गारुडं संप्रवक्ष्यामि गरुडेन ह्युदीरितम् ।
कश्यपाय सुमित्रेण विषहृद्येन गारुडः
gāruḍaṃ saṃpravakṣyāmi garuḍena hyudīritam |
kaśyapāya sumitreṇa viṣahṛdyena gāruḍaḥ
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सप्तनवत्यधिकशततमोऽध्यायः ॥
55 श्लोक · 197 में से 241
धन्वन्तरि गारुड़ विद्या बताते हैं, जिसे विष हरने के लिए स्वयं गरुड़ ने कश्यप को कहा था। पृथ्वी, जल, तेज, वायु और आकाश प्रत्येक का एक मण्डल और अधिपति देवता है, जैसे पृथ्वी के लिए इन्द्र का पीला चौकोर और जल के लिए वरुण का शीतल अर्धचन्द्र। इनमें महानाग स्थापित हैं: पार्थिव मण्डल में वासुकि और शंखपाल और अन्य क्रम से। साधक न्यास द्वारा अपने शरीर पर तत्त्वों और शिव के अंगों को स्थापित करता है, कमल पर अनन्त आदि आठ नागों का पूजन करता है, और गरुड़ का ध्यान करता है, जिनके पैर पाताल में हैं, पंख दिशाओं में फैले हैं, जो नागों के भक्षक हैं। इस प्रकार गरुड़ ने कश्यप को बताया, और अब महेश्वर गौरी को विद्या कहते हैं।
धन्वन्तरिरुवाच
गारुडं संप्रवक्ष्यामि गरुडेन ह्युदीरितम् ।
कश्यपाय सुमित्रेण विषहृद्येन गारुडः
gāruḍaṃ saṃpravakṣyāmi garuḍena hyudīritam |
kaśyapāya sumitreṇa viṣahṛdyena gāruḍaḥ
पृथिव्यापस्तथा तेजो वायुराकाशमेवच ।
क्षित्यादिष्वेव वर्गाश्च ह्येते वै मण्डलाधिपाः
pṛthivyāpastathā tejo vāyurākāśamevaca |
kṣityādiṣveva vargāśca hyete vai maṇḍalādhipāḥ
पञ्चतत्त्वे स्थिता देवाः प्राप्यन्ते विष्णुसेवकैः ।
दीर्घस्वरविभिन्नाश्च नपुंसकविवर्जिताः
pañcatattve sthitā devāḥ prāpyante viṣṇusevakaiḥ |
dīrghasvaravibhinnāśca napuṃsakavivarjitāḥ
सषडङ्गः शिवः प्रोक्तो हृच्छिरश्च शिखा क्रमात् ।
कवचं नेत्रमस्त्रं स्यान्न्यासः स्वस्थलसंस्थितिः
saṣaḍaṅgaḥ śivaḥ prokto hṛcchiraśca śikhā kramāt |
kavacaṃ netramastraṃ syānnyāsaḥ svasthalasaṃsthitiḥ
सर्वसिद्धिप्रदस्यान्ते कालवह्निर धोऽनिलः ।
षष्ठस्वरसमायुक्तमर्धेन्दुसंयुतं परम्
sarvasiddhipradasyānte kālavahnira dho'nilaḥ |
ṣaṣṭhasvarasamāyuktamardhendusaṃyutaṃ param
परापरविभिन्नाश्च शिवस्योर्ध्वाध ईरिताः ।
रेफेणाङ्गेषु सर्वत्र न्यासं कुर्याद्यथाविधि
parāparavibhinnāśca śivasyordhvādha īritāḥ |
repheṇāṅgeṣu sarvatra nyāsaṃ kuryādyathāvidhi
हृदि पाणितले देहे कर्णे नेत्रे करोति च ।
जपात्तु सर्वसिद्धिः स्याच्चतुर्वक्त्रसमायुताम्
hṛdi pāṇitale dehe karṇe netre karoti ca |
japāttu sarvasiddhiḥ syāccaturvaktrasamāyutām
चतुरश्रां सुविस्तारं पीतवर्णान्तु चिन्तयेत् ।
पृथिवीं चेन्द्रदेवत्यां मध्ये वरुणमण्डलम्
caturaśrāṃ suvistāraṃ pītavarṇāntu cintayet |
pṛthivīṃ cendradevatyāṃ madhye varuṇamaṇḍalam
मध्ये पद्मं तथायुक्तमर्धचन्द्रं सुशीतलम् ।
इन्द्रनीलद्युतिं सौम्यमथवाग्नेयमण्डलम्
madhye padmaṃ tathāyuktamardhacandraṃ suśītalam |
indranīladyutiṃ saumyamathavāgneyamaṇḍalam
त्रिकोणं स्वस्थिकैर्युक्तं ज्वालामा लानलं स्मरेत् ।
भिन्नाञ्जननिभाकारं स्ववृत्तं बिन्दुभूषितम्
trikoṇaṃ svasthikairyuktaṃ jvālāmā lānalaṃ smaret |
bhinnāñjananibhākāraṃ svavṛttaṃ bindubhūṣitam
क्षीरोर्मिसदृशाकारं शुद्धस्फटिकवर्चसम् ।
प्लावयन्तं जगत्सर्वं व्योमामृतमनुंस्मरेत्
kṣīrormisadṛśākāraṃ śuddhasphaṭikavarcasam |
plāvayantaṃ jagatsarvaṃ vyomāmṛtamanuṃsmaret
वासुकिः शङ्खपालश्च स्थितौ पार्थिवमण्डले ।
कर्कोटः पद्मनाभश्च वारुणे तौ व्यवस्थितौ
vāsukiḥ śaṅkhapālaśca sthitau pārthivamaṇḍale |
karkoṭaḥ padmanābhaśca vāruṇe tau vyavasthitau
आग्नेये चापि कुलिकस्तक्षश्चैव महाब्जकौ ।
वायुमण्डलसंस्थौ च पञ्च भूतानि विन्यसेत्
āgneye cāpi kulikastakṣaścaiva mahābjakau |
vāyumaṇḍalasaṃsthau ca pañca bhūtāni vinyaset
अङ्गुष्ठादिकनिष्ठान्तमनुलोमविलोमतः ।
पर्वसन्धिषु च न्यस्या जया च विजया तथा
aṅguṣṭhādikaniṣṭhāntamanulomavilomataḥ |
parvasandhiṣu ca nyasyā jayā ca vijayā tathā
आस्यादिस्वपुरस्थाने न्यस्याच्छिवपडङ्गकम् ।
कनिष्ठादौ हृदादौ च शिखायां करयोर्न्यसेत्
āsyādisvapurasthāne nyasyācchivapaḍaṅgakam |
kaniṣṭhādau hṛdādau ca śikhāyāṃ karayornyaset
व्यापकन्तु तत्वपूर्वं क्रमादङ्गुलिपर्वसु ।
भूतानाञ्च पुनर्न्यासः शिवाङ्गानि तथैव च
vyāpakantu tatvapūrvaṃ kramādaṅguliparvasu |
bhūtānāñca punarnyāsaḥ śivāṅgāni tathaiva ca
प्रणवादिनमश्चान्ते नाम्नैव च समन्वितः ।
सर्वमन्त्रेषु कथितो विधिः स्थापनपूजने
praṇavādinamaścānte nāmnaiva ca samanvitaḥ |
sarvamantreṣu kathito vidhiḥ sthāpanapūjane
आद्याक्षरं तन्नाम्नश्च मन्त्रोऽयं परिकीर्तितः ।
अष्टानां नागजातीनां मन्त्रः सान्निध्यकारकः
ādyākṣaraṃ tannāmnaśca mantro'yaṃ parikīrtitaḥ |
aṣṭānāṃ nāgajātīnāṃ mantraḥ sānnidhyakārakaḥ
ओं स्वाहा क्रमशश्चैव पञ्चभूतपुरोगतम् ।
एष साक्षाद्भवेत्तार्क्ष्यः सर्वकर्मप्रसाधकः
oṃ svāhā kramaśaścaiva pañcabhūtapurogatam |
eṣa sākṣādbhavettārkṣyaḥ sarvakarmaprasādhakaḥ
करन्यासं स्वरैः कृत्वा शरीरे तु पुनर्न्यसेत् ।
ज्वलन्तं चिन्तयेत्प्राणमात्मसंशुद्धिकारकम्
karanyāsaṃ svaraiḥ kṛtvā śarīre tu punarnyaset |
jvalantaṃ cintayetprāṇamātmasaṃśuddhikārakam
बीजन्तु चिन्तयेत्पश्चाद्वर्षान्तममृतात्मकम् ।
एवञ्चाप्यायनं कृत्वा मूर्ध्नि सञ्चिन्त्य चात्मनः
bījantu cintayetpaścādvarṣāntamamṛtātmakam |
evañcāpyāyanaṃ kṛtvā mūrdhni sañcintya cātmanaḥ
पृथिवीं पादयोर्दद्यात्तप्तकाञ्चनसप्रभाम् ।
अशेषभुवनाकीर्णां लोकपालसमन्विताम्
pṛthivīṃ pādayordadyāttaptakāñcanasaprabhām |
aśeṣabhuvanākīrṇāṃ lokapālasamanvitām
एतां भगवतीं पृथ्वीं स्वदेहे विन्यसेद्बुधः ।
श्यामवर्णमयं ध्यायेत्पृथिवीद्विगुणं भवेत्
etāṃ bhagavatīṃ pṛthvīṃ svadehe vinyasedbudhaḥ |
śyāmavarṇamayaṃ dhyāyetpṛthivīdviguṇaṃ bhavet
ज्वालामालाकुलं दीप्तमाब्रह्मभुवनान्तकम् ।
नाभिग्रीवान्तरे न्यस्य त्रिकोणं मण्डलं रवेः
jvālāmālākulaṃ dīptamābrahmabhuvanāntakam |
nābhigrīvāntare nyasya trikoṇaṃ maṇḍalaṃ raveḥ
भिन्नाञ्जननिभाकारं निखिलं व्याप्य संस्थितम् ।
आत्ममूर्तिस्थितं ध्यायेद्वायव्यं तीक्ष्णमण्डलम्
bhinnāñjananibhākāraṃ nikhilaṃ vyāpya saṃsthitam |
ātmamūrtisthitaṃ dhyāyedvāyavyaṃ tīkṣṇamaṇḍalam
सिखोपरि स्थितं दिव्यं शुद्धस्फटिकवर्चसम् ।
अप्रमाणमहाव्योमव्यापकं चामृतोपमम्
sikhopari sthitaṃ divyaṃ śuddhasphaṭikavarcasam |
apramāṇamahāvyomavyāpakaṃ cāmṛtopamam
भूतन्यासं पुरा कृत्वा नागानाञ्च यथाक्रमम् ।
लकारान्ता बिन्दुयुता मन्त्रा भूतक्रमेण तु
bhūtanyāsaṃ purā kṛtvā nāgānāñca yathākramam |
lakārāntā binduyutā mantrā bhūtakrameṇa tu
शिवबीजं ततो दद्यात्ततो ध्यायेच्च मण्डलम् ।
योयस्य क्रमाख्यातो मण्डलस्य विचक्षणः ।
तस्य तच्चिन्तयेद्वर्णं कर्मकाले विधानवित्
śivabījaṃ tato dadyāttato dhyāyecca maṇḍalam |
yoyasya kramākhyāto maṇḍalasya vicakṣaṇaḥ |
tasya taccintayedvarṇaṃ karmakāle vidhānavit
पादपक्षैस्तथा चञ्चत्कृष्णनागैर्विभूषितम् ।
तार्क्ष्यं ध्यायेत्ततो नित्यं विषे स्थावरजङ्गमे
pādapakṣaistathā cañcatkṛṣṇanāgairvibhūṣitam |
tārkṣyaṃ dhyāyettato nityaṃ viṣe sthāvarajaṅgame
ग्रहभूतपिशाचे च डाकिनीयक्षराक्षसे ।
नागैर्विवेष्टितं कृत्वा स्वदेहे विन्यसेच्छिवम्
grahabhūtapiśāce ca ḍākinīyakṣarākṣase |
nāgairviveṣṭitaṃ kṛtvā svadehe vinyasecchivam
द्विधा न्यासः समाख्यातो नागानां चैव भूतयोः ।
एवं ध्यात्वा कर्म कुर्यादात्मतत्त्वादिकं क्रमात्
dvidhā nyāsaḥ samākhyāto nāgānāṃ caiva bhūtayoḥ |
evaṃ dhyātvā karma kuryādātmatattvādikaṃ kramāt
त्रितत्त्वं प्रथं दत्त्वा सिवतत्त्वं ततः परम् ।
यथा देहे तथा देवे अङ्गुलीनां च पर्वसु
tritattvaṃ prathaṃ dattvā sivatattvaṃ tataḥ param |
yathā dehe tathā deve aṅgulīnāṃ ca parvasu
देहे न्यासं पुरा कृत्वा ह्यनुलोमविलोमतः ।
कन्दं नालं तथा पद्मं धर्मं ज्ञानादिमेव च
dehe nyāsaṃ purā kṛtvā hyanulomavilomataḥ |
kandaṃ nālaṃ tathā padmaṃ dharmaṃ jñānādimeva ca
द्वितीयस्वरसम्भिन्नं वर्गान्तेन तु पूजयेत् ।
शौमिति कर्णिकामध्ये मूर्ध्नि रेफेण संयुतम्
dvitīyasvarasambhinnaṃ vargāntena tu pūjayet |
śaumiti karṇikāmadhye mūrdhni repheṇa saṃyutam
अकचटतपयशा वर्गाः पूर्वादिके न्यसेत् ।
पत्रान्तकेसरान्ते तु द्वौ द्वौ पूर्वादिकौ तथा
akacaṭatapayaśā vargāḥ pūrvādike nyaset |
patrāntakesarānte tu dvau dvau pūrvādikau tathā
केशरे तु स्वरान्न्यस्यादीशान्तान्षोडशार्चयेत् ।
वामाद्याः शक्तयः प्रोक्तास्त्रितत्त्वन्तु ततो न्यसेत्
keśare tu svarānnyasyādīśāntānṣoḍaśārcayet |
vāmādyāḥ śaktayaḥ proktāstritattvantu tato nyaset
आवाहयेत्ततो मर्ध्नि शिवमङ्गं ततः परम् ।
कर्णिकायां न्यसेद्देवं सांगं तत्र पुरः सरम्
āvāhayettato mardhni śivamaṅgaṃ tataḥ param |
karṇikāyāṃ nyaseddevaṃ sāṃgaṃ tatra puraḥ saram
पृतिवी पश्चिमे पत्रे आपश्चोत्तरसंस्थिताः ।
तेजस्तु दक्षिणे पत्रे वायुं पूर्वेण पूजयेत्
pṛtivī paścime patre āpaścottarasaṃsthitāḥ |
tejastu dakṣiṇe patre vāyuṃ pūrveṇa pūjayet
स्वबीजं मूर्तिरूपन्तु प्रागुक्तं पारकल्पयेत् ।
यं वायुमूलं नैरृत्ये रेफस्त्वनलसंस्थितः
svabījaṃ mūrtirūpantu prāguktaṃ pārakalpayet |
yaṃ vāyumūlaṃ nairṛtye rephastvanalasaṃsthitaḥ
वं च त्वीशे सदा पूज्य ओं हृदिस्थञ्च पूजयेत् ।
तन्मात्रान्भूतमात्रांस्तान्बहिरेव प्रपूजयेत्
vaṃ ca tvīśe sadā pūjya oṃ hṛdisthañca pūjayet |
tanmātrānbhūtamātrāṃstānbahireva prapūjayet
शिवाङ्गानि ततः पश्चाद्ध्यात्वा संपूजयेत्ततः ।
आग्नेय्यां हृदयं पूज्य शिर ईशानगोचरे
śivāṅgāni tataḥ paścāddhyātvā saṃpūjayettataḥ |
āgneyyāṃ hṛdayaṃ pūjya śira īśānagocare
नैरृत्ये तु शिखां दद्याद्वायव्यां कवचं न्यसेत् ।
अस्त्रन्तु बाह्यतो दद्यान्नेत्रमुत्तरसंस्थितम्
nairṛtye tu śikhāṃ dadyādvāyavyāṃ kavacaṃ nyaset |
astrantu bāhyato dadyānnetramuttarasaṃsthitam
पत्राग्रे कर्णिकग्रे तु बीजानि परिपूजयेत् ।
अनन्तादिकुलीरान्ता अष्टौ नागाः क्रमात्स्थिताः
patrāgre karṇikagre tu bījāni paripūjayet |
anantādikulīrāntā aṣṭau nāgāḥ kramātsthitāḥ
पूर्वादिकक्रमेणैव त्वीशपर्यन्तमेव च ।
पूजयेच्च सदा मन्त्री विधानेन पृथक्पृथक्
pūrvādikakrameṇaiva tvīśaparyantameva ca |
pūjayecca sadā mantrī vidhānena pṛthakpṛthak
हृदि पद्मे विधानेन शिलादौ दत्तमण्डले ।
एतत्कार्यं समुद्दिष्टं नित्यनैमित्तिकेऽपि च
hṛdi padme vidhānena śilādau dattamaṇḍale |
etatkāryaṃ samuddiṣṭaṃ nityanaimittike'pi ca
आत्मानं चिन्तयेन्नित्यं कामरूपं मनोहरम् ।
प्लावयन्तं जगत्सर्वं सृष्टिसंहारकारकम्
ātmānaṃ cintayennityaṃ kāmarūpaṃ manoharam |
plāvayantaṃ jagatsarvaṃ sṛṣṭisaṃhārakārakam
ज्वालामालाभिरुद्दीप्तं आब्रह्मभुवनान्तकम् ।
दशबाहुं चतुर्वक्त्रं पिङ्गाक्षं शूलपाणिनम्
jvālāmālābhiruddīptaṃ ābrahmabhuvanāntakam |
daśabāhuṃ caturvaktraṃ piṅgākṣaṃ śūlapāṇinam
दंष्ट्राकरालमत्युग्रं त्रिनेत्रं शशिशेखरम् ।
भैरवन्तु स्मरेत्सिद्ध्यै गरुडं सर्वकर्मसु
daṃṣṭrākarālamatyugraṃ trinetraṃ śaśiśekharam |
bhairavantu smaretsiddhyai garuḍaṃ sarvakarmasu
नागानां नाशनार्थाय गरुडं भीमभीषणम् ।
पादौ पातालं संस्थौ च दिशः पक्षास्तु संश्रिताः
nāgānāṃ nāśanārthāya garuḍaṃ bhīmabhīṣaṇam |
pādau pātālaṃ saṃsthau ca diśaḥ pakṣāstu saṃśritāḥ
सप्त स्वर्गा उरसि च ब्रह्माण्डं कण्ठमाश्रितम् ।
पूर्वादीशानपर्यन्तं शिरस्तस्य विचिन्तयेत्
sapta svargā urasi ca brahmāṇḍaṃ kaṇṭhamāśritam |
pūrvādīśānaparyantaṃ śirastasya vicintayet
सदाशिवशिखान्तस्थं शक्तित्रितयमेव च ।
परात्परं शिवं साक्षात्तार्क्ष्यं भुवननायकम्
sadāśivaśikhāntasthaṃ śaktitritayameva ca |
parātparaṃ śivaṃ sākṣāttārkṣyaṃ bhuvananāyakam
त्रिनेत्रमुग्ररूपञ्च विषनागक्षयङ्करम् ।
ग्रसनं भीमवक्त्रं च गरुडं मन्त्रविग्रहम्
trinetramugrarūpañca viṣanāgakṣayaṅkaram |
grasanaṃ bhīmavaktraṃ ca garuḍaṃ mantravigraham
कालाग्निमिव दीप्तं च चिन्तयेत्सर्वकर्मसु ।
एवं न्यासविधिं कृत्वा यद्यन्मनसि चिन्तयेत्
kālāgnimiva dīptaṃ ca cintayetsarvakarmasu |
evaṃ nyāsavidhiṃ kṛtvā yadyanmanasi cintayet
तत्तदेव भवेत्साध्यं नरो वै गरुडायते ।
प्रेता भूतास्तथा यक्षा नागा गन्धर्वराक्षसाः ।
दर्शनात्तस्य नश्यन्ति ज्वराश्चातुर्थिकादयः
tattadeva bhavetsādhyaṃ naro vai garuḍāyate |
pretā bhūtāstathā yakṣā nāgā gandharvarākṣasāḥ |
darśanāttasya naśyanti jvarāścāturthikādayaḥ
एवं स गरुडं प्रोचे गरुडः कश्यपाय च ।
महेश्वरो यथा गौरीं प्राह विद्यां तथा शृणु
evaṃ sa garuḍaṃ proce garuḍaḥ kaśyapāya ca |
maheśvaro yathā gaurīṃ prāha vidyāṃ tathā śṛṇu
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)