हयायुर्वेदमाख्यास्ये हयं सर्वार्थलक्षणम् ।
काकतुण्डः कृष्णजिह्वो वृक्षास्यश्चोष्णतालुकः
hayāyurvedamākhyāsye hayaṃ sarvārthalakṣaṇam |
kākatuṇḍaḥ kṛṣṇajihvo vṛkṣāsyaścoṣṇatālukaḥ
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गजाश्वायुर्वेदनिरूपणं नामैकाधिकद्विशततमोऽध्यायः ॥
39 श्लोक · 201 में से 241
धन्वन्तरि घोड़ों का आयुर्वेद आरम्भ करते हैं। त्यागने योग्य घोड़े के दोष हैं: कौए जैसी चोंच, काली जीभ, गरम तालु, विरल दाँत, बिल्ली जैसे पैर और भूरी आँखें। उत्तम घोड़ा तुरुष्क देश का माना गया है। रेवन्त की पूजा, होम और ब्राह्मण-भोजन से घोड़ों की रक्षा होती है, और गले में नीम के पत्ते, गुग्गुल, सरसों और हींग बाँधे जाते हैं। घाव चोट से या दोष से होते हैं, और एरण्डमूल, हल्दी तथा चित्रक के लेप उन्हें शुद्ध करते हैं। मात्रा दिन-प्रतिदिन बढ़ती है और आहार दोष के अनुसार होता है। महामारी में शान्तिकर्म होता है। अन्त में हाथी आते हैं: वही औषधियाँ चौगुनी मात्रा में, दाँतों पर रक्षा-माला, सूर्य, शिव, दुर्गा और विष्णु की पूजा, और भूतों को बलि।
धन्वन्तरिरुवाच
हयायुर्वेदमाख्यास्ये हयं सर्वार्थलक्षणम् ।
काकतुण्डः कृष्णजिह्वो वृक्षास्यश्चोष्णतालुकः
hayāyurvedamākhyāsye hayaṃ sarvārthalakṣaṇam |
kākatuṇḍaḥ kṛṣṇajihvo vṛkṣāsyaścoṣṇatālukaḥ
करालो हीनदन्तश्च शृङ्गी विरलदन्तकः ।
एकाण्डश्चैव जाताण्डः कञ्चुकी द्विखुरी स्तनी
karālo hīnadantaśca śṛṅgī viraladantakaḥ |
ekāṇḍaścaiva jātāṇḍaḥ kañcukī dvikhurī stanī
मार्जारपादो व्याघ्राभः कुष्ठविद्रधिसन्निभः ।
यमजो वामनश्चैव मार्जारः कपिलोचनः
mārjārapādo vyāghrābhaḥ kuṣṭhavidradhisannibhaḥ |
yamajo vāmanaścaiva mārjāraḥ kapilocanaḥ
एतद्दोषी हयस्त्याज्य उत्तमोऽश्वस्तुरुष्कजः ।
मध्यमः पञ्चहस्तश्च कनीयांश्च त्रिहस्तकः
etaddoṣī hayastyājya uttamo'śvasturuṣkajaḥ |
madhyamaḥ pañcahastaśca kanīyāṃśca trihastakaḥ
असंहता ये च वाहा ह्रस्वकर्णास्तथैव च ।
शबलाभाः प्रभावेषु न दीनाश्चिरजीविनः
asaṃhatā ye ca vāhā hrasvakarṇāstathaiva ca |
śabalābhāḥ prabhāveṣu na dīnāścirajīvinaḥ
रेवन्तपूजनाद्धोमाद्रक्ष्याश्च द्विजभाजेनात् ।
सरलं निम्बपत्राणि गुग्गुलं सर्षपान्घृतम्
revantapūjanāddhomādrakṣyāśca dvijabhājenāt |
saralaṃ nimbapatrāṇi guggulaṃ sarṣapānghṛtam
तिलञ्चैव वचां हिगुं बध्नीयाद्वाजिनो गले ।
आगन्तुजं दोषजन्तु व्रणं द्विविधमीरितम्
tilañcaiva vacāṃ higuṃ badhnīyādvājino gale |
āgantujaṃ doṣajantu vraṇaṃ dvividhamīritam
चिरपाकं वातजन्तु श्लेष्मजं क्षिप्रपाककम् ।
कण्ठदाहात्मकं पित्ताच्छोणितान्मन्दवेदनम्
cirapākaṃ vātajantu śleṣmajaṃ kṣiprapākakam |
kaṇṭhadāhātmakaṃ pittācchoṇitānmandavedanam
आगन्तुजन्तु शस्त्राद्यैर्दुष्टव्रणविशोधनम् ।
एरण्डमूलं द्विनिशं चित्रकं विश्वभेषजम्
āgantujantu śastrādyairduṣṭavraṇaviśodhanam |
eraṇḍamūlaṃ dviniśaṃ citrakaṃ viśvabheṣajam
रसोनं सैन्धवं वापि तक्रकाञ्जिकपोषितम् ।
तिलसक्तुकपिण्डिका दधियुक्ता ससैन्धवा ।
निम्बपत्रयुतं पिण्डं व्रणशोधनरोपणम्
rasonaṃ saindhavaṃ vāpi takrakāñjikapoṣitam |
tilasaktukapiṇḍikā dadhiyuktā sasaindhavā |
nimbapatrayutaṃ piṇḍaṃ vraṇaśodhanaropaṇam
पटोलं निम्बपत्रञ्च वचा चित्रकमेव च ।
पिप्पलीशृङ्गवेरञ्च चूर्णमेकत्र कारयेत्
paṭolaṃ nimbapatrañca vacā citrakameva ca |
pippalīśṛṅgaverañca cūrṇamekatra kārayet
एतत्पानात्क्रिमिश्लेष्ममन्दानिलविनाशनम् ।
निम्बपत्रं पटो लञ्च त्रिफला खदिरं तथा
etatpānātkrimiśleṣmamandānilavināśanam |
nimbapatraṃ paṭo lañca triphalā khadiraṃ tathā
क्वाथयित्वा ततो वाहं सृतरक्तं विचक्षणः ।
त्र्यहमेव प्रिदातव्यं हयकुष्ठोपशान्तये
kvāthayitvā tato vāhaṃ sṛtaraktaṃ vicakṣaṇaḥ |
tryahameva pridātavyaṃ hayakuṣṭhopaśāntaye
सव्रणेषु च कुष्ठेषु तैलं सर्षपजं हितम् ।
लशुनादिकषायश्च पानभुक्त्युपशान्तये
savraṇeṣu ca kuṣṭheṣu tailaṃ sarṣapajaṃ hitam |
laśunādikaṣāyaśca pānabhuktyupaśāntaye
मातुलुङ्गरसोपेतं मांसीनां रसकेन वा ।
सद्यो दद्यात्तत्र नस्यमन्यैर्वातैः सुसंयुतैः
mātuluṅgarasopetaṃ māṃsīnāṃ rasakena vā |
sadyo dadyāttatra nasyamanyairvātaiḥ susaṃyutaiḥ
पलद्वयं प्रथमेऽह्नि एकैकपलवृद्धितः ।
यावद्दिनानि पूर्णानि पलान्यष्टादशोत्तमे
paladvayaṃ prathame'hni ekaikapalavṛddhitaḥ |
yāvaddināni pūrṇāni palānyaṣṭādaśottame
अधमेऽष्टपलानि स्युर्मध्यमे स्युश्चतुर्दश ।
शरन्निदाघयोर्नैवदेयं नैव तु दापयेत्
adhame'ṣṭapalāni syurmadhyame syuścaturdaśa |
śarannidāghayornaivadeyaṃ naiva tu dāpayet
तैलेन वातिके रोगे शर्कराज्यपयोन्वितैः ।
कटुतैलैः कफे व्योषैः पित्ते चत्रिफलाम्बुभिः
tailena vātike roge śarkarājyapayonvitaiḥ |
kaṭutailaiḥ kaphe vyoṣaiḥ pitte catriphalāmbubhiḥ
शालिषष्टिकदुग्धाशी हयो हिन जुगुप्सितः ।
पक्वजम्बूनिभो हेमवर्णोऽश्वो न जुगुप्सितः
śāliṣaṣṭikadugdhāśī hayo hina jugupsitaḥ |
pakvajambūnibho hemavarṇo'śvo na jugupsitaḥ
अर्धप्रहरणे धुर्ये गुग्गुलुं प्राशयेद्धयम् ।
भोजयेत्पायसं दुग्धं सत्वरं सुस्थिरो हयः
ardhapraharaṇe dhurye gugguluṃ prāśayeddhayam |
bhojayetpāyasaṃ dugdhaṃ satvaraṃ susthiro hayaḥ
विकारे भोजने दुग्धं शाल्यन्नं वातले ददेत् ।
कर्षमांसरसैः पित्ते मधुमुद्गरसाज्यकैः
vikāre bhojane dugdhaṃ śālyannaṃ vātale dadet |
karṣamāṃsarasaiḥ pitte madhumudgarasājyakaiḥ
कफे मुद्गान्कुलत्थान्वा कटुतिक्तान्कफे हये ।
बाधिर्ये व्याधिते ग्रासे त्रिदोषादौ तु गुग्गुलुः
kaphe mudgānkulatthānvā kaṭutiktānkaphe haye |
bādhirye vyādhite grāse tridoṣādau tu gugguluḥ
घासैर्दूर्वा सर्वरोगे प्रथमेऽह्नि पलं ददेत् ।
विवर्धयेत्ततः कर्षमेकाह्नि पलपञ्चकम्
ghāsairdūrvā sarvaroge prathame'hni palaṃ dadet |
vivardhayettataḥ karṣamekāhni palapañcakam
पाने च भोजने चैव अशीतिपलकं परम् ।
मध्ये षष्टिश्चाधमेषु चत्वारिंशच्च भोगिषु
pāne ca bhojane caiva aśītipalakaṃ param |
madhye ṣaṣṭiścādhameṣu catvāriṃśacca bhogiṣu
व्रणे कुष्ठेषु खञ्जेषु त्रिफलाक्वाथसंयुतम् ।
मन्दाग्नौ शोथरोगे च गवां मूत्रेण योजितम्
vraṇe kuṣṭheṣu khañjeṣu triphalākvāthasaṃyutam |
mandāgnau śotharoge ca gavāṃ mūtreṇa yojitam
वातपित्ते व्रणे व्याधौ गोक्षीरं घृतसंयुतम् ।
देयं कृशानां पुष्ट्यर्थं मांसैर्युक्तं च भोजनम्
vātapitte vraṇe vyādhau gokṣīraṃ ghṛtasaṃyutam |
deyaṃ kṛśānāṃ puṣṭyarthaṃ māṃsairyuktaṃ ca bhojanam
सुपिष्टायाः प्रदातव्यं गुडूच्याः पलपञ्चकम् ।
प्रभाते घृतसंयुक्तं शरद्गीष्मे च वाजिनाम्
supiṣṭāyāḥ pradātavyaṃ guḍūcyāḥ palapañcakam |
prabhāte ghṛtasaṃyuktaṃ śaradgīṣme ca vājinām
रोगघ्नं पुष्टिदं चापि बलतेजोविवर्धनम् ।
तदेवाश्वायदातव्यं क्षीरयुक्तमथापि वा
rogaghnaṃ puṣṭidaṃ cāpi balatejovivardhanam |
tadevāśvāyadātavyaṃ kṣīrayuktamathāpi vā
गुडूचीकल्पयोगेन शतावर्यश्वगन्धयोः ।
चत्वारि त्रीणि मध्यस्य जघन्यस्य पलानि हि
guḍūcīkalpayogena śatāvaryaśvagandhayoḥ |
catvāri trīṇi madhyasya jaghanyasya palāni hi
अकस्माद्यत्र वाहानामेकरूपं यदा भवेत् ।
म्रियते च यदा क्षिप्रमुपसर्गं तमादिशेत्
akasmādyatra vāhānāmekarūpaṃ yadā bhavet |
mriyate ca yadā kṣipramupasargaṃ tamādiśet
होमाद्यै रक्षया विप्रभोजनैर्बलिकर्मणा ।
शान्त्योपसर्गशान्तिः स्याद्धरीतक्यादिकल्पतः
homādyai rakṣayā viprabhojanairbalikarmaṇā |
śāntyopasargaśāntiḥ syāddharītakyādikalpataḥ
हरीतकी गवां मूत्रैस्तैलेन लवणान्विता ।
आदौ पञ्च ततः पञ्च वृद्ध्या पूर्णशतावधि ।
उत्तमा च शतं मात्रास्त्वशीतिः षष्टिरेव वा
harītakī gavāṃ mūtraistailena lavaṇānvitā |
ādau pañca tataḥ pañca vṛddhyā pūrṇaśatāvadhi |
uttamā ca śataṃ mātrāstvaśītiḥ ṣaṣṭireva vā
गजायुर्वेदमाख्यास्ये उक्ताः कल्पा गजे हिताः ।
गजे चतुर्गुणा मात्रास्ताभिर्गजरुगर्दनः
gajāyurvedamākhyāsye uktāḥ kalpā gaje hitāḥ |
gaje caturguṇā mātrāstābhirgajarugardanaḥ
गजो पसर्गव्याधीनां शमनं शान्तिकर्म च ।
पूजयित्वा सुरान्विप्रान्रत्नैर्गां कपिलां ददेत्
gajo pasargavyādhīnāṃ śamanaṃ śāntikarma ca |
pūjayitvā surānviprānratnairgāṃ kapilāṃ dadet
दन्तिदन्तद्वये मालां निबन्धीयादुपोषितः ।
मन्त्रेण मन्त्रितान्वैद्यैर्वचासिद्धार्थकांस्तथा
dantidantadvaye mālāṃ nibandhīyādupoṣitaḥ |
mantreṇa mantritānvaidyairvacāsiddhārthakāṃstathā
सूर्यादिशिवदुर्गाश्रीविष्ण्वर्चा रक्षयेद्गजम् ।
बलिं दद्याच्च भूतेभ्यः स्नापयेच्च चतुर्घटैः
sūryādiśivadurgāśrīviṣṇvarcā rakṣayedgajam |
baliṃ dadyācca bhūtebhyaḥ snāpayecca caturghaṭaiḥ
भोजनं मन्त्रितं दद्याद्भस्मनोद्धूनयेद्गजमम् ।
भूतरक्षा शुभा मेध्या वारणं रक्षयेत्सदा
bhojanaṃ mantritaṃ dadyādbhasmanoddhūnayedgajamam |
bhūtarakṣā śubhā medhyā vāraṇaṃ rakṣayetsadā
त्रिफलापञ्चकोले च दशमूलं विडङ्गकम् ।
शतावरीगुडूची च निम्बवासककिंशुकाः
triphalāpañcakole ca daśamūlaṃ viḍaṅgakam |
śatāvarīguḍūcī ca nimbavāsakakiṃśukāḥ
गजरोगविनाशाय हितो रूक्षः कषायकः ।
आयुर्वेदद्वयोक्तानामुक्तं संक्षेपसारतः
gajarogavināśāya hito rūkṣaḥ kaṣāyakaḥ |
āyurvedadvayoktānāmuktaṃ saṃkṣepasārataḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)