न्यासादिकं प्रवक्ष्यामि गायत्र्याः शृणु शङ्कर ।
विश्वामित्रऋषिश्चैव सविता चाथ देवता
nyāsādikaṃ pravakṣyāmi gāyatryāḥ śṛṇu śaṅkara |
viśvāmitraṛṣiścaiva savitā cātha devatā
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गायत्त्रीन्यासनिरूपणं नाम पञ्चत्रिंशोऽध्यायः ॥
11 श्लोक · 35 में से 241
श्रीहरि शंकर को गायत्री का न्यास सिखाते हैं। इसके ऋषि विश्वामित्र और देवता सविता हैं। मन्त्र का देवी रूप में ध्यान होता है: ब्रह्मा उनका सिर, रुद्र शिखा, वे विष्णु के हृदय में स्थित, तीनों लोक उनके चरण और पृथ्वी उनकी कुक्षि में। ऐसे जानकर बारह लाख जप करना चाहिए। न्यास, जप, ध्यान, अग्निकार्य और अर्चन में उन्हें सदा शरीर पर स्थापित करना चाहिए, क्योंकि वे सब पापों का नाश करती हैं। चौबीस अक्षर पैरों से मस्तक तक अंगों पर रखे जाते हैं, हर अक्षर अपने रंग सहित। ऐसा साधक जो छूता या देखता है, सब पवित्र हो जाता है; गायत्री से बढ़कर कुछ नहीं।
हरिरुवाच
न्यासादिकं प्रवक्ष्यामि गायत्र्याः शृणु शङ्कर ।
विश्वामित्रऋषिश्चैव सविता चाथ देवता
nyāsādikaṃ pravakṣyāmi gāyatryāḥ śṛṇu śaṅkara |
viśvāmitraṛṣiścaiva savitā cātha devatā
ब्रह्मशीर्षा रुद्रशिखा विष्णोर्हृदयसंश्रिता ।
विनियोगैकनयना कात्यायनसगोत्रजा
brahmaśīrṣā rudraśikhā viṣṇorhṛdayasaṃśritā |
viniyogaikanayanā kātyāyanasagotrajā
त्रैलोक्यचरणा ज्ञेया पृथिवीकुक्षिसंस्थिता ।
एवं ज्ञात्वा तु गायत्त्रीं जपेद्द्वादशलक्षकम्
trailokyacaraṇā jñeyā pṛthivīkukṣisaṃsthitā |
evaṃ jñātvā tu gāyattrīṃ japeddvādaśalakṣakam
त्रिपदाष्टाक्षरा ज्ञेया चतुष्पादा षडक्षरा ।
जेप च त्रिपदा प्रोक्ता अर्चने च चतुष्पदा
tripadāṣṭākṣarā jñeyā catuṣpādā ṣaḍakṣarā |
jepa ca tripadā proktā arcane ca catuṣpadā
न्यासे जपे तथा ध्याने अग्निकार्य्ये तथार्चने ।
गायत्त्रीं विन्यसेन्नित्यं सर्वपापप्रणाशिनीम्
nyāse jape tathā dhyāne agnikāryye tathārcane |
gāyattrīṃ vinyasennityaṃ sarvapāpapraṇāśinīm
पादाङ्गुष्ठे गुल्फमध्ये जङ्घयोर्विद्धि जानुनोः ।
ऊर्वोर्गुह्ये च वृषणे नाड्यां नाभौ तनूदरे
pādāṅguṣṭhe gulphamadhye jaṅghayorviddhi jānunoḥ |
ūrvorguhye ca vṛṣaṇe nāḍyāṃ nābhau tanūdare
स्तनयोर्हृदि कण्ठौष्ठमुखे तालुनि चांसयोः ।
नेत्रे भुवार्ललाटे च पूर्वस्यां दक्षिणोत्तरे
stanayorhṛdi kaṇṭhauṣṭhamukhe tāluni cāṃsayoḥ |
netre bhuvārlalāṭe ca pūrvasyāṃ dakṣiṇottare
पश्चमे मूर्ध्नि चाकारं न्यसेद्वर्णान्वदाम्यहम् ।
इन्द्रनीलं च वह्निं च पीतं श्यामं च कापिलम्
paścame mūrdhni cākāraṃ nyasedvarṇānvadāmyaham |
indranīlaṃ ca vahniṃ ca pītaṃ śyāmaṃ ca kāpilam
श्वेतं विद्युत्प्रभं तारं कृष्णं रक्तं क्रमेण तत् ।
श्यामं शुक्लं तथा पीतं श्वेतं वै पद्मरागवत्
śvetaṃ vidyutprabhaṃ tāraṃ kṛṣṇaṃ raktaṃ krameṇa tat |
śyāmaṃ śuklaṃ tathā pītaṃ śvetaṃ vai padmarāgavat
शङ्खवर्णं पाण्डुरं च रक्तं चासवसन्निभम् ।
अर्कवर्णसमं सौम्यं शङ्खाभं श्वेतमेव च
śaṅkhavarṇaṃ pāṇḍuraṃ ca raktaṃ cāsavasannibham |
arkavarṇasamaṃ saumyaṃ śaṅkhābhaṃ śvetameva ca
यद्यत्स्पृशति हस्तेन यच्च पश्यति चक्षुषा ।
पूतं भवति तत्सर्वं गायत्त्र्या न परं विदुः
yadyatspṛśati hastena yacca paśyati cakṣuṣā |
pūtaṃ bhavati tatsarvaṃ gāyattryā na paraṃ viduḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)