चित्रकस्याष्टभागाश्च शूरणस्य च षोडश ।
शुण्ठ्या भागाश्च चत्वारो मरिचानां द्वयं तथा
citrakasyāṣṭabhāgāśca śūraṇasya ca ṣoḍaśa |
śuṇṭhyā bhāgāśca catvāro maricānāṃ dvayaṃ tathā
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे द्विनवत्यधिक शततमोऽध्यायः ॥
48 श्लोक · 192 में से 241
हरि शिव को बड़े योग उनके ठीक भागों सहित बताते हैं। चित्रक, सूरन, सोंठ, मिर्च, पिपलामूल, विडंग, मूसली और त्रिफला का चूर्ण अजीर्ण, पाण्डु, कामला, अतिसार, मन्दाग्नि और प्लीहा हरता है। बेल, अरणी, सोनापाठा, बला, रास्ना, पुनर्नवा और एरण्ड के काढ़े में दूध और शतावरी के साथ पका महान तैल पीने, नस्य और मालिश में हृदय व पार्श्व शूल, गण्डमाला, अपस्मार और वातरक्त में दिया जाता है; यह वायु से टूटे घोड़ों को भी ठीक करता है। मूली, सोंठ, हींग और लवणों से पका तिल का तेल कानों में डालने से बहरापन, कान का दर्द और स्राव मिटता है। एक सुगन्धित तेल पसीना और दुर्गन्ध हरता है। अन्त में अर्श के लिए अजवायन और जीरे का घी और घाव भरने वाला गूलर, बरगद आदि की छालों का तेल है।
हरिरुवाच
चित्रकस्याष्टभागाश्च शूरणस्य च षोडश ।
शुण्ठ्या भागाश्च चत्वारो मरिचानां द्वयं तथा
citrakasyāṣṭabhāgāśca śūraṇasya ca ṣoḍaśa |
śuṇṭhyā bhāgāśca catvāro maricānāṃ dvayaṃ tathā
त्रितयं पिप्पलीमूलं विडङ्गानां चतुष्टयम् ।
अष्टौ मुशलिकाभागास्त्रिफलायाश्चतुष्टयम् ।
द्विगुणेन गुडेनैषां मोदकानिह कारयेत्
tritayaṃ pippalīmūlaṃ viḍaṅgānāṃ catuṣṭayam |
aṣṭau muśalikābhāgāstriphalāyāścatuṣṭayam |
dviguṇena guḍenaiṣāṃ modakāniha kārayet
तद्भक्षणमजीर्णं हि पाण्डुरोगञ्ज कामलम् ।
अतीसारांश्च मन्दाग्निं प्लीहाञ्चैव निवारयेत्
tadbhakṣaṇamajīrṇaṃ hi pāṇḍurogañja kāmalam |
atīsārāṃśca mandāgniṃ plīhāñcaiva nivārayet
बिल्वाग्निमन्थः श्योनाकपाटलापारिभद्रकम् ।
प्रसारण्यश्वगन्धा च बृहती कण्टकारिका
bilvāgnimanthaḥ śyonākapāṭalāpāribhadrakam |
prasāraṇyaśvagandhā ca bṛhatī kaṇṭakārikā
बला चातिबला रास्ना श्वदंष्ट्रा च पुनर्नवा ।
एरण्डः शारिवा पर्णो गुडूची कपिकच्छुका
balā cātibalā rāsnā śvadaṃṣṭrā ca punarnavā |
eraṇḍaḥ śārivā parṇo guḍūcī kapikacchukā
एषां दशपलान्भागान्क्वाथयेत्सलिलेऽमले ।
तेन पादावशेषेण तैलपात्रे विपाचयेत्
eṣāṃ daśapalānbhāgānkvāthayetsalile'male |
tena pādāvaśeṣeṇa tailapātre vipācayet
आजं वा यदि गव्यं क्षीरं दत्त्वा चतुर्गुणम् ।
शतावरीं सैन्धवञ्च तैलतुल्यं प्रदापयेत्
ājaṃ vā yadi gavyaṃ kṣīraṃ dattvā caturguṇam |
śatāvarīṃ saindhavañca tailatulyaṃ pradāpayet
द्रव्याणियानि पेष्याणि तानि वक्ष्यामि तच्छृणु ।
शतपुष्पा देवदारुर्बला पर्णो वचागुरु
dravyāṇiyāni peṣyāṇi tāni vakṣyāmi tacchṛṇu |
śatapuṣpā devadārurbalā parṇo vacāguru
कुष्ठं मांसी सैन्धवञ्च पलमेकं पुनर्नवा ।
पाने नस्ये तथाभ्यङ्गे तैलमेतत्प्रदापयेत्
kuṣṭhaṃ māṃsī saindhavañca palamekaṃ punarnavā |
pāne nasye tathābhyaṅge tailametatpradāpayet
हृच्छूलं पार्श्वशूलञ्च गण्डमालाञ्च नाशयेत् ।
अपस्मारं वातरक्तं वपुष्मांश्च पुमान्भवेत्
hṛcchūlaṃ pārśvaśūlañca gaṇḍamālāñca nāśayet |
apasmāraṃ vātaraktaṃ vapuṣmāṃśca pumānbhavet
गर्भमश्वतरी विन्द्यात्किं पुनर्मानुषी हर ।
अश्वानां वातभग्नानां कुञ्जराणां नृणां तथा ।
तैलमेतत्प्रयोक्तव्यं सर्ववातविकारिणाम्
garbhamaśvatarī vindyātkiṃ punarmānuṣī hara |
aśvānāṃ vātabhagnānāṃ kuñjarāṇāṃ nṛṇāṃ tathā |
tailametatprayoktavyaṃ sarvavātavikāriṇām
हिङ्गुतुम्बुरुशुण्ठीभिः सिद्धं तैलन्तु सार्षपम् ।
एतद्धि पुरणं श्रेष्ठं कर्णशूलापहं परम्
hiṅgutumburuśuṇṭhībhiḥ siddhaṃ tailantu sārṣapam |
etaddhi puraṇaṃ śreṣṭhaṃ karṇaśūlāpahaṃ param
शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् ।
तक्रं चतुर्गुणं दद्यात्तैलमेतद्विपाचयेत्
śuṣkamūlakaśuṇṭhīnāṃ kṣāro hiṅgulanāgaram |
takraṃ caturguṇaṃ dadyāttailametadvipācayet
बाधिर्यं कर्णशूलञ्च पूयस्त्रावञ्च कर्णयोः ।
क्रिमयश्च विनश्यन्ति तैलस्यास्य प्रपूरणात्
bādhiryaṃ karṇaśūlañca pūyastrāvañca karṇayoḥ |
krimayaśca vinaśyanti tailasyāsya prapūraṇāt
शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् ।
शतपुष्पा वचा कुष्ठं दारुशिग्रुरसाञ्जनम्
śuṣkamūlakaśuṇṭhīnāṃ kṣāro hiṅgulanāgaram |
śatapuṣpā vacā kuṣṭhaṃ dāruśigrurasāñjanam
सौवर्चलं यवक्षारं सामुद्रं सैन्धवं तथा ।
ग्रन्थिकं विडमुस्तं च मधु शुक्तं चतुर्गुणम्
sauvarcalaṃ yavakṣāraṃ sāmudraṃ saindhavaṃ tathā |
granthikaṃ viḍamustaṃ ca madhu śuktaṃ caturguṇam
मातुलुङ्गरसश्चैव कदलीरस एव च ।
तैलमेभिर्विपक्तव्यं कर्णशूलापहं परम्
mātuluṅgarasaścaiva kadalīrasa eva ca |
tailamebhirvipaktavyaṃ karṇaśūlāpahaṃ param
बाधिर्यं कर्णनादश्च पूयस्त्रावश्च दारुणम् ।
पूरणादस्य तैलस्य क्रिमयः कर्णयोर्हर
bādhiryaṃ karṇanādaśca pūyastrāvaśca dāruṇam |
pūraṇādasya tailasya krimayaḥ karṇayorhara
सद्यो विनाशमायान्ति शशाङ्ककृतशेखर ।
क्षारतैलमिदं श्रेष्ठं मुखदन्तमलापहम्
sadyo vināśamāyānti śaśāṅkakṛtaśekhara |
kṣāratailamidaṃ śreṣṭhaṃ mukhadantamalāpaham
चन्दनं कुङ्कुमं मांसी कर्पूरं जातिपत्रिका ।
जातीकङ्कोलपूगानां लवङ्गस्य फलानि च
candanaṃ kuṅkumaṃ māṃsī karpūraṃ jātipatrikā |
jātīkaṅkolapūgānāṃ lavaṅgasya phalāni ca
अगुरूणि च कस्तूरी कुष्ठं तगरपादिका ।
गोरोचना प्रियङ्गुश्च बला चैव तथा नखी
agurūṇi ca kastūrī kuṣṭhaṃ tagarapādikā |
gorocanā priyaṅguśca balā caiva tathā nakhī
सरलं सप्तपर्णं च लाक्षा चामलकी तथा ।
तथा तु पद्मकं चैव ह्येतैस्तैलं प्रसाधयेत्
saralaṃ saptaparṇaṃ ca lākṣā cāmalakī tathā |
tathā tu padmakaṃ caiva hyetaistailaṃ prasādhayet
प्रस्वेदमलदुर्गन्धकण्डू कुष्ठहरं परम् ।
गच्छति स्त्रीशतं रुद्र बन्ध्यापि लभते सुतम्
prasvedamaladurgandhakaṇḍū kuṣṭhaharaṃ param |
gacchati strīśataṃ rudra bandhyāpi labhate sutam
यवानी चित्रकं धान्यं त्र्यूषणं जीरकं तथा ।
सौवर्चलं विडगञ्च पिप्पलीमूलराजिकम्
yavānī citrakaṃ dhānyaṃ tryūṣaṇaṃ jīrakaṃ tathā |
sauvarcalaṃ viḍagañca pippalīmūlarājikam
एभिः पचेद्रघृतप्रस्थं जलप्रस्थाष्टसंयुतम् ।
तथार्ऽशोगुल्मश्वयथुं हन्ति वह्निं करोति वै
ebhiḥ pacedraghṛtaprasthaṃ jalaprasthāṣṭasaṃyutam |
tathār'śogulmaśvayathuṃ hanti vahniṃ karoti vai
मरिचं त्रिवृतं कुष्ठं हरितालं मनः शिला ।
देवदारु हरिद्रे द्वे कुष्ठं मांसी च चन्दनम्
maricaṃ trivṛtaṃ kuṣṭhaṃ haritālaṃ manaḥ śilā |
devadāru haridre dve kuṣṭhaṃ māṃsī ca candanam
विशाला करवीरञ्च अर्कक्षीरं शकृद्रसः ।
एषाञ्च कार्षिको भागो विषस्यार्धपलं भवेत्त्
viśālā karavīrañca arkakṣīraṃ śakṛdrasaḥ |
eṣāñca kārṣiko bhāgo viṣasyārdhapalaṃ bhavett
प्रस्थं सटुकतैलस्य गोमूत्रेऽष्टगुणे पचेत् ।
मृत्पात्रे लोहपात्रे वा शनैर्मृद्वग्निना पचेत्
prasthaṃ saṭukatailasya gomūtre'ṣṭaguṇe pacet |
mṛtpātre lohapātre vā śanairmṛdvagninā pacet
पामा विचर्चिका चैव दद्रुर्विस्फोचकानिच ।
अभ्यङ्गेन प्रणश्यन्ति कोमलत्वञ्च जायते
pāmā vicarcikā caiva dadrurvisphocakānica |
abhyaṅgena praṇaśyanti komalatvañca jāyate
प्रभूतान्यपि श्वित्राणि तैलेनानेन मर्दयेत् ।
चिरोत्थितमपि श्वित्रं विनष्टं तत्क्षणाद्भवेत्
prabhūtānyapi śvitrāṇi tailenānena mardayet |
cirotthitamapi śvitraṃ vinaṣṭaṃ tatkṣaṇādbhavet
पटोलपत्रं कटुका मञ्जिष्ठा शारिवा निशा ।
जातीशमीनिम्बपत्रं मधुकं क्वथितं घृतम्
paṭolapatraṃ kaṭukā mañjiṣṭhā śārivā niśā |
jātīśamīnimbapatraṃ madhukaṃ kvathitaṃ ghṛtam
एभिर्लेपात्सयुररुजो व्रणा विस्त्राविणः शिव ।
शङ्खपुष्पी वचा सोमो ब्राह्मी ब्रह्मसुवर्चलाः
ebhirlepātsayurarujo vraṇā vistrāviṇaḥ śiva |
śaṅkhapuṣpī vacā somo brāhmī brahmasuvarcalāḥ
अभया च गुडूची च आटरूषकवाकुची ।
एतैरक्षसमैर्भागैर्घृतप्रस्थं विपाचयेत्
abhayā ca guḍūcī ca āṭarūṣakavākucī |
etairakṣasamairbhāgairghṛtaprasthaṃ vipācayet
कण्टकार्या रसप्रस्थं क्षीरप्रस्थसमन्वितम् ।
एतद्ब्राह्मीघृतं नाम स्मृतिमेधाकरं परम्
kaṇṭakāryā rasaprasthaṃ kṣīraprasthasamanvitam |
etadbrāhmīghṛtaṃ nāma smṛtimedhākaraṃ param
अग्निमन्थो वचा वासा पिप्पली मधु सैन्धवम् ।
सप्तरात्रप्रयोगेण किन्नरैरिव गीयते
agnimantho vacā vāsā pippalī madhu saindhavam |
saptarātraprayogeṇa kinnarairiva gīyate
अपामार्गः गुडूची च वचा कुष्ठं शतावरी ।
शङ्खपुष्पाभया साज्यं विडङ्गं भक्षितं समम् ।
त्रिभिर्दिनैर्नरं कुर्याद्ग्रन्थाष्टशतधारिणम्
apāmārgaḥ guḍūcī ca vacā kuṣṭhaṃ śatāvarī |
śaṅkhapuṣpābhayā sājyaṃ viḍaṅgaṃ bhakṣitaṃ samam |
tribhirdinairnaraṃ kuryādgranthāṣṭaśatadhāriṇam
अद्भिर्वा पयसाज्येन मासमेकन्तु सेविता ।
वचा कर्यान्नरं प्राज्ञं श्रुतिधारणसंयुतम्
adbhirvā payasājyena māsamekantu sevitā |
vacā karyānnaraṃ prājñaṃ śrutidhāraṇasaṃyutam
चन्द्रसूर्यग्रहे पीतं पलमेकं पयोऽन्वितम् ।
वचायास्तत्क्षणं कुर्यान्महाप्रज्ञायुतं नरम्
candrasūryagrahe pītaṃ palamekaṃ payo'nvitam |
vacāyāstatkṣaṇaṃ kuryānmahāprajñāyutaṃ naram
भूनिम्बनिम्बत्रिफलापर्पटैश्च शृतं जलम् ।
पटोलीमुस्तकाभ्याञ्च वासकेन च नाशयेत्
bhūnimbanimbatriphalāparpaṭaiśca śṛtaṃ jalam |
paṭolīmustakābhyāñca vāsakena ca nāśayet
विस्फोटकानि रक्तञ्च नात्र कार्या विचारणा ।
कतकस्य फलं शङ्खं सैन्धवं त्र्यूषणं वचा
visphoṭakāni raktañca nātra kāryā vicāraṇā |
katakasya phalaṃ śaṅkhaṃ saindhavaṃ tryūṣaṇaṃ vacā
फेनी रसाञ्जनं क्षौद्रं विडङ्गानि मनः शिला ।
एषां वर्तिर्हन्ति काचं तिमिरं पटलं तथा
phenī rasāñjanaṃ kṣaudraṃ viḍaṅgāni manaḥ śilā |
eṣāṃ vartirhanti kācaṃ timiraṃ paṭalaṃ tathā
प्रस्थद्वयं माषकस्य क्वाथश्च द्रोणमम्भसाम् ।
चतुर्भागावशेषेण तैलप्रस्थं विपाचयेत्
prasthadvayaṃ māṣakasya kvāthaśca droṇamambhasām |
caturbhāgāvaśeṣeṇa tailaprasthaṃ vipācayet
काञ्जिकस्याढकं दत्त्वा पिष्टान्येतानि दापयेत् ।
पुनर्नवा गोक्षुरकं सैन्धवं त्र्यूषणं वचा
kāñjikasyāḍhakaṃ dattvā piṣṭānyetāni dāpayet |
punarnavā gokṣurakaṃ saindhavaṃ tryūṣaṇaṃ vacā
लवणं सुरदारुश्च मञ्जिष्ठा कण्टकारिका ।
नस्यात्पानाद्धरत्येव कर्णशूलं सुदारुणम्
lavaṇaṃ suradāruśca mañjiṣṭhā kaṇṭakārikā |
nasyātpānāddharatyeva karṇaśūlaṃ sudāruṇam
बाधिर्यं सर्वरोगांश्च ह्यभ्यङ्गाच्च महेश्वर ।
पलद्वयं सैन्धवञ्च शुण्ठी चित्रकपञ्चकम्
bādhiryaṃ sarvarogāṃśca hyabhyaṅgācca maheśvara |
paladvayaṃ saindhavañca śuṇṭhī citrakapañcakam
सौवीरपञ्चप्रस्थं च तैलप्रस्थं पचेत्ततः ।
असृग्दरस्वरप्लीहासर्ववातविकारनुत्
sauvīrapañcaprasthaṃ ca tailaprasthaṃ pacettataḥ |
asṛgdarasvaraplīhāsarvavātavikāranut
उदुम्बरं वटं प्लक्षं जम्बूद्वयमथार्जुनम् ।
पिप्पली च कदम्बञ्च पलाशं लोध्रतिन्दुकम्
udumbaraṃ vaṭaṃ plakṣaṃ jambūdvayamathārjunam |
pippalī ca kadambañca palāśaṃ lodhratindukam
मधूकमाम्रसर्जञ्च बदरं पद्मकेशरम् ।
शिरीषबीजङ्कतकमेतत्क्वाथेन साधितम् ।
तैलं हन्ति व्रणांल्लेपाच्चिरकालभवानपि
madhūkamāmrasarjañca badaraṃ padmakeśaram |
śirīṣabījaṅkatakametatkvāthena sādhitam |
tailaṃ hanti vraṇāṃllepāccirakālabhavānapi
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)