मरिचं शृङ्गवेरं च कुटजत्वचमेव च ।
पानाच्च ग्रहणी नश्येच्छशाङ्काङ्कितशेखर
maricaṃ śṛṅgaveraṃ ca kuṭajatvacameva ca |
pānācca grahaṇī naśyecchaśāṅkāṅkitaśekhara
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे त्र्यशीत्यधिकशततमोऽध्यायः ॥
19 श्लोक · 183 में से 241
हरि चन्द्रशेखर शिव से और योग कहते हैं। मिर्च, सोंठ और कुटज की छाल ग्रहणी मिटाती है; दूध में पीसे पिप्पली, पिपलामूल, मिर्च, तगर, वचा, देवदारु और पाठा अतिसार रोकते हैं; गुड़ और मधु के साथ हरड़ रेचन करती है। फूल, पत्ते और जड़ सहित उखाड़ी शंखपुष्पी बकरी के दूध के साथ अपस्मार हरती है। हरड़ के साथ अश्वगन्धा रक्तपित्त मिटाती है, और मुख में हरड़ और कुष्ठ रखकर ठंडा जल पीने से वमन रुकता है। ज्वर के लिए जड़ी के साथ प्रयोग भी हैं: ओं जम्भिनी स्तम्भिनी मन्त्र के साथ कान पर बाँधी शंखपुष्पी, और चातुर्थिक ज्वर के लिए जामुन, हल्दी और साँप की केंचुली का धूप। अन्त में खुजली और पामा के तेल, प्लीहा के लिए मधु के साथ पिप्पली, और अर्श व कुष्ठ के लेप हैं।
हरिरुवाच
मरिचं शृङ्गवेरं च कुटजत्वचमेव च ।
पानाच्च ग्रहणी नश्येच्छशाङ्काङ्कितशेखर
maricaṃ śṛṅgaveraṃ ca kuṭajatvacameva ca |
pānācca grahaṇī naśyecchaśāṅkāṅkitaśekhara
पिप्पली पिप्पलीमूलं मरिचं तगरं वचा ।
देवदारुरसं पाठां क्षीरेण सह पेषयेत्
pippalī pippalīmūlaṃ maricaṃ tagaraṃ vacā |
devadārurasaṃ pāṭhāṃ kṣīreṇa saha peṣayet
अनेनैव प्रयोगेण ह्यतिसारो विनश्यति ।
मरीचतिलपुष्पाभ्या मञ्जनं कामलापहम्
anenaiva prayogeṇa hyatisāro vinaśyati |
marīcatilapuṣpābhyā mañjanaṃ kāmalāpaham
हरीतकी समगुडा मधुना सह योजिता ।
विरेचनकरी रुद्र भवतीति न संशयः
harītakī samaguḍā madhunā saha yojitā |
virecanakarī rudra bhavatīti na saṃśayaḥ
त्रिफला चित्रकं चित्रं तथा कटुकरोहिणी ।
उरुस्तम्भहरं ह्येतदुत्तमन्तु विरेचनम्
triphalā citrakaṃ citraṃ tathā kaṭukarohiṇī |
urustambhaharaṃ hyetaduttamantu virecanam
हरीतकी शृङ्गवेरं देवदारु च चन्दनम् ।
क्वाथयेच्छागदुग्धेन अपामार्गस्य मूलकम् ।
ऊरुस्तम्भं जयन्त्या वा सप्तरात्रेण नाशयेत्
harītakī śṛṅgaveraṃ devadāru ca candanam |
kvāthayecchāgadugdhena apāmārgasya mūlakam |
ūrustambhaṃ jayantyā vā saptarātreṇa nāśayet
अनन्ताशृङ्गवेरस्य सूक्ष्मचूर्णानि कारयेत् ।
गुग्गुलं गुडतुल्यं च गुटिकामुपयुज्यच ।
वायुः स्नायुगतं चैव अग्निमान्द्यं च नाशयेत्
anantāśṛṅgaverasya sūkṣmacūrṇāni kārayet |
guggulaṃ guḍatulyaṃ ca guṭikāmupayujyaca |
vāyuḥ snāyugataṃ caiva agnimāndyaṃ ca nāśayet
सङ्खपुष्पीन्तु पुष्पेण समुद्धृत्य सपत्रिकाम् ।
समूलां छागदुग्धेन अपस्मारहरं पिबेत्
saṅkhapuṣpīntu puṣpeṇa samuddhṛtya sapatrikām |
samūlāṃ chāgadugdhena apasmāraharaṃ pibet
अश्वगन्धाभये चैव उदकेन समं पिबेत् ।
रक्तपित्तं विनश्येत्तु नात्र कार्या विचारणा
aśvagandhābhaye caiva udakena samaṃ pibet |
raktapittaṃ vinaśyettu nātra kāryā vicāraṇā
हरीतकीकुष्ठचूर्णं कृत्वा आस्यं च पूरयेत् ।
शीतं पीत्वाथ पानीयं सर्वच्छर्दिनिवारणम्
harītakīkuṣṭhacūrṇaṃ kṛtvā āsyaṃ ca pūrayet |
śītaṃ pītvātha pānīyaṃ sarvacchardinivāraṇam
गडूचीपद्मकारिष्टधान्याकं रक्तचंन्दनम् ।
पित्तश्लेष्मज्वरच्छर्दिदाहतृष्णाघ्नमग्निकृत् ।
ओं हुं नम इति
gaḍūcīpadmakāriṣṭadhānyākaṃ raktacaṃndanam |
pittaśleṣmajvaracchardidāhatṛṣṇāghnamagnikṛt |
oṃ huṃ nama iti
श्रोत्रे बद्ध्वा शङ्खपुष्पीं ज्वरं मन्त्रेण वै हरेत् ।
ओं जम्भिनी स्तम्भिनी मोहय सर्वव्याधीन्मे वज्रेण ठः ठः सर्वव्याधीन्मे वज्रेण फटिति
śrotre baddhvā śaṅkhapuṣpīṃ jvaraṃ mantreṇa vai haret |
oṃ jambhinī stambhinī mohaya sarvavyādhīnme vajreṇa ṭhaḥ ṭhaḥ sarvavyādhīnme vajreṇa phaṭiti
पुष्पमष्टशतं जप्त्वा हस्ते दत्त्वा नखं स्पृशेत् ।
चातुर्थिको ज्वरो रुद्र अन्ये चैव ज्वरास्तथा
puṣpamaṣṭaśataṃ japtvā haste dattvā nakhaṃ spṛśet |
cāturthiko jvaro rudra anye caiva jvarāstathā
ज्म्बूफलं हरिद्रा च सर्पस्यैव तु कञ्चुकम् ।
सर्वज्वराणां धूपोऽयं हरश्चातुर्थिकस्य च
jmbūphalaṃ haridrā ca sarpasyaiva tu kañcukam |
sarvajvarāṇāṃ dhūpo'yaṃ haraścāturthikasya ca
करवीरं भृङ्गपत्रं लवणं कुष्ठकर्कटे ।
चतुर्गुणेन मूत्रेण पचेत्तैलं हरेच्च तत् ।
पामां विचर्चिकां कुष्ठमभ्यङ्गाद्धि व्रणानि वै
karavīraṃ bhṛṅgapatraṃ lavaṇaṃ kuṣṭhakarkaṭe |
caturguṇena mūtreṇa pacettailaṃ harecca tat |
pāmāṃ vicarcikāṃ kuṣṭhamabhyaṅgāddhi vraṇāni vai
पिप्पलीमधुपानाच्च तथा मधुरभोजनात् ।
प्लीहा विनश्यते रुद्र तथा सूरणसेवनात्
pippalīmadhupānācca tathā madhurabhojanāt |
plīhā vinaśyate rudra tathā sūraṇasevanāt
पिप्पलीञ्च हरिद्राञ्च गोमूत्रेण समन्विताम् ।
प्रक्षिपेच्च गुदद्वारे अर्शांसि विनिवारयेत्
pippalīñca haridrāñca gomūtreṇa samanvitām |
prakṣipecca gudadvāre arśāṃsi vinivārayet
अजादुग्धमार्द्रकञ्च पीतं प्लीहादिनाशनम् ।
सैन्धवञ्च विडङ्गानि सोमराजी तु सर्षपाः
ajādugdhamārdrakañca pītaṃ plīhādināśanam |
saindhavañca viḍaṅgāni somarājī tu sarṣapāḥ
रजनी द्वे विषञ्चैव गोमूत्रेणैव पेषयेत् ।
कुष्ठनाशश्च तल्लेपान्निम्बपत्रादिना तथा
rajanī dve viṣañcaiva gomūtreṇaiva peṣayet |
kuṣṭhanāśaśca tallepānnimbapatrādinā tathā
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)