पूर्व खण्ड — आचार काण्ड

अध्याय 18: मृत्यु पर विजय के लिए अमृतेश मृत्युंजय पूजन

इति श्रीगारुडे महापुराणे पूर्वखंडे प्रथमांशाव्ये आचारकाण्डेऽमृतेशमृत्युञ्जयपूजनं नामाष्टादशोऽध्यायः ॥

20 श्लोक · 18 में से 241

इस अध्याय में क्या होता है

मृत्यु पर विजय के लिए अमृतेश मृत्युंजय पूजन

अब सूत वह मृत्युंजय पूजन बताते हैं जो गरुड़ ने कश्यप को कहा था। वे मन्त्र को अक्षर अक्षर उद्धृत करते हैं: पहले ॐ, फिर जुं, फिर विसर्ग सहित सः। ये तीन अक्षर अमृतेश कहलाते हैं, मृत्यु और दरिद्रता को कुचलते हैं। सौ जप से वेद का फल मिलता है; तीनों सन्ध्याओं में एक सौ आठ जप मृत्यु और शत्रु को जीतता है; एक मास तक प्रत्येक सन्ध्या में आठ हजार जप जरा, मृत्यु, महारोग और शत्रुओं को दूर करता है। न्यास द्वारा साधक स्वयं को देवरूप बनाकर हृदयकमल की ज्योति का पूजन करता है। देहली पर मातृकाएँ, गण, नन्दी, गंगा, महाकाल और यमुना पूजे जाते हैं, फिर अमृतेश्वर भैरव, सूर्य और अन्य देवता इसी बीज से पूजे जाते हैं।

सूत उवाच

18.1

गरुडोक्तं कश्यपाय वक्ष्ये मृत्युञ्जयार्चनम् ।
उद्धारपूर्वकं पुण्यं सर्वदेवमयं मतम्

garuḍoktaṃ kaśyapāya vakṣye mṛtyuñjayārcanam |
uddhārapūrvakaṃ puṇyaṃ sarvadevamayaṃ matam

18.2

ओङ्कारं पूर्वमुद्धृत्य जु
ङ्काँरं तदनन्तरम् ।
सविसर्गं तृतीयं स्यान्मृत्युदारिद्र्यमर्दनम्

oṅkāraṃ pūrvamuddhṛtya ju
ṅkām̐raṃ tadanantaram |
savisargaṃ tṛtīyaṃ syānmṛtyudāridryamardanam

18.3

ईशविष्णवर्कदेव्यादिकवचं सर्वसाधकम् ।
अमृतेशं महामन्त्रंत्र्यक्षरं पूजनं समम् ।
जपनान्मृत्युहीनाः स्युः सर्वपापविवर्जिताः

īśaviṣṇavarkadevyādikavacaṃ sarvasādhakam |
amṛteśaṃ mahāmantraṃtryakṣaraṃ pūjanaṃ samam |
japanānmṛtyuhīnāḥ syuḥ sarvapāpavivarjitāḥ

18.4

शतजप्याद्वेदफलं यज्ञतीर्थफलं लभेत् ।
अष्टोत्तरशताज्जाप्यात्रिसन्ध्यं मृत्यु शत्रुजित

śatajapyādvedaphalaṃ yajñatīrthaphalaṃ labhet |
aṣṭottaraśatājjāpyātrisandhyaṃ mṛtyu śatrujita

18.5

ध्यायेच्च सितपद्मस्थं वरदं चाभयं करे ।
द्वाभ्यां चामृतकुम्भं तु चिन्तयेदमृतेश्वरम्

dhyāyecca sitapadmasthaṃ varadaṃ cābhayaṃ kare |
dvābhyāṃ cāmṛtakumbhaṃ tu cintayedamṛteśvaram

18.6

तस्यैवांगगतां देवीममृतामृतभाषिणी
म् ।
कलशं दक्षिणे हस्ते वामहस्ते सरोरुहम्

tasyaivāṃgagatāṃ devīmamṛtāmṛtabhāṣiṇī
m |
kalaśaṃ dakṣiṇe haste vāmahaste saroruham

18.7

जपेदष्टसहस्त्रं वै त्रिसन्ध्यं मासमेकतः ।
जरामृत्युमहाव्याधिशत्रुच्छिवशान्तिदम्

japedaṣṭasahastraṃ vai trisandhyaṃ māsamekataḥ |
jarāmṛtyumahāvyādhiśatrucchivaśāntidam

18.8

आह्वानं स्थापनं रोधं सन्निधानं निवेशनम् ।
पाद्यमा चमनं स्नानमर्घ्यं स्त्रगनुलेपनम्

āhvānaṃ sthāpanaṃ rodhaṃ sannidhānaṃ niveśanam |
pādyamā camanaṃ snānamarghyaṃ straganulepanam

18.9

दीपांबरं भूषणं च नैवद्यं पानवीजनम् ।
मात्रामुद्राजपध्यानं दक्षिणा चाहुतिः स्तुतिः

dīpāṃbaraṃ bhūṣaṇaṃ ca naivadyaṃ pānavījanam |
mātrāmudrājapadhyānaṃ dakṣiṇā cāhutiḥ stutiḥ

18.10

वाद्यं गतिं च नृत्यं च न्यासयोगं प्रदक्षिणम् ।
प्रणतिर्मन्त्रशय्या च वन्दनं च विसर्जनम्

vādyaṃ gatiṃ ca nṛtyaṃ ca nyāsayogaṃ pradakṣiṇam |
praṇatirmantraśayyā ca vandanaṃ ca visarjanam

18.11

षडंगादिप्रकारेण पूजनं तु क्रमोदितम् ।
परमेशमुखोद्रीतं यो जानाति स पूजकः

ṣaḍaṃgādiprakāreṇa pūjanaṃ tu kramoditam |
parameśamukhodrītaṃ yo jānāti sa pūjakaḥ

18.12

अर्घ्यपात्रार्चनं चादौवस्त्रेणैव तु ताडनम् ।
शोधनं कवचेनैव अमृतीकरणं ततः

arghyapātrārcanaṃ cādauvastreṇaiva tu tāḍanam |
śodhanaṃ kavacenaiva amṛtīkaraṇaṃ tataḥ

18.13

पूजा चाधारशक्त्यादेः प्राणायामं तथासने ।
पीठशुद्धिं ततः कुर्य्याच्छोषणाद्यैस्ततः स्मरेत्

pūjā cādhāraśaktyādeḥ prāṇāyāmaṃ tathāsane |
pīṭhaśuddhiṃ tataḥ kuryyācchoṣaṇādyaistataḥ smaret

18.14

आत्मानं देवरूपं च करांगन्यासकं चरेत् ।
आत्मानं पूजयेत्पश्चाज्यो तीरूपं हृदब्जतः

ātmānaṃ devarūpaṃ ca karāṃganyāsakaṃ caret |
ātmānaṃ pūjayetpaścājyo tīrūpaṃ hṛdabjataḥ

18.15

मूर्त्तौ वा स्थण्डिले वापि क्षिपेत्पुष्पं तु भास्वरम् ।
आह्वानद्वारपूजार्थं पूजा चाधारशक्तितः

mūrttau vā sthaṇḍile vāpi kṣipetpuṣpaṃ tu bhāsvaram |
āhvānadvārapūjārthaṃ pūjā cādhāraśaktitaḥ

18.16

सान्निध्यकरणं देवे परिवारस्य पूजनम् ।
अंगषट्कस्य पूजा वै कर्त्तव्या च विपश्चितैः

sānnidhyakaraṇaṃ deve parivārasya pūjanam |
aṃgaṣaṭkasya pūjā vai karttavyā ca vipaścitaiḥ

18.17

धर्मादयश्च शक्राद्याः सायुधाः परिवारकाः ।
युगवेदमुहूर्त्ताश्च पूजेयं भुक्तिमुक्तिकृत्

dharmādayaśca śakrādyāḥ sāyudhāḥ parivārakāḥ |
yugavedamuhūrttāśca pūjeyaṃ bhuktimuktikṛt

18.18

मातृकाश्च गणांश्चादौ नन्दिगङ्गे च पूजयेत् ।
महाकालं च यमनां देहल्यां पूजयेत्पुरा

mātṛkāśca gaṇāṃścādau nandigaṅge ca pūjayet |
mahākālaṃ ca yamanāṃ dehalyāṃ pūjayetpurā

18.19

ॐ अमृतेश्वर ॐ भैरवाय नमः ।
एवं ॐ जुं हंसः सूर्य्याय नमः

oṃ amṛteśvara oṃ bhairavāya namaḥ |
evaṃ oṃ juṃ haṃsaḥ sūryyāya namaḥ

18.20

एवं शिवाय कृष्णाय ब्रह्मणे च गणाय च ।
चण्डिकायै सरस्वत्यै महालक्ष्मादि पूजयेत्

evaṃ śivāya kṛṣṇāya brahmaṇe ca gaṇāya ca |
caṇḍikāyai sarasvatyai mahālakṣmādi pūjayet

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)