पवित्रारोपणं वक्ष्ये शिवस्याशिवनाशनम् ।
आचार्य्यः साधकः कुर्य्यात्पुत्रकः समयो हर
pavitrāropaṇaṃ vakṣye śivasyāśivanāśanam |
ācāryyaḥ sādhakaḥ kuryyātputrakaḥ samayo hara
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शिवपवित्रारोपणं नाम द्विचत्वारिंशोऽध्यायः ॥
25 श्लोक · 42 में से 241
हरि शिव के पवित्रारोपण का विधान बताते हैं, जो प्रतिवर्ष अभिमन्त्रित सूत्रमाला अर्पित करने का कर्म है और सब अमंगल मिटाता है; इसके बिना वर्ष भर की पूजा का फल विघ्नेश हर लेते हैं। यह आषाढ़, श्रावण, भाद्रपद या माघ में होता है। युगों के क्रम से सोने, चाँदी, ताँबे और कपास के सूत्र कहे गए हैं; कपास का सूत कन्या का काता हो, तिगुना करके फिर तिगुना किया जाए, वामदेव और सद्योजात मन्त्रों से गाँठें लगें और कुमकुम से रँगा जाए। तिथि सप्तमी या त्रयोदशी है। चतुर्दशी को सूर्य और रुद्र की पूजा करके सब तत्त्वों के स्वामी शिव को चार पवित्रक अर्पित होते हैं। फिर अग्नि को पवित्रक, गुरु को दक्षिणा, बलि, ब्राह्मणभोजन और चण्ड का विसर्जन होता है।
हरिरुवाच
पवित्रारोपणं वक्ष्ये शिवस्याशिवनाशनम् ।
आचार्य्यः साधकः कुर्य्यात्पुत्रकः समयो हर
pavitrāropaṇaṃ vakṣye śivasyāśivanāśanam |
ācāryyaḥ sādhakaḥ kuryyātputrakaḥ samayo hara
संवत्सरकृतां पूजां विघ्नेशो हरतेऽन्यथा ।
आषाढे श्रावणे माघे कुर्य्याद्भाद्रपदेऽपि वा
saṃvatsarakṛtāṃ pūjāṃ vighneśo harate'nyathā |
āṣāḍhe śrāvaṇe māghe kuryyādbhādrapade'pi vā
सौवर्णरौप्यताम्रं च सूत्रं कार्पासिकं क्रमात् ।
ज्ञेयं कुजादौ संग्राह्यं कन्यया कर्त्तितं च यत्
sauvarṇaraupyatāmraṃ ca sūtraṃ kārpāsikaṃ kramāt |
jñeyaṃ kujādau saṃgrāhyaṃ kanyayā karttitaṃ ca yat
त्रिगुणं त्रिगुणीकृत्य ततः कुर्य्यात्पवित्रकम् ।
ग्रन्थयो वामदेवेन सत्येन क्षालयेच्छिव
triguṇaṃ triguṇīkṛtya tataḥ kuryyātpavitrakam |
granthayo vāmadevena satyena kṣālayecchiva
अघोरेण तु संशोध्य बद्धस्तत्पुरुषाद्भवेत् ।
धूपयेदीशमन्त्रेण तन्तुदेवा इति
स्मृताः
aghoreṇa tu saṃśodhya baddhastatpuruṣādbhavet |
dhūpayedīśamantreṇa tantudevā iti
smṛtāḥ
ॐ कारश्चन्द्रमा वह्निर्ब्रह्मा नागः शिखिध्वजः ।
रविर्विष्णुः शिवः प्रोक्तः क्रमात्तन्तुषु देवताः
oṃ kāraścandramā vahnirbrahmā nāgaḥ śikhidhvajaḥ |
ravirviṣṇuḥ śivaḥ proktaḥ kramāttantuṣu devatāḥ
अष्टोत्तरशतं कुर्य्यात्पञ्चाशत्पञ्चविंशतिम् ।
रुद्रोऽत्तमादि विज्ञेयं मानं च ग्रन्थयो दश
aṣṭottaraśataṃ kuryyātpañcāśatpañcaviṃśatim |
rudro'ttamādi vijñeyaṃ mānaṃ ca granthayo daśa
चतुरङ्गुलान्तराः स्युर्ग्रन्थिनामानि च क्रमात् ।
प्रकृतिः पौरुषी वीरा चतुर्थी चापराजिता
caturaṅgulāntarāḥ syurgranthināmāni ca kramāt |
prakṛtiḥ pauruṣī vīrā caturthī cāparājitā
जया च विजया रुद्रा अजिता च सदाशिवा ।
मनोन्मनी सर्वमुखी द्व्यङ्गुलाङ्गुलतोऽथवा
jayā ca vijayā rudrā ajitā ca sadāśivā |
manonmanī sarvamukhī dvyaṅgulāṅgulato'thavā
रञ्जयेत्कुंकुमाद्यैस्तु कुर्य्याद्गन्धैः पवित्रकम् ।
सप्तम्यां वा त्रयोदश्यां शुक्लपक्षे तथेतरे
rañjayetkuṃkumādyaistu kuryyādgandhaiḥ pavitrakam |
saptamyāṃ vā trayodaśyāṃ śuklapakṣe tathetare
क्षीरादिभिश्च संस्थाप्य लिङ्गं गन्धादिभिर्यजेत् ।
दद्याद्गन्धपवित्रं तु आत्मने ब्रह्मणे हर
kṣīrādibhiśca saṃsthāpya liṅgaṃ gandhādibhiryajet |
dadyādgandhapavitraṃ tu ātmane brahmaṇe hara
पुष्पं गन्धयुतं दद्यान्मूलेनेशानगोचरे ।
पूर्वे च दण्डकाष्ठं तु उत्तरे चामलकीफलम्
puṣpaṃ gandhayutaṃ dadyānmūleneśānagocare |
pūrve ca daṇḍakāṣṭhaṃ tu uttare cāmalakīphalam
मृत्तिकां पश्चिमे दद्याद्दक्षिणे भस्म भूतयः ।
नैर्ऋते ह्यगुरुं दद्याच्छिखामन्त्रेण मन्त्रवित्
mṛttikāṃ paścime dadyāddakṣiṇe bhasma bhūtayaḥ |
nairṛte hyaguruṃ dadyācchikhāmantreṇa mantravit
वायव्यां सर्षपं दद्यात्कवचेन वृषध्वज ।
गृहं संवेष्ट्य सूत्रेण दद्यागन्धपवित्रकम्
vāyavyāṃ sarṣapaṃ dadyātkavacena vṛṣadhvaja |
gṛhaṃ saṃveṣṭya sūtreṇa dadyāgandhapavitrakam
होमं कृत्वाग्नये दत्त्वा दद्याद्भूतबलिं तथा ।
आमन्त्रितोऽसि देवेश गणैः सार्द्धं महेश्वर
homaṃ kṛtvāgnaye dattvā dadyādbhūtabaliṃ tathā |
āmantrito'si deveśa gaṇaiḥ sārddhaṃ maheśvara
प्रातस्त्वां पूजयिष्यामि अत्र सन्निहितो भव ।
निमन्त्र्यानेन तिष्ठेत्तु कुर्वन् गीतादिकं निशि
prātastvāṃ pūjayiṣyāmi atra sannihito bhava |
nimantryānena tiṣṭhettu kurvan gītādikaṃ niśi
मन्त्रितानि पवित्राणि स्थापयेद्देवपार्श्वतः ।
स्नात्वादित्यं चतुर्दश्यां प्राग्रुद्रं च प्रपूजयेत्
mantritāni pavitrāṇi sthāpayeddevapārśvataḥ |
snātvādityaṃ caturdaśyāṃ prāgrudraṃ ca prapūjayet
ललाटस्थं विश्वरूपं ध्यात्वात्मानं प्रपूजयेत् ।
अस्त्रेण प्रोक्षितान्येवं हृदयेनार्चितान्यथ
lalāṭasthaṃ viśvarūpaṃ dhyātvātmānaṃ prapūjayet |
astreṇa prokṣitānyevaṃ hṛdayenārcitānyatha
संहितामन्त्रितान्येव धूपितानि समर्पयेत् ।
शिवतत्त्वात्मकं चादौ विद्यातत्त्वात्मकं ततः
saṃhitāmantritānyeva dhūpitāni samarpayet |
śivatattvātmakaṃ cādau vidyātattvātmakaṃ tataḥ
आत्मतत्त्वात्मकं पश्चाद्देवकाख्यं ततोऽर्चयेत् ।
ॐ हौं हौं शिवतत्त्वाय नमः ।
ॐ हीं
विद्यातत्त्वाय नमः
ātmatattvātmakaṃ paścāddevakākhyaṃ tato'rcayet |
oṃ hauṃ hauṃ śivatattvāya namaḥ |
oṃ hīṃ
vidyātattvāya namaḥ
ॐ हां
आत्मतत्त्वाय नमः ।
ॐ हां हीं हूं क्षौं सर्वतत्त्वाय नमः ।
कालात्मना त्वया देव यदॄष्टं मामके विधौ
oṃ hāṃ
ātmatattvāya namaḥ |
oṃ hāṃ hīṃ hūṃ kṣauṃ sarvatattvāya namaḥ |
kālātmanā tvayā deva yadṝṣṭaṃ māmake vidhau
कृतं क्लिष्टं समुत्सृष्टं हुतं गुप्तं च यत्कृतम् ।
सर्वात्मनात्मना शम्भो पवित्रेण त्वदिच्छया
kṛtaṃ kliṣṭaṃ samutsṛṣṭaṃ hutaṃ guptaṃ ca yatkṛtam |
sarvātmanātmanā śambho pavitreṇa tvadicchayā
पूरयपूरय मखव्रतं तन्नियमेश्वराय सर्वतत्त्वात्मकाय सर्वकारणपालिताय ॐ हां हीं हूं हैं हौं शिवाय नमः
pūrayapūraya makhavrataṃ tanniyameśvarāya sarvatattvātmakāya sarvakāraṇapālitāya oṃ hāṃ hīṃ hūṃ haiṃ hauṃ śivāya namaḥ
पूर्वैरनेन यो दद्यात्पवित्राणां चतुष्टयम् ।
दत्त्वा वह्नेः
पवित्रं च गुरवे दक्षिणां दिशेत्
pūrvairanena yo dadyātpavitrāṇāṃ catuṣṭayam |
dattvā vahneḥ
pavitraṃ ca gurave dakṣiṇāṃ diśet
बलिं दत्त्वा द्विजान् भोज्य चण्डं प्राच्यै विसर्जयेत्
baliṃ dattvā dvijān bhojya caṇḍaṃ prācyai visarjayet
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)