अवाप जप्त्वा चेन्द्रत्वं विष्णुधर्माख्यविद्यया ।
सर्वाञ्छत्रून्विनिर्जित्य ताञ्च वक्ष्ये महेश्वर
avāpa japtvā cendratvaṃ viṣṇudharmākhyavidyayā |
sarvāñchatrūnvinirjitya tāñca vakṣye maheśvara
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे षण्णवत्यधिकशततमोऽध्यायः ॥
16 श्लोक · 196 में से 241
हरि विष्णुधर्म विद्या बताते हैं, जिसका जप करके इन्द्र ने सब शत्रुओं को जीता और इन्द्रपद पाया। भक्त ओंकार और नमो नारायणाय के अक्षरों का पैरों, घुटनों, जाँघों, उदर, हृदय, वक्ष, मुख और सिर पर क्रम से और फिर उलटे क्रम से न्यास करता है, और द्वादशाक्षर मन्त्र का अँगुलियों पर। फिर प्रार्थना आती है: आकाश में त्रिविक्रम और स्थल पर वामन रक्षा करें, वन में नृसिंह और पर्वत पर राम, भूमि पर वराह और व्योम में नारायण। कपिल कर्मबन्धन से, दत्तात्रेय रोग से, धन्वन्तरि अपथ्य से, व्यास अज्ञान से, बुद्ध पाखण्डियों के समूह से और कल्कि पाप से रक्षा करें। जो इस विद्या को धारण करता है वह पाप और रोग से मुक्त होकर स्वर्ग जाता है।
हरिरुवाच
अवाप जप्त्वा चेन्द्रत्वं विष्णुधर्माख्यविद्यया ।
सर्वाञ्छत्रून्विनिर्जित्य ताञ्च वक्ष्ये महेश्वर
avāpa japtvā cendratvaṃ viṣṇudharmākhyavidyayā |
sarvāñchatrūnvinirjitya tāñca vakṣye maheśvara
पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ।
मुखे शिरस्यानुपूर्वमोङ्का रादीनि विन्यसेत्
pādayorjānunorūrvorudare hṛdyathorasi |
mukhe śirasyānupūrvamoṅkā rādīni vinyaset
नमो नारायणायेति विपर्यासमथापि च ।
करन्यासं ततः कुर्याद्द्वादक्षरविद्यया
namo nārāyaṇāyeti viparyāsamathāpi ca |
karanyāsaṃ tataḥ kuryāddvādakṣaravidyayā
प्रणवादियकारान्तमङ्गुल्यं गुष्ठपर्वसु ।
न्यसेद्धृदय ओङ्कारं मनुं मूर्ध्नि समस्तकम्
praṇavādiyakārāntamaṅgulyaṃ guṣṭhaparvasu |
nyaseddhṛdaya oṅkāraṃ manuṃ mūrdhni samastakam
ओङ्कारन्तु भ्रुवोर्मध्ये शिकानेत्रादिमूर्धतः ।
ओं विष्णवे इति इमं मन्त्रन्यासमुदीरयेत्
oṅkārantu bhruvormadhye śikānetrādimūrdhataḥ |
oṃ viṣṇave iti imaṃ mantranyāsamudīrayet
आत्मानं परमं ध्यायेच्छेषं यच्छक्तिभिर्युतम् ।
मम रक्षां हरिः कुर्यान्मत्स्यमूर्तिर्जलेऽवतु
ātmānaṃ paramaṃ dhyāyeccheṣaṃ yacchaktibhiryutam |
mama rakṣāṃ hariḥ kuryānmatsyamūrtirjale'vatu
त्रिविक्रमस्तथाकाशे स्थले रक्षतु वामनः ।
अटव्यां नरसिंहस्तु रामो रक्षतु पर्वते
trivikramastathākāśe sthale rakṣatu vāmanaḥ |
aṭavyāṃ narasiṃhastu rāmo rakṣatu parvate
भूमौ रक्षतु वाराहौ व्योम्नि नारायणोऽवतु ।
कर्मबन्धाच्च कपिलो दत्तो रोगाच्च रक्षतु
bhūmau rakṣatu vārāhau vyomni nārāyaṇo'vatu |
karmabandhācca kapilo datto rogācca rakṣatu
हयग्रीवो देवताभ्यः कुमारो मकरध्वजात् ।
नारदोऽन्यार्चनाद्देवः कूर्मो वै नैरृते सदा
hayagrīvo devatābhyaḥ kumāro makaradhvajāt |
nārado'nyārcanāddevaḥ kūrmo vai nairṛte sadā
धन्वन्तीरश्चापथ्याच्च नागः क्रोधवशात्किल ।
यज्ञो रोगात्समस्ताच्च व्यासोऽज्ञानाच्च रक्षतु
dhanvantīraścāpathyācca nāgaḥ krodhavaśātkila |
yajño rogātsamastācca vyāso'jñānācca rakṣatu
बुद्धः पाषण्डसंघातात्कल्की रक्षतु कल्मषात् ।
पायान्मध्यन्दिने विष्णुः प्रातर्नारायणोऽवतु
buddhaḥ pāṣaṇḍasaṃghātātkalkī rakṣatu kalmaṣāt |
pāyānmadhyandine viṣṇuḥ prātarnārāyaṇo'vatu
मधुहा चापराह्ने च सायं रक्षतु माधवः ।
हृषीकेशः प्रदोषेऽव्यात्प्रत्यूषेऽव्याज्जनार्दनः
madhuhā cāparāhne ca sāyaṃ rakṣatu mādhavaḥ |
hṛṣīkeśaḥ pradoṣe'vyātpratyūṣe'vyājjanārdanaḥ
श्रीधरोऽव्यादर्धरात्रे पद्मनाभो निशीथके ।
चक्रकौमोदकीबाणा घ्नन्तु शत्रूंश्च राक्षसान्
śrīdharo'vyādardharātre padmanābho niśīthake |
cakrakaumodakībāṇā ghnantu śatrūṃśca rākṣasān
शङ्खः पद्मं च शत्रुभ्यः शार्ङ्गं वै गरुडस्तथा ।
बुद्धीन्द्रियमनः प्राणान्पान्तु पार्श्वविभूषणः
śaṅkhaḥ padmaṃ ca śatrubhyaḥ śārṅgaṃ vai garuḍastathā |
buddhīndriyamanaḥ prāṇānpāntu pārśvavibhūṣaṇaḥ
शेषः सर्पस्वरूपश्च सदा सर्वत्र पातु माम् ।
विदिक्षु दिक्षु च सदा नारसिंहश्च रक्षतु
śeṣaḥ sarpasvarūpaśca sadā sarvatra pātu mām |
vidikṣu dikṣu ca sadā nārasiṃhaśca rakṣatu
एतद्धारयमाणश्च यं यं पश्यति चक्षुषा ।
स वशी स्याद्विपाप्मा च रोगमुक्तो दिवं व्रजेत्
etaddhārayamāṇaśca yaṃ yaṃ paśyati cakṣuṣā |
sa vaśī syādvipāpmā ca rogamukto divaṃ vrajet
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)