अशेषलोकनाथस्य सारमाराधनं हरेः ।
दद्यातु पुरुषसूक्तेण यः पुष्पाण्यप एव च
aśeṣalokanāthasya sāramārādhanaṃ hareḥ |
dadyātu puruṣasūkteṇa yaḥ puṣpāṇyapa eva ca
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुपूजानिरूपणं नामैकोनत्रिशदुत्तरद्विशततमोऽध्यायः ॥
9 श्लोक · 229 में से 241
सूत घोषणा करते हैं कि सब लोकों के स्वामी हरि की आराधना हर कर्म का सार है। जो पुरुषसूक्त के साथ फूल या केवल जल भी अर्पित करता है, उसने चर-अचर सारे जगत की पूजा कर ली। जिनसे सब प्राणी उत्पन्न होते हैं, उन विष्णु की जो पूजा नहीं करता, वह ब्रह्महत्यारे के समान गिना जाता है। नरक में यम पापी से पूछते हैं कि तूने केशव को क्यों नहीं पूजा, जो केवल जल से भी पूजे जाते हैं और अपना लोक देते हैं। श्रद्धा से पूजे जाने पर हृषीकेश जो करते हैं, वह न माता करती है, न पिता, न बन्धु। स्वधर्म का पालन भी उनकी आराधना है। दान, फूल और लेप जनार्दन को उतना प्रसन्न नहीं करते जितना भक्ति।
सूत उवाच
अशेषलोकनाथस्य सारमाराधनं हरेः ।
दद्यातु पुरुषसूक्तेण यः पुष्पाण्यप एव च
aśeṣalokanāthasya sāramārādhanaṃ hareḥ |
dadyātu puruṣasūkteṇa yaḥ puṣpāṇyapa eva ca
अर्चितं स्याज्जगदिदं तेन सर्वं चराचरम् ।
यो न पूजयते विष्णुं तं विद्याद्ब्रह्मघातकम्
arcitaṃ syājjagadidaṃ tena sarvaṃ carācaram |
yo na pūjayate viṣṇuṃ taṃ vidyādbrahmaghātakam
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
तं यो न ध्यायते विष्णुं स विष्ठायां क्रिमिर्भवेत्
yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam |
taṃ yo na dhyāyate viṣṇuṃ sa viṣṭhāyāṃ krimirbhavet
नरके पच्यमानस्तु यमेन परिभाषितः ।
किन्त्वया नार्चितो देवः केशवः क्लेशनाशनः
narake pacyamānastu yamena paribhāṣitaḥ |
kintvayā nārcito devaḥ keśavaḥ kleśanāśanaḥ
उदकेनाप्यभावेन द्रव्याणामर्चितः प्रभुः ।
यो ददाति स्वकं लोकं स त्वया किं न चार्चितः
udakenāpyabhāvena dravyāṇāmarcitaḥ prabhuḥ |
yo dadāti svakaṃ lokaṃ sa tvayā kiṃ na cārcitaḥ
न तत्करोति सा माता न पिता नापि बान्धवः ।
यत्करोति हृषीकेशः सन्तुष्टः श्रद्धयार्चितः
na tatkaroti sā mātā na pitā nāpi bāndhavaḥ |
yatkaroti hṛṣīkeśaḥ santuṣṭaḥ śraddhayārcitaḥ
वर्णाश्रमाचारवता पुरुषेण परः पुमान् ।
विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः
varṇāśramācāravatā puruṣeṇa paraḥ pumān |
viṣṇurārādhyate panthā nānyastattoṣakārakaḥ
न दानैर्विविधैर्दत्तैर्न पुष्पैर्नानुलेपनैः ।
तोषमेति महात्मासौ यथा भक्त्या जनार्दनः
na dānairvividhairdattairna puṣpairnānulepanaiḥ |
toṣameti mahātmāsau yathā bhaktyā janārdanaḥ
सम्पदैश्वर्यमाहात्म्यैः सन्तत्या न च कर्मणा ।
विमुक्तैश्चैकता लभ्या मूलमाराधनं हरेः
sampadaiśvaryamāhātmyaiḥ santatyā na ca karmaṇā |
vimuktaiścaikatā labhyā mūlamārādhanaṃ hareḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)