प्राणेश्वरं गारुडं च शिवोक्तं प्रवदाम्यहम् ।
स्थानान्यादौ प्रवक्ष्यामि नागदष्टो न जीवति
prāṇeśvaraṃ gāruḍaṃ ca śivoktaṃ pravadāmyaham |
sthānānyādau pravakṣyāmi nāgadaṣṭo na jīvati
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सर्पविषहरोपाय निरूपणं नामैकोनविंशोऽध्यायः ॥
34 श्लोक · 19 में से 241
सूत शिव द्वारा कही गई प्राणेश्वर नाम की गारुड़ विद्या सर्पविष के लिए बताते हैं। पहले वे लक्षण आते हैं जिनमें डसा हुआ नहीं बचता: श्मशान, बाँबी, पर्वत, कुएँ या वृक्ष के कोटर में डसा जाना; घाव पर तीन छिपी रेखाएँ; मूल, आश्लेषा, मघा जैसे नक्षत्रों और कुछ तिथियों में डसना; या गले जैसे मर्मस्थानों पर दंश। दण्ड या शस्त्र लिए, भिक्षु रूप में या नग्न आने वाला दूत काल का दूत है। फिर उपाय: श्वास की परख, हंस बीज का ध्यान, डसे हुए के कान में ॐ ह्रीं ह्रौं ह्रीं भिरुण्डायै स्वाहा मन्त्र का जप, और वर्णमाला के अक्षरों का अंगों पर न्यास। अन्त में इन्हीं मन्त्रों के वशीकरण प्रयोग हैं, जिनमें स्त्रियों को वश में करना भी है, तथा कवित्व, स्मृति और दीर्घायु के प्रयोग।
सूत उवाच
प्राणेश्वरं गारुडं च शिवोक्तं प्रवदाम्यहम् ।
स्थानान्यादौ प्रवक्ष्यामि नागदष्टो न जीवति
prāṇeśvaraṃ gāruḍaṃ ca śivoktaṃ pravadāmyaham |
sthānānyādau pravakṣyāmi nāgadaṣṭo na jīvati
चितावल्मीकशैलादौ कपे च विवरे तरोः ।
दंशे रेखात्रयं यस्य प्रच्छन्नं स न जीवति
citāvalmīkaśailādau kape ca vivare taroḥ |
daṃśe rekhātrayaṃ yasya pracchannaṃ sa na jīvati
षष्ठ्यां च कर्कटे मेषे मूलाश्लेषामघादिषु ।
कक्षाश्रोणिगले सन्धौ शंखकर्णोदरादिषु
ṣaṣṭhyāṃ ca karkaṭe meṣe mūlāśleṣāmaghādiṣu |
kakṣāśroṇigale sandhau śaṃkhakarṇodarādiṣu
दण्डी शस्त्रधरो भिक्षुर्नग्नादिः कालदूतकः ।
बाहौ च वक्क्रे ग्रीवायां दष्टायां न हि जीवति
daṇḍī śastradharo bhikṣurnagnādiḥ kāladūtakaḥ |
bāhau ca vakkre grīvāyāṃ daṣṭāyāṃ na hi jīvati
पूर्वं दिनपतिर्भुङ्क्ते अर्द्धयामं ततोऽपरे ।
शेषा ग्रहाः प्रतिदिनं षट्संख्या परिवर्त्तनैः
pūrvaṃ dinapatirbhuṅkte arddhayāmaṃ tato'pare |
śeṣā grahāḥ pratidinaṃ ṣaṭsaṃkhyā parivarttanaiḥ
नागभोगः क्रमाञ्ज्ञेयो रात्रौ बाणविवर्त्तनैः ।
शेषोऽर्कः फणिपश्चन्द्रस्तक्षको भौम ईरितः
nāgabhogaḥ kramāñjñeyo rātrau bāṇavivarttanaiḥ |
śeṣo'rkaḥ phaṇipaścandrastakṣako bhauma īritaḥ
कर्कोटो ज्ञो गुरुः पद्मो महापद्मश्च भार्गवः ।
शङ्खः शनैश्चरो राहुः कुलिकश्चाहयो ग्रहाः
karkoṭo jño guruḥ padmo mahāpadmaśca bhārgavaḥ |
śaṅkhaḥ śanaiścaro rāhuḥ kulikaścāhayo grahāḥ
रात्रौ दिवा सुरगुरोर्भागे स्यादमरान्तकः ।
पंगोः काले दिवा राहुः कुलिकेन सह स्थितः
rātrau divā suragurorbhāge syādamarāntakaḥ |
paṃgoḥ kāle divā rāhuḥ kulikena saha sthitaḥ
यामार्द्धसन्धिसंस्थां च वेलां कालवतीं चरेत् ।
बाणद्विषड्वह्निवाजियुगभूरेकभागतः
yāmārddhasandhisaṃsthāṃ ca velāṃ kālavatīṃ caret |
bāṇadviṣaḍvahnivājiyugabhūrekabhāgataḥ
दिवा षड्वेदनेत्राद्रिपञ्चत्रिमानुषांशकैः ।
पादांगुष्ठे पादपृष्ठे पादपृष्ठे गुल्फे जानुनि लिंगके
divā ṣaḍvedanetrādripañcatrimānuṣāṃśakaiḥ |
pādāṃguṣṭhe pādapṛṣṭhe pādapṛṣṭhe gulphe jānuni liṃgake
नाभौ हृदि स्तनतटे कण्ठे नासापुटेऽक्षिणि ।
कर्णयोश्च भ्रुवोः शंखे मस्तके प्रतिपत्क्रमात्
nābhau hṛdi stanataṭe kaṇṭhe nāsāpuṭe'kṣiṇi |
karṇayośca bhruvoḥ śaṃkhe mastake pratipatkramāt
तिष्ठच्चन्द्रश्च जीवेच्च पुंसो दक्षिणभागके ।
कायस्य वामभागे तु स्त्रिया वायुवहात्करात्
tiṣṭhaccandraśca jīvecca puṃso dakṣiṇabhāgake |
kāyasya vāmabhāge tu striyā vāyuvahātkarāt
अमृतस्तत्कृतो मोहो निवर्त्तेत च मर्दनात् ।
आत्मनः परमं बीजं हंसाख्यं स्फटिकामलम्
amṛtastatkṛto moho nivartteta ca mardanāt |
ātmanaḥ paramaṃ bījaṃ haṃsākhyaṃ sphaṭikāmalam
ज्ञातव्यं विषपापघ्नं बीजं तस्य चतुर्विधम् ।
विन्दुपंचस्वरयुतमाद्यमुक्तं द्वितीयकम् ।
षष्ठारूढं तृतीयं स्यात्सविसर्गं चतुर्थकम् ।
ॐ कुरु कुन्दे स्वाहा
jñātavyaṃ viṣapāpaghnaṃ bījaṃ tasya caturvidham |
vindupaṃcasvarayutamādyamuktaṃ dvitīyakam |
ṣaṣṭhārūḍhaṃ tṛtīyaṃ syātsavisargaṃ caturthakam |
oṃ kuru kunde svāhā
विद्या त्रैलोक्यरक्षार्थं गरुडेन धृता पुरा ।
वधेप्सुर्नागनागानां मुखेऽथ प्रणवं न्यसेत्
vidyā trailokyarakṣārthaṃ garuḍena dhṛtā purā |
vadhepsurnāganāgānāṃ mukhe'tha praṇavaṃ nyaset
गले कुरु न्यसेद्धीमान्कुले च गुल्फयोः स्मृतः ।
स्वाहा पादयुगे चैव युगहा न्यास ईरितः
gale kuru nyaseddhīmānkule ca gulphayoḥ smṛtaḥ |
svāhā pādayuge caiva yugahā nyāsa īritaḥ
गृहे विलिखिता यत्र तन्नागाः संत्यजन्ति च ।
सहस्त्रमन्त्रं जप्त्वा तु कर्णे सूत्रं धृतं तथा
gṛhe vilikhitā yatra tannāgāḥ saṃtyajanti ca |
sahastramantraṃ japtvā tu karṇe sūtraṃ dhṛtaṃ tathā
यद्गृहे शर्करा जप्ता क्षिप्ता नागास्त्यजन्ति तत् ।
सप्तलक्षस्य जप्याद्धि सिद्धिः प्राप्ता सुरासुरैः
yadgṛhe śarkarā japtā kṣiptā nāgāstyajanti tat |
saptalakṣasya japyāddhi siddhiḥ prāptā surāsuraiḥ
ॐ सुवर्णरेखे कुक्कुटविग्रहरूपिणि स्वाहा ।
एवञ्चाष्टदले पद्म दले वर्णयुगं लिखेत्
oṃ suvarṇarekhe kukkuṭavigraharūpiṇi svāhā |
evañcāṣṭadale padma dale varṇayugaṃ likhet
नामैतद्वारिधाराभिः स्न्नातो दष्टो विषं त्यजेत् ।
ॐ पक्षि स्वाहा
nāmaitadvāridhārābhiḥ snnāto daṣṭo viṣaṃ tyajet |
oṃ pakṣi svāhā
अंगुष्ठादि कनिष्ठान्तं करे न्यस्याथ देहके ।
के
वक्क्रे हृदि लिंगे च पादयोर्गरुडस्य हि
aṃguṣṭhādi kaniṣṭhāntaṃ kare nyasyātha dehake |
ke
vakkre hṛdi liṃge ca pādayorgaruḍasya hi
नाक्रामन्ति च तच्छायां स्वप्नेऽपि विषपन्नगाः ।
यस्तु लक्षं जपेच्चास्याः स दृष्ट्वा
नाशयेद्विषम्
nākrāmanti ca tacchāyāṃ svapne'pi viṣapannagāḥ |
yastu lakṣaṃ japeccāsyāḥ sa dṛṣṭvā
nāśayedviṣam
ॐ ह्री ह्रौ ह्रीं भि
रुण्डायै स्वाहा ।
कर्णे जप्ता त्वियं विद्या दष्टकस्य विषं हरेत्
oṃ hrī hrau hrīṃ bhi
ruṇḍāyai svāhā |
karṇe japtā tviyaṃ vidyā daṣṭakasya viṣaṃ haret
अ आ न्यसेत्तु पादाग्रे इ ई गुलफेऽथ जानुनि ।
उ ऊ ए ऐ कटितटे ओ नाभौ हृदि औ न्यसेत्
a ā nyasettu pādāgre i ī gulaphe'tha jānuni |
u ū e ai kaṭitaṭe o nābhau hṛdi au nyaset
वक्क्रे अमुत्तमांगे अः न्यसेद्वै हंससंयुताः ।
हंसो विषादि च हरेज्जप्तो ध्यातोऽथ पूजितः
vakkre amuttamāṃge aḥ nyasedvai haṃsasaṃyutāḥ |
haṃso viṣādi ca harejjapto dhyāto'tha pūjitaḥ
गरुडोऽहमिति ध्यात्वा कुर्य्याद्विषहरां
क्रियाम् ।
हंमन्त्रं गात्रविन्यस्तं विषादिहरमीरितम्
garuḍo'hamiti dhyātvā kuryyādviṣaharāṃ
kriyām |
haṃmantraṃ gātravinyastaṃ viṣādiharamīritam
न्यस्य हंसं वामकरे नासामुखनिरोधकृत् ।
मंत्रो हरेद्दष्टकस्य त्वङ्मांसादिगतं विषम्
nyasya haṃsaṃ vāmakare nāsāmukhanirodhakṛt |
maṃtro hareddaṣṭakasya tvaṅmāṃsādigataṃ viṣam
स वायुना समाकृष्य दष्टानां गरलं हरेत् ।
तनौ न्यसेद्दष्टकस्य नीलकण्ठादि संस्मरेत्
sa vāyunā samākṛṣya daṣṭānāṃ garalaṃ haret |
tanau nyaseddaṣṭakasya nīlakaṇṭhādi saṃsmaret
पीतं प्रत्यंगिरामूलं तण्डुलद्भिर्विषापहम् ।
पुनर्नवाफलिनीनां मूलं वक्क्रजमीदृशम्
pītaṃ pratyaṃgirāmūlaṃ taṇḍuladbhirviṣāpaham |
punarnavāphalinīnāṃ mūlaṃ vakkrajamīdṛśam
मूलं शुक्लबृहत्यास्तु कर्कोट्यागैरिकर्णिकम् ।
अद्भिर्घृष्टघृतोपेतलेपोऽयं विषमर्दनः
mūlaṃ śuklabṛhatyāstu karkoṭyāgairikarṇikam |
adbhirghṛṣṭaghṛtopetalepo'yaṃ viṣamardanaḥ
विषमृद्धिं न व्रजेच्च उष्णं पिबति यो घृतम् ।
पंचांगं तु शिरीषस्य मूलं गृंजनजं तथा
viṣamṛddhiṃ na vrajecca uṣṇaṃ pibati yo ghṛtam |
paṃcāṃgaṃ tu śirīṣasya mūlaṃ gṛṃjanajaṃ tathā
सर्वांगलेपतशचापि पानाद्वा विषहृद्भवेत् ।
ह्रीं गोनसादिविषहृत्
sarvāṃgalepataśacāpi pānādvā viṣahṛdbhavet |
hrīṃ gonasādiviṣahṛt
हृल्ललाटविसर्गान्तं ध्यातं वश्या दिकृद्भवेत् ।
न्यस्तं योनौ वशेत्कन्यां कुर्य्यान्मदजलाविलम्
hṛllalāṭavisargāntaṃ dhyātaṃ vaśyā dikṛdbhavet |
nyastaṃ yonau vaśetkanyāṃ kuryyānmadajalāvilam
जप्त्वा सप्ताष्टसाहस्त्रं गरुत्मानिव सर्वगः ।
कविः स्याच्छ्रुतिधरी च वश्याः स्त्रीश्चायुराप्नुयात् ।
विषहृत्स्यात्कथा तद्वन्मणिर्व्यासः स्मृतो ध्रुवम्
japtvā saptāṣṭasāhastraṃ garutmāniva sarvagaḥ |
kaviḥ syācchrutidharī ca vaśyāḥ strīścāyurāpnuyāt |
viṣahṛtsyātkathā tadvanmaṇirvyāsaḥ smṛto dhruvam
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)