रिसूत्रे देवताः स्मृताः

vighneśo viṣṇurityete sthitāstantuṣu devatāḥ |
brahmā viṣṇuśca rudraśca trisūtre devatāḥ smṛtāḥ

43.13

सौवर्णे राजते ताम्रे वैणवे मृन्मये न्यसेत् ।
अङ्गुष्ठेन चतुः षष्टिः श्रेष्ठं मध्यं तदर्द्धतः

sauvarṇe rājate tāmre vaiṇave mṛnmaye nyaset |
aṅguṣṭhena catuḥ ṣaṣṭiḥ śreṣṭhaṃ madhyaṃ tadarddhataḥ

43.14

तदर्द्धा तु कनिष्ठा स्यात्सूत्रमष्टोत्तरं शतम् ।
उत्तमं मध्यमं चैव कन्यसं पूर्ववत्क्रमात्

tadarddhā tu kaniṣṭhā syātsūtramaṣṭottaraṃ śatam |
uttamaṃ madhyamaṃ caiva kanyasaṃ pūrvavatkramāt

43.15

उत्तमोंऽगुष्ठमानेन मध्यमो मध्यमेन तु ।
कन्यसे च कनिष्ठेन अङ्गुल्या ग्रन्थयः स्मृताः

uttamoṃ'guṣṭhamānena madhyamo madhyamena tu |
kanyase ca kaniṣṭhena aṅgulyā granthayaḥ smṛtāḥ

43.16

विमाने स्थण्डिले चैव एतत्सामान्यलक्षणम् ।
शिवोद्धृतं पवित्रं तु प्रतिमायां च कारयेत्

vimāne sthaṇḍile caiva etatsāmānyalakṣaṇam |
śivoddhṛtaṃ pavitraṃ tu pratimāyāṃ ca kārayet

43.17

हृन्नाभिरू
रुमाने च जानुभ्यामवलम्बिनी ।
अष्टोत्तरसहस्त्रेण चत्वारो ग्रन्थयः स्मृताः

hṛnnābhirū
rumāne ca jānubhyāmavalambinī |
aṣṭottarasahastreṇa catvāro granthayaḥ smṛtāḥ

43.18

षट्त्रिं
शच्च चतुर्विशद्द्वादश ग्रन्थयोऽथवा ।
उत्तमादिषु विज्ञेयाः पर्वभिर्वा पवित्रकम्

ṣaṭtriṃ
śacca caturviśaddvādaśa granthayo'thavā |
uttamādiṣu vijñeyāḥ parvabhirvā pavitrakam

43.19

चर्चितं कुंकुमेनैव हरिद्राचन्दनेन वा ।
सोपवासः पवित्रन्तु पात्रस्थमधिवासयेत्

carcitaṃ kuṃkumenaiva haridrācandanena vā |
sopavāsaḥ pavitrantu pātrasthamadhivāsayet

43.20

अश्वत्थपत्रपुटके अष्टदिक्षु निवेशितम् ।
दण्डकाष्ठं कुशाग्रं च पूर्वे सङ्कर्षणेन तु

aśvatthapatrapuṭake aṣṭadikṣu niveśitam |
daṇḍakāṣṭhaṃ kuśāgraṃ ca pūrve saṅkarṣaṇena tu

43.21

रोचनाकुंकुमेनैव प्रद्युम्नेन तु दक्षिणे ।
युद्धार्थी फलसिद्ध्यर्थमनिरुद्धेन पश्चिमे

rocanākuṃkumenaiva pradyumnena tu dakṣiṇe |
yuddhārthī phalasiddhyarthamaniruddhena paścime

43.22

चन्दनं नीलयुक्तं च तिलभस्माक्षतं तथा ।
आग्नेयादिषु कोणेषु श्रियादीनां तु क्रमान्न्यसेत्

candanaṃ nīlayuktaṃ ca tilabhasmākṣataṃ tathā |
āgneyādiṣu koṇeṣu śriyādīnāṃ tu kramānnyaset

43.23

पवित्रं वासुदेवेन अभिमन्त्र्य सकृत्सकृत् ।
दृष्ट्वा पुनः प्रपूज्याथ वस्त्रेणाच्छाद्य यत्नतः

pavitraṃ vāsudevena abhimantrya sakṛtsakṛt |
dṛṣṭvā punaḥ prapūjyātha vastreṇācchādya yatnataḥ

43.24

देवस्य पुरतः स्थाप्यं प्रतिमामण्डलस्य वा ।
पश्चिमे दक्षिणे चैव उत्तरे पूर्ववत्क्रमात्

devasya purataḥ sthāpyaṃ pratimāmaṇḍalasya vā |
paścime dakṣiṇe caiva uttare pūrvavatkramāt

43.25

ब्राह्मादींश्चापि संस्थाप्य कलशं चापि पूजयेत् ।
अस्त्रेण मण्डलं कृत्वा नैवेद्यञ्च समर्पयेत्

brāhmādīṃścāpi saṃsthāpya kalaśaṃ cāpi pūjayet |
astreṇa maṇḍalaṃ kṛtvā naivedyañca samarpayet

43.26

अधिवास्य पवित्रं तु त्रिसूत्रेण नवेन वा ।
वेदिकां वेष्टयित्वा तु आत्मानं कलशं घृतम्

adhivāsya pavitraṃ tu trisūtreṇa navena vā |
vedikāṃ veṣṭayitvā tu ātmānaṃ kalaśaṃ ghṛtam

43.27

अग्निकुण्डं विमानं च मण्डपं गृहमेव च ।
सूत्रमेकं तु संगृह्य दद्याद्देवस्य मृर्धानि

agnikuṇḍaṃ vimānaṃ ca maṇḍapaṃ gṛhameva ca |
sūtramekaṃ tu saṃgṛhya dadyāddevasya mṛrdhāni

43.28

दत्त्वा पठेदिमं मन्त्रं पूजयित्वा महेश्वरम् ।
आवाहितोऽसि देवेश पूजार्थं परमेश्वर

dattvā paṭhedimaṃ mantraṃ pūjayitvā maheśvaram |
āvāhito'si deveśa pūjārthaṃ parameśvara

43.29

तत्प्रभातेऽर्चयिष्यामि सामग्र्याः सन्निधौ भव ।
एकरात्रं त्रिरात्रं वा अधिवास्य पवित्रकम्

tatprabhāte'rcayiṣyāmi sāmagryāḥ sannidhau bhava |
ekarātraṃ trirātraṃ vā adhivāsya pavitrakam

43.30

रात्रौ जागरणं कृत्वा प्रातः संपूज्य केशवम् ।
आरोपयेत्क्रमेणैव ज्येष्ठमध्यकनीयसम्

rātrau jāgaraṇaṃ kṛtvā prātaḥ saṃpūjya keśavam |
āropayetkrameṇaiva jyeṣṭhamadhyakanīyasam

43.31

धूपयित्वा पवित्रं तु मन्त्रेणैवाभिमंत्रयेत् ।
प्रजप्तग्रन्थिकं चैव पूजयेत्कुसुमादिभिः

dhūpayitvā pavitraṃ tu mantreṇaivābhimaṃtrayet |
prajaptagranthikaṃ caiva pūjayetkusumādibhiḥ

43.32

गायत्त्र्या चार्चितं तेन देवं संपूज्य दापयेत् ।
समं पुत्रकलत्राद्यैः सूत्रपुच्छं तु धारयेत्

gāyattryā cārcitaṃ tena devaṃ saṃpūjya dāpayet |
samaṃ putrakalatrādyaiḥ sūtrapucchaṃ tu dhārayet

43.33

विशुद्धग्रन्थिकं रम्यं महापातकनाशनम् ।
सर्वपापक्षयं देव तवाग्रे धारयाम्यहम्

viśuddhagranthikaṃ ramyaṃ mahāpātakanāśanam |
sarvapāpakṣayaṃ deva tavāgre dhārayāmyaham

43.34

एवं धूपादिनाभ्यर्च्य मध्यमादीन्त्समर्पयेत् ।
पवित्रं वैष्णवं तेजः सर्वपातकनाशनम्

evaṃ dhūpādinābhyarcya madhyamādīntsamarpayet |
pavitraṃ vaiṣṇavaṃ tejaḥ sarvapātakanāśanam

43.35

धर्मकामार्थसिद्ध्यर्थं स्वकंठे धारयाम्यहम् ।
वनमालां समभ्यर्च्य स्वेन मन्त्रेण दापयेत्

dharmakāmārthasiddhyarthaṃ svakaṃṭhe dhārayāmyaham |
vanamālāṃ samabhyarcya svena mantreṇa dāpayet

43.36

नैवेद्यं विविधं दत्त्वा कुसुमादेर्बलिं हरेत् ।
अग्निं संतर्प्य तत्रापि द्वादशांगुलमानतः

naivedyaṃ vividhaṃ dattvā kusumāderbaliṃ haret |
agniṃ saṃtarpya tatrāpi dvādaśāṃgulamānataḥ

43.37

अष्टोत्तरशतेनैव दद्यादेकपवित्रकम् ।
आदौ दत्त्वार्घ्यमादित्ये तत्र चैकं पवित्रकम्

aṣṭottaraśatenaiva dadyādekapavitrakam |
ādau dattvārghyamāditye tatra caikaṃ pavitrakam

43.38

विष्वक्सेनं ततः प्रार्च्य सुरुमर्घ्यादिभिर्हर ।
देवस्याग्रे पठेन्मन्त्रं कृताञ्जलिपुटः स्थितः

viṣvaksenaṃ tataḥ prārcya surumarghyādibhirhara |
devasyāgre paṭhenmantraṃ kṛtāñjalipuṭaḥ sthitaḥ

43.39

ज्ञानतोऽज्ञानतो वापि पूजनादि कृतं मया ।
तत्सर्वं पूर्णमेवास्तु त्वत्प्रसादात्सुरेश्वर

jñānato'jñānato vāpi pūjanādi kṛtaṃ mayā |
tatsarvaṃ pūrṇamevāstu tvatprasādātsureśvara

43.40

मणिविद्रुममालभिर्मन्दारकुसुमादिभिः ।
इयं सांवत्सरी पूजा तवास्तु गरुडध्वज

maṇividrumamālabhirmandārakusumādibhiḥ |
iyaṃ sāṃvatsarī pūjā tavāstu garuḍadhvaja

43.41

वनमाला यथा देव कौस्तुभं सततं हृदि ।
तद्वत्पवित्रं तन्तूनां मालां त्वं हृदये धर

vanamālā yathā deva kaustubhaṃ satataṃ hṛdi |
tadvatpavitraṃ tantūnāṃ mālāṃ tvaṃ hṛdaye dhara

43.42

एवं प्रार्थ्य द्विजान् भोज्य दत्त्वा तेभ्यश्च दक्षिणाम् ।
विसर्जयेत्तु तेनैव सायाह्ने त्वपरेऽहनि

evaṃ prārthya dvijān bhojya dattvā tebhyaśca dakṣiṇām |
visarjayettu tenaiva sāyāhne tvapare'hani

43.43

सांवत्सरीमिमां पूजां सम्पाद्य विधिवन्मया ।
व्रजेः पवित्रकेदानीं विष्णुलोकं विसर्जितः

sāṃvatsarīmimāṃ pūjāṃ sampādya vidhivanmayā |
vrajeḥ pavitrakedānīṃ viṣṇulokaṃ visarjitaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)