शरद्ग्रीष्मवसन्तेषु प्रायशो दधि गर्हितम् ।
हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते
śaradgrīṣmavasanteṣu prāyaśo dadhi garhitam |
hemante śiśire caiva varṣāsu dadhi śasyate
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे द्व्याशीत्यधिकशततमोऽध्यायः ॥
28 श्लोक · 182 में से 241
हरि शिव से कहते हैं कि शरद, ग्रीष्म और वसन्त में दही वर्जित है, पर हेमन्त, शिशिर और वर्षा में हितकर। भोजन के बाद ताज़े मक्खन के साथ शक्कर बुद्धि बढ़ाती है; सोते समय घी और मधु के साथ कुष्ठ का चूर्ण झुर्रियाँ और सफेद बाल मिटाता है; गुड़ के साथ जौ, तिल, अश्वगन्धा और मूसली युवक को बलवान बनाते हैं। इसके बाद दूसरे प्रकार के प्रयोग हैं: लेप जिनसे अग्नि हाथ में ली जा सके, जल को स्तम्भित करने का मन्त्र, शत्रु के द्वार पर गीध और गाय की हड्डियाँ गाड़ने का प्रयोग जिससे उसकी मृत्यु कही गई है, और वशीकरण के तिलक। अन्त में फिर चिकित्सा है: विष और बिच्छू के डंक के प्रतिकार और रक्तातिसार के लिए चावल के धोवन में शक्कर और मधु।
हरिरुवाच
शरद्ग्रीष्मवसन्तेषु प्रायशो दधि गर्हितम् ।
हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते
śaradgrīṣmavasanteṣu prāyaśo dadhi garhitam |
hemante śiśire caiva varṣāsu dadhi śasyate
भुक्ते तु शर्करा पीता नवनीतेन बुद्धिकृत् ।
गुडस्य तु पुराणस्य पलमेकन्तु भक्षयेत् ।
स्त्रीसहस्रञ्च संगच्छेत्पुमान्बलयुतो हर
bhukte tu śarkarā pītā navanītena buddhikṛt |
guḍasya tu purāṇasya palamekantu bhakṣayet |
strīsahasrañca saṃgacchetpumānbalayuto hara
कुष्ठं संचूर्णितं कृत्वा घृतमाक्षिकसंयुतम् ।
भक्षयेत्स्वप्नवेलायां बलीपलितनाशनम्
kuṣṭhaṃ saṃcūrṇitaṃ kṛtvā ghṛtamākṣikasaṃyutam |
bhakṣayetsvapnavelāyāṃ balīpalitanāśanam
अतसीमाषगोधूमचूर्णं कृत्वा तु पिप्पली ।
घृतेन लेपयेद्गत्रमोभिः सार्धं विचक्षणः ।
कन्दर्पसदृशो मर्त्यो नित्यं भवति शङ्कर
atasīmāṣagodhūmacūrṇaṃ kṛtvā tu pippalī |
ghṛtena lepayedgatramobhiḥ sārdhaṃ vicakṣaṇaḥ |
kandarpasadṛśo martyo nityaṃ bhavati śaṅkara
यवास्तिलाश्वगन्धा च मुशली सरला गुडम् ।
एभिश्च रचितां जग्ध्वा तरुणो बलवान्भवेत्
yavāstilāśvagandhā ca muśalī saralā guḍam |
ebhiśca racitāṃ jagdhvā taruṇo balavānbhavet
हिङ्गु सौवर्चलं शुण्ठीं पीत्वा तु क्वथितोदकैः ।
परिणामाख्यशूलञ्च अजीर्णञ्चैव नश्यति
hiṅgu sauvarcalaṃ śuṇṭhīṃ pītvā tu kvathitodakaiḥ |
pariṇāmākhyaśūlañca ajīrṇañcaiva naśyati
धातकीं सोमराजीञ्च क्षीरेण सह पेषयेत् ।
दुर्बलश्च भवेत्स्थूलो नात्र कार्या विचारणा
dhātakīṃ somarājīñca kṣīreṇa saha peṣayet |
durbalaśca bhavetsthūlo nātra kāryā vicāraṇā
शर्करामधुसंयुक्तं नवनीतं बली लिहेत् ।
क्षीराशी च क्षयी पुष्टिं मेधाञ्चैवातुलां व्रजेत्
śarkarāmadhusaṃyuktaṃ navanītaṃ balī lihet |
kṣīrāśī ca kṣayī puṣṭiṃ medhāñcaivātulāṃ vrajet
कुलीरचूर्णं सक्षीरं पीतञ्च क्षयरेगनुत् ।
भल्लातकं विडङ्गञ्च यवक्षारञ्च सैन्धवम्
kulīracūrṇaṃ sakṣīraṃ pītañca kṣayareganut |
bhallātakaṃ viḍaṅgañca yavakṣārañca saindhavam
मनः शिला शङ्खचूर्णं तैलपक्वं तथैव च ।
लोमानि शातयत्येव नात्र कार्या विचारणा
manaḥ śilā śaṅkhacūrṇaṃ tailapakvaṃ tathaiva ca |
lomāni śātayatyeva nātra kāryā vicāraṇā
मालूरस्य रसं गृह्य जलौकां तत्र पेषयेत् ।
हस्तौ संलेपयेत्तेन त्वग्निस्तम्भनमुत्तमम्
mālūrasya rasaṃ gṛhya jalaukāṃ tatra peṣayet |
hastau saṃlepayettena tvagnistambhanamuttamam
शाल्मलीरसमादाय खरमूत्रे निधाय तम् ।
अग्नयादौ विक्षिपेत्तेन ह्यग्निस्तम्भनमुत्तमम्
śālmalīrasamādāya kharamūtre nidhāya tam |
agnayādau vikṣipettena hyagnistambhanamuttamam
वायस्या उदरं गृह्य मण्डूकवसया सह ।
गुटिकां कारयेत्तेन ततोऽग्नौ संक्षैपेत्सुधीः ।
एवमेतत्प्रयोगेण ह्यग्निस्तम्भनमुत्तमम्
vāyasyā udaraṃ gṛhya maṇḍūkavasayā saha |
guṭikāṃ kārayettena tato'gnau saṃkṣaipetsudhīḥ |
evametatprayogeṇa hyagnistambhanamuttamam
मुण्डीत्वक्च वचा मुस्तं मरिचं तगरं तथा ।
चर्वित्वा च त्विमं सद्यो जिह्वया ज्वलनं लिहेत्
muṇḍītvakca vacā mustaṃ maricaṃ tagaraṃ tathā |
carvitvā ca tvimaṃ sadyo jihvayā jvalanaṃ lihet
गोरोचनां भृङ्गराजं चूर्णोकृत्यघृतं समम् ।
दिव्याम्भसः स्तम्भनं स्यान्मन्त्रेणानेन वै तथा ।
ओं अग्निस्तम्भनं कुरु कुरु
gorocanāṃ bhṛṅgarājaṃ cūrṇokṛtyaghṛtaṃ samam |
divyāmbhasaḥ stambhanaṃ syānmantreṇānena vai tathā |
oṃ agnistambhanaṃ kuru kuru
ओं नमो भगवते जलं स्तम्भय सं सं सं केक केकः चरचर ।
जलस्तम्भनमन्त्रोऽयं जलं स्तम्भयते शिव
oṃ namo bhagavate jalaṃ stambhaya saṃ saṃ saṃ keka kekaḥ caracara |
jalastambhanamantro'yaṃ jalaṃ stambhayate śiva
गृध्रास्थिञ्च गवास्थिञ्च तथा निर्माल्यमेव च ।
अरेर्यो निखनेद्द्वारे पञ्चत्वमु पयाति सः
gṛdhrāsthiñca gavāsthiñca tathā nirmālyameva ca |
areryo nikhaneddvāre pañcatvamu payāti saḥ
पञ्चरक्तानि पुष्पाणि पृथग्जात्या समालभेत् ।
कुङ्कुमेन समायुक्तमात्मरक्तसमन्वितम्
pañcaraktāni puṣpāṇi pṛthagjātyā samālabhet |
kuṅkumena samāyuktamātmaraktasamanvitam
पुष्पेण तु समं पिष्ट्वा रोचनायाः पलैकतः ।
स्त्रिया पुंसा कृतो रुद्र तिलकोऽयं वशीकरः
puṣpeṇa tu samaṃ piṣṭvā rocanāyāḥ palaikataḥ |
striyā puṃsā kṛto rudra tilako'yaṃ vaśīkaraḥ
ब्रह्मदण्डी तु पुष्येण भक्ष्ये पाने वशीकरः ।
यष्टि मधु पलैकेन पक्वमुष्णोदकं पिबेत्
brahmadaṇḍī tu puṣyeṇa bhakṣye pāne vaśīkaraḥ |
yaṣṭi madhu palaikena pakvamuṣṇodakaṃ pibet
विष्टम्भिकाञ्च हृच्छूलं हरत्येव महेश्वर ।
ओं ह्रूं जः ।
मन्त्रोऽयं हरते रुद्र सर्ववृश्चिकजं विषम्
viṣṭambhikāñca hṛcchūlaṃ haratyeva maheśvara |
oṃ hrūṃ jaḥ |
mantro'yaṃ harate rudra sarvavṛścikajaṃ viṣam
पिप्पली नवनीतञ्च शृङ्गवेरं च सैन्धवम् ।
मरिचं दधि कुष्ठञ्च नस्ये पाने विषं हरेत्
pippalī navanītañca śṛṅgaveraṃ ca saindhavam |
maricaṃ dadhi kuṣṭhañca nasye pāne viṣaṃ haret
त्रिफलार्द्रककुष्ठं च चन्दनं घृतसंयुतम् ।
एतत्पानाच्च लेपाच्च विषनाशो भवेच्छिव
triphalārdrakakuṣṭhaṃ ca candanaṃ ghṛtasaṃyutam |
etatpānācca lepācca viṣanāśo bhavecchiva
पारावतस्य चाक्षीणि हरितालं मनः शिला ।
एतद्योगाद्विषं हन्ति वैनतेय इवोरगान्
pārāvatasya cākṣīṇi haritālaṃ manaḥ śilā |
etadyogādviṣaṃ hanti vainateya ivoragān
सैन्धवं त्र्यूषणं चैव दधिमध्वाज्यसंयुतम् ।
वृश्चिकस्य विषं हन्ति लेपोऽयं वृषभध्वज
saindhavaṃ tryūṣaṇaṃ caiva dadhimadhvājyasaṃyutam |
vṛścikasya viṣaṃ hanti lepo'yaṃ vṛṣabhadhvaja
ब्रह्मदण्डीतिलान्क्वाथ्य चूर्णं त्रिकटुकं पिबेत् ।
नाशयेद्रुद्र गुल्मानि निरुद्धं रक्तमेव च
brahmadaṇḍītilānkvāthya cūrṇaṃ trikaṭukaṃ pibet |
nāśayedrudra gulmāni niruddhaṃ raktameva ca
पीत्वा क्षीरं क्षौद्रयुतं नाशयेदसृजः स्त्रुतिम् ।
आटरूपकमूलेन भगं नाभिं च लेपयेत् ।
सुखं प्रसूयते नारी नात्र कार्या विचारणा
pītvā kṣīraṃ kṣaudrayutaṃ nāśayedasṛjaḥ strutim |
āṭarūpakamūlena bhagaṃ nābhiṃ ca lepayet |
sukhaṃ prasūyate nārī nātra kāryā vicāraṇā
शर्करां मधुसंयुक्तां पीत्वा तण्डुलवारिणा ।
रक्तातिसारशमनं भवतीति वृषध्वज
śarkarāṃ madhusaṃyuktāṃ pītvā taṇḍulavāriṇā |
raktātisāraśamanaṃ bhavatīti vṛṣadhvaja
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)