पूर्व खण्ड — आचार काण्ड

अध्याय 36: सन्ध्याविधि और गायत्री जप

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे संध्याविधिर्नाम षट्त्रिंशोऽध्यायः ॥

18 श्लोक · 36 में से 241

इस अध्याय में क्या होता है

सन्ध्याविधि और गायत्री जप

श्रीहरि पाप नाशक सन्ध्याविधि बताते हैं। आरम्भ तीन प्राणायामों से होता है। प्राणायाम मन, वाणी और शरीर के दोष जला देता है, इसलिए द्विज को सदा इसमें लगे रहना चाहिए। सायंकाल "अग्निश्च", प्रातः "सूर्यश्च" और मध्याह्न में "आपः पुनन्तु" से आचमन होता है। हथेली में जल लेकर द्रुपदा मन्त्र से अभिमन्त्रित करके छोड़ा जाता है, अघमर्षण का पाठ होता है, और "उदु त्यम्" तथा "चित्रम्" मन्त्रों से सूर्य का उपस्थान होता है, जिससे दिन और रात के पाप नष्ट होते हैं। गायत्री का अंगों पर न्यास करके वेदमाता का जप होता है। पापमुक्त साधक ब्रह्मलोक पाता है। रजस से परे गायत्री का चौथा पाद बताए गए हैं। जो सन्ध्या नहीं करता, उसे सूर्य नष्ट करते हैं।

हरिरुवाच

36.1

सन्ध्याविधिं प्रवक्ष्यामि श्रृणु रुद्राघनाशनम् ।
प्राणायामत्रयं कृत्वा सन्ध्यास्नानमुपक्रमेत्

sandhyāvidhiṃ pravakṣyāmi śrṛṇu rudrāghanāśanam |
prāṇāyāmatrayaṃ kṛtvā sandhyāsnānamupakramet

36.2

सप्रणवां सव्याहृतिं गायत्त्रीं शिरसा सह ।
त्रिः पठेदायतप्रणः प्राणायामः स उच्यते

sapraṇavāṃ savyāhṛtiṃ gāyattrīṃ śirasā saha |
triḥ paṭhedāyatapraṇaḥ prāṇāyāmaḥ sa ucyate

36.3

मनोवाक्रायजं दोषं प्राणायामैर्दहेद्द्विजः ।
तस्मात्सर्वेषु कालेषु प्राणायामपरो भवेत्

manovākrāyajaṃ doṣaṃ prāṇāyāmairdaheddvijaḥ |
tasmātsarveṣu kāleṣu prāṇāyāmaparo bhavet

36.4

सायमग्निश्च मेत्युक्ता प्रातः सूर्य्येत्यपः पिबेत् ।
आपः पुनन्तु मध्याह्ने उपस्पृश्य यथाविधि

sāyamagniśca metyuktā prātaḥ sūryyetyapaḥ pibet |
āpaḥ punantu madhyāhne upaspṛśya yathāvidhi

36.5

आपोहिष्ठेत्यृचा कुर्य्यान्मार्जनं तु कुशोदकैः ।
प्रणवेन तु संयुक्तं क्षिपेद्वारि पदेपदे

āpohiṣṭhetyṛcā kuryyānmārjanaṃ tu kuśodakaiḥ |
praṇavena tu saṃyuktaṃ kṣipedvāri padepade

36.6

रजस्तमः स्वमोहोत्थाञ्जाग्रत्स्वप्नसुषुप्तिजान् ।
वाङ्मनः कर्मजान्दोषान्नवैतान्नवभिर्दहेत्

rajastamaḥ svamohotthāñjāgratsvapnasuṣuptijān |
vāṅmanaḥ karmajāndoṣānnavaitānnavabhirdahet

36.7

समुद्धृत्योदकं पाणौ जप्त्वा च द्रुपदां क्षिपेत् ।
त्रिपडष्टौ द्वादशधा वर्त्तयेदघमर्पणम्

samuddhṛtyodakaṃ pāṇau japtvā ca drupadāṃ kṣipet |
tripaḍaṣṭau dvādaśadhā varttayedaghamarpaṇam

36.8

उदुत्यंचित्रमित्याभ्यामुपतिष्ठेद्दिवाकरम् ।
दिवा रात्रौ च यत्पापं सर्वं नश्यति तत्क्षणात्

udutyaṃcitramityābhyāmupatiṣṭheddivākaram |
divā rātrau ca yatpāpaṃ sarvaṃ naśyati tatkṣaṇāt

36.9

पूर्वसंध्यां जपंस्तिष्ठेत्पश्चिमामुपविश्य च ।
महाव्याहृतिसंयुक्तां गायत्त्रीं प्रणवान्विताम्

pūrvasaṃdhyāṃ japaṃstiṣṭhetpaścimāmupaviśya ca |
mahāvyāhṛtisaṃyuktāṃ gāyattrīṃ praṇavānvitām

36.10

दशभिर्जन्मजनितं शतेन तु पुरा कृतम् ।
त्रियुगं तु सहस्त्रेण गायत्त्रीं हन्ति दुष्कृतम्

daśabhirjanmajanitaṃ śatena tu purā kṛtam |
triyugaṃ tu sahastreṇa gāyattrīṃ hanti duṣkṛtam

36.11

रक्ता भवति गायत्त्री सावित्री शुक्लवर्णिका ।
कृष्णा सरस्वती ज्ञेया संध्यात्रयमुदाहृतम्

raktā bhavati gāyattrī sāvitrī śuklavarṇikā |
kṛṣṇā sarasvatī jñeyā saṃdhyātrayamudāhṛtam

36.12

ॐ भूर्विन्यस्य हृदये ॐ भुवः शिरसि न्यसेत् ।
ॐ स्वरिति शिखायां च गायत्र्याः प्रथमं पदम्

oṃ bhūrvinyasya hṛdaye oṃ bhuvaḥ śirasi nyaset |
oṃ svariti śikhāyāṃ ca gāyatryāḥ prathamaṃ padam

36.13

विन्यसेत्कवचे विद्वान्द्वितीयं नेत्रयोर्न्यसेत् ।
तृतीयेनाङ्गविन्यासं चतुर्थं सर्वतो न्यसेत्

vinyasetkavace vidvāndvitīyaṃ netrayornyaset |
tṛtīyenāṅgavinyāsaṃ caturthaṃ sarvato nyaset

36.14

संध्याकाले तु विन्यस्य जपेद्वै वेदमातरम् ।
शिवस्तस्यास्तु सर्वाह्णे प्राणायामपरं न्यसेत्

saṃdhyākāle tu vinyasya japedvai vedamātaram |
śivastasyāstu sarvāhṇe prāṇāyāmaparaṃ nyaset

36.15

त्रिपदा या तु गायत्त्री ब्रह्मविष्णुमहेश्वरी ।
विनियोगमृषिच्छन्दो ज्ञात्वा तु जपमारभेत्

tripadā yā tu gāyattrī brahmaviṣṇumaheśvarī |
viniyogamṛṣicchando jñātvā tu japamārabhet

36.16

सर्वपापविनिर्मुक्तो ब्रह्मलोकमवाप्नुयात् ।
परोरजसि सारं तं तुरीयपदमीरितम्

sarvapāpavinirmukto brahmalokamavāpnuyāt |
parorajasi sāraṃ taṃ turīyapadamīritam

36.17

तं हन्ति सूर्य्यः सन्ध्यायां नोपास्तिं कुरुते तु यः ।
तुरीयस्य पदस्यापि ऋषिर्निर्मल एव च

taṃ hanti sūryyaḥ sandhyāyāṃ nopāstiṃ kurute tu yaḥ |
turīyasya padasyāpi ṛṣirnirmala eva ca

36.18

छन्दस्तु देवी गायत्त्री परमात्मा च देवता

chandastu devī gāyattrī paramātmā ca devatā

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)