माहेश्वरीं च मे पूजां वद शङ्खगदाधर ।
यां ज्ञात्वा मानवाः सिद्धिं गच्छन्ति परमेश्वर
māheśvarīṃ ca me pūjāṃ vada śaṅkhagadādhara |
yāṃ jñātvā mānavāḥ siddhiṃ gacchanti parameśvara
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे महेश्वरपूजाविधिर्नाम चत्वारिंशोऽध्यायः ॥
19 श्लोक · 40 में से 241
स्वयं शंकर श्रीहरि से वह महेश्वर पूजन पूछते हैं जिससे मनुष्य सिद्धि पाते हैं, और श्रीहरि बताते हैं। स्नान और आचमन करके साधक आसन पर बैठता है, न्यास करता है और मण्डल पर परिवार सहित हर का पूजन करता है। शिव के आसन के देवता ॐ हां शिवासनदेवता आगच्छत से बुलाए जाते हैं। सद्योजात की आठ कलाएँ ॐ हां से दिशाओं में पूजी जाती हैं: सिद्धि, ऋद्धि, विद्युता, लक्ष्मी, बोधा, काली, स्वधा और प्रभा। शिव के परिवार का पूजन होता है। उपचारों की पूरी सूची दी गई है, जिनमें ताम्बूल, गीत, वाद्य, नृत्य और छत्र भी हैं। फिर रूप का ध्यान, जप और एकत्व भावना होती है, और मूलमन्त्र से जप समर्पित किया जाता है। श्रीहरि कहते हैं कि यह माहेश्वर पूजा पापों का नाश करती है।
शङ्कर उवाच
माहेश्वरीं च मे पूजां वद शङ्खगदाधर ।
यां ज्ञात्वा मानवाः सिद्धिं गच्छन्ति परमेश्वर
māheśvarīṃ ca me pūjāṃ vada śaṅkhagadādhara |
yāṃ jñātvā mānavāḥ siddhiṃ gacchanti parameśvara
हरिरुवाच
श्रृणु माहेश्वरीं पूजां कथ्यमानां वृषध्वज ।
आदौ स्नात्वा तथाचम्य ह्यासने चोपविश्य च
śrṛṇu māheśvarīṃ pūjāṃ kathyamānāṃ vṛṣadhvaja |
ādau snātvā tathācamya hyāsane copaviśya ca
न्यासं कृत्वा मण्डले वै पूजयच्चे महेश्वरम् ।
मन्त्रैरेतैर्महेशान परिवारयुतं हरम्
nyāsaṃ kṛtvā maṇḍale vai pūjayacce maheśvaram |
mantrairetairmaheśāna parivārayutaṃ haram
ॐ हां शिवासनदेवता आगच्छतेति ।
अनेनावाहयेद्रुद्र देवता आसनस्य याः
oṃ hāṃ śivāsanadevatā āgacchateti |
anenāvāhayedrudra devatā āsanasya yāḥ
ॐ हां गणपतये नमः ।
ॐ हां सरस्वत्यै नमः ।
ॐ हां नन्दिने नमः ।
ॐ हां महाकालाय नमः ।
ॐ हां गङ्गायै नमः ।
ॐ हां लक्ष्म्यै नमः ।
ॐ हां महाकलायै नमः ।
ॐ हां अस्त्राय नम इति
oṃ hāṃ gaṇapataye namaḥ |
oṃ hāṃ sarasvatyai namaḥ |
oṃ hāṃ nandine namaḥ |
oṃ hāṃ mahākālāya namaḥ |
oṃ hāṃ gaṅgāyai namaḥ |
oṃ hāṃ lakṣmyai namaḥ |
oṃ hāṃ mahākalāyai namaḥ |
oṃ hāṃ astrāya nama iti
एते द्वारे प्रपूज्या वै स्नानगन्धादिभिर्हर ।
ॐ हां ब्रह्मणे वास्त्वधिपतये नमः ।
ॐ हां गुरुभ्यो नमः ।
ॐ हां आधारशक्त्यै नमः ।
ॐ हां अनन्ताय नमः ।
ॐ हां धर्माय नमः ।
ॐ हां ज्ञानाय नमः ।
ॐ हां वैराग्याय नमः ।
ॐ हां ऐश्वर्याय नमः ।
ॐ हां अधर्माय नमः ।
ॐ हां अज्ञानाय नमः ।
ॐ हां अवैराग्याय नमः ।
ॐ हां अनैश्वर्य्याय नमः ।
ॐ हां उर्द्ध्वच्छन्दाय नमः ।
ॐ हां अधश्छन्दाय नमः ।
ॐ हां पद्माय नमः ।
ॐ हां कर्णिकायै नमः ।
ॐ हां वामायै नमः ।
ॐ हां ज्येष्ठायै नमः ।
ॐ हां रौद्यै नमः ।
ॐ काल्यै नमः ।
ॐ हां कलविकरण्यै नमः ।
ॐ बलप्रमथिन्यै नमः ।
ॐ हां सर्वभूतदमन्यै नमः ।
ॐ हां मनोन्मन्यै नमः ।
ॐ हां मण्डलत्रितयाय नमः ।
ॐ हां हौं हं शिवमूर्त्तये नमः ।
ॐ हां विद्याधिपतये नमः ।
ॐ हां हीं हौं शिवाय नमः ।
ॐ हां हृदयाय नमः ।
ॐ शिरसे नमः ।
ॐ हूं शिखायै नमः ।
ॐ हैं कवचाय नमः ।
ॐ हौं नेत्रत्रयाय नमः ।
ॐ हः अस्त्राय नमः ।
ॐ सद्योजाताय नमः
ete dvāre prapūjyā vai snānagandhādibhirhara |
oṃ hāṃ brahmaṇe vāstvadhipataye namaḥ |
oṃ hāṃ gurubhyo namaḥ |
oṃ hāṃ ādhāraśaktyai namaḥ |
oṃ hāṃ anantāya namaḥ |
oṃ hāṃ dharmāya namaḥ |
oṃ hāṃ jñānāya namaḥ |
oṃ hāṃ vairāgyāya namaḥ |
oṃ hāṃ aiśvaryāya namaḥ |
oṃ hāṃ adharmāya namaḥ |
oṃ hāṃ ajñānāya namaḥ |
oṃ hāṃ avairāgyāya namaḥ |
oṃ hāṃ anaiśvaryyāya namaḥ |
oṃ hāṃ urddhvacchandāya namaḥ |
oṃ hāṃ adhaśchandāya namaḥ |
oṃ hāṃ padmāya namaḥ |
oṃ hāṃ karṇikāyai namaḥ |
oṃ hāṃ vāmāyai namaḥ |
oṃ hāṃ jyeṣṭhāyai namaḥ |
oṃ hāṃ raudyai namaḥ |
oṃ kālyai namaḥ |
oṃ hāṃ kalavikaraṇyai namaḥ |
oṃ balapramathinyai namaḥ |
oṃ hāṃ sarvabhūtadamanyai namaḥ |
oṃ hāṃ manonmanyai namaḥ |
oṃ hāṃ maṇḍalatritayāya namaḥ |
oṃ hāṃ hauṃ haṃ śivamūrttaye namaḥ |
oṃ hāṃ vidyādhipataye namaḥ |
oṃ hāṃ hīṃ hauṃ śivāya namaḥ |
oṃ hāṃ hṛdayāya namaḥ |
oṃ śirase namaḥ |
oṃ hūṃ śikhāyai namaḥ |
oṃ haiṃ kavacāya namaḥ |
oṃ hauṃ netratrayāya namaḥ |
oṃ haḥ astrāya namaḥ |
oṃ sadyojātāya namaḥ
ॐ हां सिद्ध्यै नमः ।
ॐ हां ऋद्ध्यै नमः ।
ॐ हां विद्युतायै नमः ।
ॐ हां लक्ष्म्यै नमः ।
ॐ हां बोधायै नमः ।
ॐ हां काल्यै नमः ।
ॐ हां स्वधायै नमः ।
ॐ हां प्रभायै नमः
oṃ hāṃ siddhyai namaḥ |
oṃ hāṃ ṛddhyai namaḥ |
oṃ hāṃ vidyutāyai namaḥ |
oṃ hāṃ lakṣmyai namaḥ |
oṃ hāṃ bodhāyai namaḥ |
oṃ hāṃ kālyai namaḥ |
oṃ hāṃ svadhāyai namaḥ |
oṃ hāṃ prabhāyai namaḥ
सत्यस्याष्टौ कला ज्ञेयाः पूज्याः पूर्वादिषु स्थिताः
satyasyāṣṭau kalā jñeyāḥ pūjyāḥ pūrvādiṣu sthitāḥ
ॐ हां वामदेवाय नमः ।
ॐ हां रजसे नमः ।
ॐ हां रक्षायै नमः ।
ॐ हां रत्यै नमः ।
ॐ हां कन्यायै नमः ।
ॐ हां कामायै नमः ।
ॐ हां जनन्यै नमः ।
ॐ हां क्रियायै नमः ।
ॐ हां वृद्ध्यै नमः ।
ॐ हां कार्य्यायै नमः ।
ॐ रा
त्र्यै नमः ।
ॐ हां भ्रामण्यै नमः ।
ॐ हां मोहिन्यै नमः ।
ॐ हां क्ष
रायै नमः ।
वामदेवकला ज्ञेयास्त्रयो दश वृषध्वज
oṃ hāṃ vāmadevāya namaḥ |
oṃ hāṃ rajase namaḥ |
oṃ hāṃ rakṣāyai namaḥ |
oṃ hāṃ ratyai namaḥ |
oṃ hāṃ kanyāyai namaḥ |
oṃ hāṃ kāmāyai namaḥ |
oṃ hāṃ jananyai namaḥ |
oṃ hāṃ kriyāyai namaḥ |
oṃ hāṃ vṛddhyai namaḥ |
oṃ hāṃ kāryyāyai namaḥ |
oṃ rā
tryai namaḥ |
oṃ hāṃ bhrāmaṇyai namaḥ |
oṃ hāṃ mohinyai namaḥ |
oṃ hāṃ kṣa
rāyai namaḥ |
vāmadevakalā jñeyāstrayo daśa vṛṣadhvaja
ॐ हां तत्पुरुषाय नमः ।
ॐ हां निवृत्त्यै नमः ।
ॐ हां प्रतिष्ठायै नमः ।
ॐ हां विद्यायै नमः ।
ॐ हां शान्त्यै नमः ।
ज्ञेयास्तत्पुरुषस्यैव चतस्रो वृषभध्वज
oṃ hāṃ tatpuruṣāya namaḥ |
oṃ hāṃ nivṛttyai namaḥ |
oṃ hāṃ pratiṣṭhāyai namaḥ |
oṃ hāṃ vidyāyai namaḥ |
oṃ hāṃ śāntyai namaḥ |
jñeyāstatpuruṣasyaiva catasro vṛṣabhadhvaja
ॐ हां तृष्णायै नमः ।
कलाषट्कं ह्यखोरस्य विज्ञेयं भैरवं हर
oṃ hāṃ tṛṣṇāyai namaḥ |
kalāṣaṭkaṃ hyakhorasya vijñeyaṃ bhairavaṃ hara
ॐ हां ईशानाय नमः ।
ॐ हां समित्यै नमः ।
ॐ हां अङ्गदायै नमः ।
ॐ हां कृष्णायै नमः ।
ॐ हां मरीच्यै नमः ।
ॐ हां ज्वालायै नमः ।
ईशानस्य कलाः पञ्च जानीहि वृषभध्वज
oṃ hāṃ īśānāya namaḥ |
oṃ hāṃ samityai namaḥ |
oṃ hāṃ aṅgadāyai namaḥ |
oṃ hāṃ kṛṣṇāyai namaḥ |
oṃ hāṃ marīcyai namaḥ |
oṃ hāṃ jvālāyai namaḥ |
īśānasya kalāḥ pañca jānīhi vṛṣabhadhvaja
ॐ हां शिवपरिवारेभ्यो नमः ।
ॐ हां इन्द्राय सुराधिपतये नमः ।
ॐ हां अग्नये तेजोऽधिपतये नमः ।
ॐ हां यमाय प्रेताधिपतये नमः ।
ॐ हां निर्ऋतये रक्षोऽधिपतये नमः ।
ॐ हां वरुणाय जलाधिपतये नमः ।
ॐ हां वायवे प्राणाधिपतये नमः ।
ॐ हां सोमाय नेत्राधिपतये नमः ।
ॐ हां ईशानाय सर्वविद्याधिपतये नमः ।
ॐ हां अनन्ताय नागाधिपतये नमः ।
ॐ हां ब्रह्मणे सर्वलोकाधिपतये नमः ।
ॐ हां धूलिचण्डेश्वराय नमः
oṃ hāṃ śivaparivārebhyo namaḥ |
oṃ hāṃ indrāya surādhipataye namaḥ |
oṃ hāṃ agnaye tejo'dhipataye namaḥ |
oṃ hāṃ yamāya pretādhipataye namaḥ |
oṃ hāṃ nirṛtaye rakṣo'dhipataye namaḥ |
oṃ hāṃ varuṇāya jalādhipataye namaḥ |
oṃ hāṃ vāyave prāṇādhipataye namaḥ |
oṃ hāṃ somāya netrādhipataye namaḥ |
oṃ hāṃ īśānāya sarvavidyādhipataye namaḥ |
oṃ hāṃ anantāya nāgādhipataye namaḥ |
oṃ hāṃ brahmaṇe sarvalokādhipataye namaḥ |
oṃ hāṃ dhūlicaṇḍeśvarāya namaḥ
आवाहनं स्थापनं सन्निधानं च शङ्कर ।
सन्निरोधं तथा कुर्य्यात्सकलीकरणं तथा
āvāhanaṃ sthāpanaṃ sannidhānaṃ ca śaṅkara |
sannirodhaṃ tathā kuryyātsakalīkaraṇaṃ tathā
तत्त्वन्यासं च मुद्राया दर्शनं ह्यानमेव च ।
पाद्यमाचमनं ह्यर्घ्यं पुष्पाण्यभ्यंगदानकम्
tattvanyāsaṃ ca mudrāyā darśanaṃ hyānameva ca |
pādyamācamanaṃ hyarghyaṃ puṣpāṇyabhyaṃgadānakam
तत उद्वर्त्तनं स्नानं सुगन्धं चानुलेपनम् ।
वस्त्रालं कारभोगांश्च ह्यंगन्यासं च धूपकम्
tata udvarttanaṃ snānaṃ sugandhaṃ cānulepanam |
vastrālaṃ kārabhogāṃśca hyaṃganyāsaṃ ca dhūpakam
दीपं नैवेद्यदानं च हस्तोद्वर्त्तनमेव च ।
पाद्यार्घ्याचमनं गन्धं ताम्बूलं गीतवादनम्
dīpaṃ naivedyadānaṃ ca hastodvarttanameva ca |
pādyārghyācamanaṃ gandhaṃ tāmbūlaṃ gītavādanam
नृत्यं छत्रादिकरणं मुद्राणां दर्शनं तता ।
रूपं ध्यानं जपञ्चाथ एकवद्भाव एव च
nṛtyaṃ chatrādikaraṇaṃ mudrāṇāṃ darśanaṃ tatā |
rūpaṃ dhyānaṃ japañcātha ekavadbhāva eva ca
मूलमन्त्रेण वै कुर्य्याज्जपपूजासमर्पणम् ।
माहेशी कथिता पूजा रुद्र पापविनासिनी
mūlamantreṇa vai kuryyājjapapūjāsamarpaṇam |
māheśī kathitā pūjā rudra pāpavināsinī
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)