अपराजिताया मूलञ्च गोमूत्रेण समन्वितम् ।
पीतञ्चाशु हरत्येव गण्डमालां न संशयः
aparājitāyā mūlañca gomūtreṇa samanvitam |
pītañcāśu haratyeva gaṇḍamālāṃ na saṃśayaḥ
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नवत्यधिकशततमोऽध्यायः ॥
32 श्लोक · 190 में से 241
हरि शिव से आगे कहते हैं। गोमूत्र के साथ अपराजिता की जड़ गण्डमाला शीघ्र हरती है। भैंस के मक्खन, अश्वगन्धा, पिप्पली, वचा और कुष्ठ का लेप मूत्रमार्ग और स्तनों की पीड़ा मिटाता है, और मक्खन के साथ कुष्ठ और नागबला का लेप युवती के स्तनों को सुडौल करता है। चावल के धोवन में श्वेत पुनर्नवा की जड़ विद्रधि मिटाती है; केले के पत्तों का क्षार और गुड़-घी के साथ केले की जड़ उदर रोग हरते हैं। फिर त्वचा की अनेक औषधियाँ आती हैं: दद्रु के लिए हल्दी और हरताल, श्वेत कुष्ठ के लिए मक्खन और मधु के साथ बावची के बीज और श्वेत अपराजिता की जड़, और सिध्म के लिए हल्दी के साथ केले का क्षार। अन्त में खाँसी, प्यास और वमन के उपचार हैं।
हरिरुवाच
अपराजिताया मूलञ्च गोमूत्रेण समन्वितम् ।
पीतञ्चाशु हरत्येव गण्डमालां न संशयः
aparājitāyā mūlañca gomūtreṇa samanvitam |
pītañcāśu haratyeva gaṇḍamālāṃ na saṃśayaḥ
अथेन्द्रवारुणीमूलं विधिना पीतमीश्वर ।
जिङ्गिण्यैरण्डकं रुद्र शूकशिम्ब्या समन्वितम् ।
शीतोदकञ्च तत्र्यस्तं बाहुग्रीवाव्यथां हरेत्
athendravāruṇīmūlaṃ vidhinā pītamīśvara |
jiṅgiṇyairaṇḍakaṃ rudra śūkaśimbyā samanvitam |
śītodakañca tatryastaṃ bāhugrīvāvyathāṃ haret
माहिषं नवनीतञ्च अश्वगन्धा च पिप्पली ।
वचा कुष्ठद्वयं लेपो लिङ्गस्रोतस्तनार्तिहृत्
māhiṣaṃ navanītañca aśvagandhā ca pippalī |
vacā kuṣṭhadvayaṃ lepo liṅgasrotastanārtihṛt
कुष्ठनागबलाचूर्णं नवनीतसमन्वितम् ।
तल्लेपो युवतीनाञ्च कुर्याद्वृत्तोजकौ शुभौ
kuṣṭhanāgabalācūrṇaṃ navanītasamanvitam |
tallepo yuvatīnāñca kuryādvṛttojakau śubhau
इन्द्रवारुणिकामूलं यस्य नाम्ना सुदूरतः ।
निः क्षिप्यते समुत्पाट्य तस्य प्लीहा विनश्यति
indravāruṇikāmūlaṃ yasya nāmnā sudūrataḥ |
niḥ kṣipyate samutpāṭya tasya plīhā vinaśyati
पुनर्नवायाः शुक्लाया मूलं तण्डुलवारिणा ।
पीतं विद्रधिनुत्स्याच्च नात्र कार्या विचारणा
punarnavāyāḥ śuklāyā mūlaṃ taṇḍulavāriṇā |
pītaṃ vidradhinutsyācca nātra kāryā vicāraṇā
कदलीदलक्षारन्तु पानीयेन प्रसाधितम् ।
तस्यादनाद्विनश्यन्ति उदरव्याधयोऽखिलाः
kadalīdalakṣārantu pānīyena prasādhitam |
tasyādanādvinaśyanti udaravyādhayo'khilāḥ
कदल्या मूलमादाय गुडाज्येन समन्वितम् ।
अग्निना साधितं जग्धमुदरस्थक्रिमीन्हरेत्
kadalyā mūlamādāya guḍājyena samanvitam |
agninā sādhitaṃ jagdhamudarasthakrimīnharet
नित्यं निम्बदलानाञ्च चूर्णमामलकस्य च ।
प्रत्यूषे भक्षयेच्चैव तस्य कुष्ठं विनश्यति
nityaṃ nimbadalānāñca cūrṇamāmalakasya ca |
pratyūṣe bhakṣayeccaiva tasya kuṣṭhaṃ vinaśyati
हरीतकीविडङ्गञ्च हरिद्रा सितसर्षपाः ।
सोमराजस्य मूलानि करञ्जस्य च रौन्धवम् ।
गोमूत्रपिष्टान्येतानि कुष्ठरोगहराणि वै
harītakīviḍaṅgañca haridrā sitasarṣapāḥ |
somarājasya mūlāni karañjasya ca raundhavam |
gomūtrapiṣṭānyetāni kuṣṭharogaharāṇi vai
एकश्च त्रिफलाभागस्तथा भागद्वयं शिवा ।
सोमराजस्य बीजानां जग्धं पथ्येन दद्रुनुत्
ekaśca triphalābhāgastathā bhāgadvayaṃ śivā |
somarājasya bījānāṃ jagdhaṃ pathyena dadrunut
अम्लतक्रं सगोमूत्रं क्वथितं लवणान्वितम् ।
कांस्यघृष्टं खरं लेपात्कुष्ठदद्रुविनाशनम्
amlatakraṃ sagomūtraṃ kvathitaṃ lavaṇānvitam |
kāṃsyaghṛṣṭaṃ kharaṃ lepātkuṣṭhadadruvināśanam
हरिद्रा हरितालश्च दूर्वागोमूत्रसैन्धवम् ।
अयं लेपो हन्ति दद्रुं पामानं च गरं तथा
haridrā haritālaśca dūrvāgomūtrasaindhavam |
ayaṃ lepo hanti dadruṃ pāmānaṃ ca garaṃ tathā
सोम राजस्य बीजानि नवनीतयुतानि च ।
मधुनास्वादितानि स्युः शुक्लकुष्ठहराणि वै ।
तक्रान्नपानतो रुद्र नात्र कार्या विचारणा
soma rājasya bījāni navanītayutāni ca |
madhunāsvāditāni syuḥ śuklakuṣṭhaharāṇi vai |
takrānnapānato rudra nātra kāryā vicāraṇā
श्वेतापरा जितामूलं वर्तितं चास्य वारिणा ।
तल्लेपो रुद्र मासेन शुक्लकुष्ठविनाशनः
śvetāparā jitāmūlaṃ vartitaṃ cāsya vāriṇā |
tallepo rudra māsena śuklakuṣṭhavināśanaḥ
माहिषं नवनीतञ्च सिन्दूरं समरीचकम् ।
पामा विलेपनान्नश्येद्दुर्नामा वृषभध्वज
māhiṣaṃ navanītañca sindūraṃ samarīcakam |
pāmā vilepanānnaśyeddurnāmā vṛṣabhadhvaja
विशुष्कगाम्भारीमूलं पक्वं क्षीरेण संयुतम् ।
भक्षितं शुक्लपित्तस्य विनाशकरमीश्वर
viśuṣkagāmbhārīmūlaṃ pakvaṃ kṣīreṇa saṃyutam |
bhakṣitaṃ śuklapittasya vināśakaramīśvara
मूलकस्य तु बीजानि ह्यपा मार्गरसेन वै ।
पिष्टानि तेन लेपेन सिध्मकं रुद्र नश्यति
mūlakasya tu bījāni hyapā mārgarasena vai |
piṣṭāni tena lepena sidhmakaṃ rudra naśyati
कदलीक्षारसंयुक्तहरिद्रा सिध्मकापहा ।
रम्भापामार्गयोः क्षार एरण्डेन विमिश्रितः ।
तदभ्यङ्गान्महादेव सद्यः सिध्म विनश्यति
kadalīkṣārasaṃyuktaharidrā sidhmakāpahā |
rambhāpāmārgayoḥ kṣāra eraṇḍena vimiśritaḥ |
tadabhyaṅgānmahādeva sadyaḥ sidhma vinaśyati
कूष्माण्डनालक्षारश्च सगोमूत्रश्च तत्त्वतः ।
जलपिष्टा हरिद्रा च सिद्धा मन्दानलेनहि
kūṣmāṇḍanālakṣāraśca sagomūtraśca tattvataḥ |
jalapiṣṭā haridrā ca siddhā mandānalenahi
माहिषेण पुरीषेण वेष्टिता वृषभध्वज ।
अस्या उद्वर्तनं कुर्यादङ्गसौष्ठवमीश्वर
māhiṣeṇa purīṣeṇa veṣṭitā vṛṣabhadhvaja |
asyā udvartanaṃ kuryādaṅgasauṣṭhavamīśvara
तिलसर्षपसंयुक्तं हरिद्राद्वयकुष्ठकम् ।
तेनोद्वर्तितदेहः स्याद्दुर्गन्धः सुरभिः पुमान्
tilasarṣapasaṃyuktaṃ haridrādvayakuṣṭhakam |
tenodvartitadehaḥ syāddurgandhaḥ surabhiḥ pumān
मनोहरश्चानुदिनं दूर्वाणां काकजङ्घाया ।
अर्जुनस्य तु पुष्पाणि जम्बूपत्रयुतानि च ।
सलोध्राणि च तल्लेपो देहदुर्गन्धतां हरेत्
manoharaścānudinaṃ dūrvāṇāṃ kākajaṅghāyā |
arjunasya tu puṣpāṇi jambūpatrayutāni ca |
salodhrāṇi ca tallepo dehadurgandhatāṃ haret
युक्तं लोध्रभवैर्नोरैश्चूर्णन्तु कनकस्य च ।
तेनोद्वर्तितदेहस्य न स्याद्ग्रीष्मप्रबाधिका
yuktaṃ lodhrabhavairnoraiścūrṇantu kanakasya ca |
tenodvartitadehasya na syādgrīṣmaprabādhikā
दुग्धेनोषसि सेकश्च घर्मदोषश्च नश्यति ।
काकजङ्घोद्वर्तनन्तु ह्यङ्गरागकरं भवेत्
dugdhenoṣasi sekaśca gharmadoṣaśca naśyati |
kākajaṅghodvartanantu hyaṅgarāgakaraṃ bhavet
मधुयष्टी शर्करा च वासकस्य रसो मधु ।
एतत्पीतं रक्तपित्तकामलापाण्डुरोगनुत्
madhuyaṣṭī śarkarā ca vāsakasya raso madhu |
etatpītaṃ raktapittakāmalāpāṇḍuroganut
रक्तपित्तं हरेत्पीतो वासकस्य रसो मधु ।
प्रातः काले तोयपानात्पीनसं दारुणं हरेत्
raktapittaṃ haretpīto vāsakasya raso madhu |
prātaḥ kāle toyapānātpīnasaṃ dāruṇaṃ haret
बिभीतकस्य वै चूर्णं पिप्पल्याः सैन्धवस्य च ।
पीतं सकाञ्जिकं हन्ति स्वरभेदं महेश्वर
bibhītakasya vai cūrṇaṃ pippalyāḥ saindhavasya ca |
pītaṃ sakāñjikaṃ hanti svarabhedaṃ maheśvara
चूर्णमामलकं सेव्यं पीतं गव्यपयोऽन्वितम् ।
मनः शिला बलामूलं कोलपण च गुग्गुलुः
cūrṇamāmalakaṃ sevyaṃ pītaṃ gavyapayo'nvitam |
manaḥ śilā balāmūlaṃ kolapaṇa ca gugguluḥ
जातिपत्रं कोलपत्रं तथा चैव मनः शिला ।
एभिश्चैव कृता वर्तिर्बदर्यग्नौ महेश्वर ।
धूमपानं कासहरं नात्र कार्या विचारणा
jātipatraṃ kolapatraṃ tathā caiva manaḥ śilā |
ebhiścaiva kṛtā vartirbadaryagnau maheśvara |
dhūmapānaṃ kāsaharaṃ nātra kāryā vicāraṇā
त्रिफलापिप्पलीचूर्णं भक्षितं मधुनायुतम् ।
भोजनादौ हि समधु पिपासाज्व
रितं हरेत्
triphalāpippalīcūrṇaṃ bhakṣitaṃ madhunāyutam |
bhojanādau hi samadhu pipāsājva
ritaṃ haret
बिल्वमूलञ्च समधुगुडूचीक्वथितं जलम् ।
पीतं हरेच्च त्रिवधं छर्दिं नैवात्रसंशयः ।
पीता दूर्वा छर्दिनुत्स्यात्पिष्टातण्डुलवारिणा
bilvamūlañca samadhuguḍūcīkvathitaṃ jalam |
pītaṃ harecca trivadhaṃ chardiṃ naivātrasaṃśayaḥ |
pītā dūrvā chardinutsyātpiṣṭātaṇḍulavāriṇā
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)