पूर्व खण्ड — आचार काण्ड

अध्याय 239: तीन शरीर और साक्षी आत्मा

इति श्रीगारुडे महापुराणे प्रथमांशे आचारकाण्डे ब्रह्मगीतासारो नामेकोनचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥

26 श्लोक · 239 में से 241

इस अध्याय में क्या होता है

तीन शरीर और साक्षी आत्मा

भगवान बताते हैं कि जगत ब्रह्म से कैसे फैलता है और कैसे वापस समेटा जाता है। ब्रह्म से आकाश, आकाश से वायु, फिर अग्नि, जल और पृथ्वी होते हैं। सूक्ष्म शरीर के सत्रह अंग हैं: पाँच कर्मेन्द्रियाँ, पाँच ज्ञानेन्द्रियाँ, पाँच प्राण, संशय करने वाला मन और निश्चय करने वाली बुद्धि। इसका समष्टि रूप हिरण्यगर्भ है। पञ्चीकृत भूतों से ब्रह्माण्ड और स्थूल शरीर बनते हैं। जल में सूर्य के प्रतिबिम्ब जैसा जीव प्राण धारण करता है और जाग्रत, स्वप्न और सुषुप्ति का साक्षी है, जबकि आत्मा इनसे परे, निर्गुण और नित्य शुद्ध रहती है। जैसे घड़ा मिट्टी से अलग कुछ नहीं, वैसे हर कार्य को उसके कारण में लीन करते-करते केवल ब्रह्म बचता है। अन्त में भगवान कहते हैं कि यही अर्जुन को दिया गीता-सार है।

श्रीभगवानुवाच

239.1

सन्नपि ब्रह्म तस्मात्खं मरुत्खाच्च ततोऽनलः

sannapi brahma tasmātkhaṃ marutkhācca tato'nalaḥ

239.2

अग्नेरापस्ततः पृथ्वी प्रपञ्चाकृतिसूतिका ।
ततः सप्तदशं लिङ्गं पञ्चकर्मेन्द्रियाणि च

agnerāpastataḥ pṛthvī prapañcākṛtisūtikā |
tataḥ saptadaśaṃ liṅgaṃ pañcakarmendriyāṇi ca

239.3

वाक्पाणिपादं पायुश्चाप्युपस्थमथ धीन्द्रियम् ।
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं स्यात्पञ्च वायवः

vākpāṇipādaṃ pāyuścāpyupasthamatha dhīndriyam |
śrotraṃ tvakcakṣuṣī jihvā ghrāṇaṃ syātpañca vāyavaḥ

239.4

प्राणोपानः समानश्च व्यानस्तूदान एव च ।
मनोन्तः करणं धीश्च स्यान्मनः संशयात्मकम्

prāṇopānaḥ samānaśca vyānastūdāna eva ca |
manontaḥ karaṇaṃ dhīśca syānmanaḥ saṃśayātmakam

239.5

बुद्धिर्निश्चयरूपा तु एतत्सूक्ष्मस्वरूपकम् ।
हिरण्यगर्भमात्मीयसूत्रं तत्कार्यालिङ्गकम्

buddhirniścayarūpā tu etatsūkṣmasvarūpakam |
hiraṇyagarbhamātmīyasūtraṃ tatkāryāliṅgakam

239.6

पञ्चीकृतानि भूतानि ह्यपञ्चीकृतभूततः ।
पञ्चीकृतेभ्यो भूतेभ्यो ब्रह्माण्डं समजायत

pañcīkṛtāni bhūtāni hyapañcīkṛtabhūtataḥ |
pañcīkṛtebhyo bhūtebhyo brahmāṇḍaṃ samajāyata

239.7

लोकप्रसिद्धं स्थूलाख्यं शरीरं चरणादिमत् ।
पञ्चीकृतानि भूतानि तत्कार्यं तत्स्थमेव च

lokaprasiddhaṃ sthūlākhyaṃ śarīraṃ caraṇādimat |
pañcīkṛtāni bhūtāni tatkāryaṃ tatsthameva ca

239.8

सर्वं शरीरजातं च प्राणिनां स्थूलमीरितम् ।
त्रिधाह्रि परमात्मस्थं शरीरं प्रोच्यते बुधैः

sarvaṃ śarīrajātaṃ ca prāṇināṃ sthūlamīritam |
tridhāhri paramātmasthaṃ śarīraṃ procyate budhaiḥ

239.9

देहद्वयाभिगामी च त्वमथो जीव एकतः ।
स्वभेदवाक्याद्ब्रह्मैव प्रविष्टं देहयोर्द्वयोः

dehadvayābhigāmī ca tvamatho jīva ekataḥ |
svabhedavākyādbrahmaiva praviṣṭaṃ dehayordvayoḥ

239.10

जलार्क्ववद्वदरवज्जीवः प्राणादिधारणः ।
जाग्रत्स्वप्नसुषुप्तीनां साक्षी जीवः स च स्मृतः

jalārkvavadvadaravajjīvaḥ prāṇādidhāraṇaḥ |
jāgratsvapnasuṣuptīnāṃ sākṣī jīvaḥ sa ca smṛtaḥ

239.11

जाग्रत्स्वप्नसुषुप्त्याख्यैर्व्यातिरिक्तश्च निर्गुणः ।
निर्गातावयवोसंगो नित्यशुद्धस्वभावकः

jāgratsvapnasuṣuptyākhyairvyātiriktaśca nirguṇaḥ |
nirgātāvayavosaṃgo nityaśuddhasvabhāvakaḥ

239.12

परमात्मैव यज्जाग्रत्स्वप्नाद्यैर्यस्त्रिधा मतः ।
अन्तः करणराशेश्चैवान्तः करणःस्थितः

paramātmaiva yajjāgratsvapnādyairyastridhā mataḥ |
antaḥ karaṇarāśeścaivāntaḥ karaṇaḥsthitaḥ

239.13

जाग्रत्स्वप्नसुषुप्तीश्च पश्यतो विकृतिः सदा ।
फलक्रियाकारकयोर्जाग्रदादीन्वदाम्यहम्

jāgratsvapnasuṣuptīśca paśyato vikṛtiḥ sadā |
phalakriyākārakayorjāgradādīnvadāmyaham

239.14

इन्द्रियैरथ विज्ञानं जाग्रत्स्थानमुदीरितम् ।
जाग्रत्संस्कारसंभूतप्रत्ययो विषयार्थिनः

indriyairatha vijñānaṃ jāgratsthānamudīritam |
jāgratsaṃskārasaṃbhūtapratyayo viṣayārthinaḥ

239.15

स्वप्नं सुषुप्तिः करणोपसंघाते धियः
स्थित ।
ब्रह्मणः कारणावस्थायां स्थितिः कालकात्मना

svapnaṃ suṣuptiḥ karaṇopasaṃghāte dhiyaḥ
sthita |
brahmaṇaḥ kāraṇāvasthāyāṃ sthitiḥ kālakātmanā

239.16

क्रमतोक्रमतो जीवो जाग्रदादि स पश्यति ।
समाध्यारंभकाले तु पूर्वमेवावधारयेत्

kramatokramato jīvo jāgradādi sa paśyati |
samādhyāraṃbhakāle tu pūrvamevāvadhārayet

239.17

मुमुक्षावथ संजाते अन्तः करणकेवले ।
विलापयेत्क्षेत्रजातं तत्क्षेत्रं परिशेषयेत्

mumukṣāvatha saṃjāte antaḥ karaṇakevale |
vilāpayetkṣetrajātaṃ tatkṣetraṃ pariśeṣayet

239.18

पञ्चीकृतेभ्यो भूतेभ्यो भाण्डादि व्यतिरिक्तकम् ।
यथा मृदो घटो भिन्नो नास्ति तत्कार्यतस्तथा

pañcīkṛtebhyo bhūtebhyo bhāṇḍādi vyatiriktakam |
yathā mṛdo ghaṭo bhinno nāsti tatkāryatastathā

239.19

पञ्चीकृतानि भूतानि अपञ्चीकृतभूततः ।
शंसंति व्यतिरेकेण शिष्टाः सूक्ष्मशरीरकम्

pañcīkṛtāni bhūtāni apañcīkṛtabhūtataḥ |
śaṃsaṃti vyatirekeṇa śiṣṭāḥ sūkṣmaśarīrakam

239.20

अपञ्चीकृतभूतेभ्यो न लिङ्गं व्यतिरिक्तकम् ।
पृथ्व्याधारं विना नास्ति विना नास्ति च तेन सा

apañcīkṛtabhūtebhyo na liṅgaṃ vyatiriktakam |
pṛthvyādhāraṃ vinā nāsti vinā nāsti ca tena sā

239.21

तेजश्च वायुना नास्ति वायुः खेन विना न हि ।
यद्ब्रह्मणा च खं नास्ति शुद्ध ब्रह्म विना च खम्

tejaśca vāyunā nāsti vāyuḥ khena vinā na hi |
yadbrahmaṇā ca khaṃ nāsti śuddha brahma vinā ca kham

239.22

शुद्धभावस्तदा जाग्रत्स्वप्नादीनामसंभवः ।
जीवत्ववर्जितः प्राप्तात्मचैतन्यानुरूपतः

śuddhabhāvastadā jāgratsvapnādīnāmasaṃbhavaḥ |
jīvatvavarjitaḥ prāptātmacaitanyānurūpataḥ

239.23

नित्यं शुद्धं बुद्धमुक्तं सत्यं ब्रह्माद्वितीयकम् ।
तत्त्वंपदान्तौ शिष्टौ च तत्कारो ब्रह्मवाचकः

nityaṃ śuddhaṃ buddhamuktaṃ satyaṃ brahmādvitīyakam |
tattvaṃpadāntau śiṣṭau ca tatkāro brahmavācakaḥ

239.24

उकारश्च अकारश्च मकारोयमृगद्वयः ।
ब्रह्माहमस्म्यहं ब्रह्मज्ञानमज्ञानवर्धनम्

ukāraśca akāraśca makāroyamṛgadvayaḥ |
brahmāhamasmyahaṃ brahmajñānamajñānavardhanam

239.25

अयमात्मा परं ज्योतिश्चिन्नामानन्दरूपकः ।
सत्यं ज्ञानमनतं हि त्वमसीति श्रुतीरितम्

ayamātmā paraṃ jyotiścinnāmānandarūpakaḥ |
satyaṃ jñānamanataṃ hi tvamasīti śrutīritam

239.26

अहं ब्रह्मास्मि निर्लेपमहं ब्रह्मास्मि सर्वगम् ।
योसावादित्यपुरुषसोसावहमनादिमत् ।
गीतासारोर्ऽजुनायोक्तो येन ब्रह्मणि वै लयः

ahaṃ brahmāsmi nirlepamahaṃ brahmāsmi sarvagam |
yosāvādityapuruṣasosāvahamanādimat |
gītāsāror'junāyokto yena brahmaṇi vai layaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)