पुनः सूर्य्यार्चनं वक्ष्ये यदुक्तं धनदाय हि ।
अष्टपत्रं लिखेत्पद्मं शुचौ देशे सकर्णिकम्
punaḥ sūryyārcanaṃ vakṣye yaduktaṃ dhanadāya hi |
aṣṭapatraṃ likhetpadmaṃ śucau deśe sakarṇikam
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सूर्यार्चन विधिर्नाम सप्तदशोऽध्यायः ॥
9 श्लोक · 17 में से 241
श्रीहरि सूर्यपूजा की एक और विधि बताते हैं, जो उन्होंने धनद कुबेर को सिखाई थी। पवित्र स्थान पर कर्णिका सहित अष्टदल कमल बनाया जाता है। आवाहनी मुद्रा से देवता बुलाए जाते हैं और मन्त्ररूप सूर्य खखोल्क की स्थापना होती है। सूर्य के अंग कोणों में रखे जाते हैं। ग्रह उन्हें घेरते हैं: ईशान में सोम, पूर्व में मंगल, आग्नेय में बुध, दक्षिण में बृहस्पति, नैर्ऋत्य में शुक्र, पश्चिम में शनि, वायव्य में केतु और उत्तर में राहु। दूसरे आवरण में बारह आदित्य नाम लेकर पूजे जाते हैं, भग से विष्णु तक। फिर दिक्पाल, जया, विजया, जयन्ती, अपराजिता और शेष तथा वासुकि नाग पूजे जाते हैं।
हरिरुवाच
पुनः सूर्य्यार्चनं वक्ष्ये यदुक्तं धनदाय हि ।
अष्टपत्रं लिखेत्पद्मं शुचौ देशे सकर्णिकम्
punaḥ sūryyārcanaṃ vakṣye yaduktaṃ dhanadāya hi |
aṣṭapatraṃ likhetpadmaṃ śucau deśe sakarṇikam
आवाहनीं ततो बद्धा मुद्रामावाहयेद्धरिम् ।
खखोल्कं स्थाप्य मुद्रां तु स्थापयेन्मन्त्ररूपिणीम्
āvāhanīṃ tato baddhā mudrāmāvāhayeddharim |
khakholkaṃ sthāpya mudrāṃ tu sthāpayenmantrarūpiṇīm
आग्नेय्यां दिशि देवस्य हृदयं स्थापयेच्छिव ।
ऐशान्यां तु शिरः स्थाप्यं नैर्ऋत्यां विन्यसेच्छिखाम्
āgneyyāṃ diśi devasya hṛdayaṃ sthāpayecchiva |
aiśānyāṃ tu śiraḥ sthāpyaṃ nairṛtyāṃ vinyasecchikhām
पौरन्दर्य्यां न्यसेद्धर्म्ममेकाग्रस्थितमानसः ।
वायव्यां चैव नेत्रं तु वारुण्यामस्त्रमेव च
paurandaryyāṃ nyaseddharmmamekāgrasthitamānasaḥ |
vāyavyāṃ caiva netraṃ tu vāruṇyāmastrameva ca
ऐशान्यां स्थापयेत्सोमं पौरन्दर्य्यां तु लोहितम् ।
आग्नेय्यां सोमतनयं याम्यां चैव बृहस्पतिम्
aiśānyāṃ sthāpayetsomaṃ paurandaryyāṃ tu lohitam |
āgneyyāṃ somatanayaṃ yāmyāṃ caiva bṛhaspatim
नैर्ऋत्यां दानवगुरुं वारुण्यां तु शनैश्चरम् ।
वायव्यां च तथा केतुं कौबेर्य्यां राहुमेव च
nairṛtyāṃ dānavaguruṃ vāruṇyāṃ tu śanaiścaram |
vāyavyāṃ ca tathā ketuṃ kauberyyāṃ rāhumeva ca
द्वितीयायां तु कक्षायां सूर्य्यान्द्वादश पूजयेत् ।
भगः सूर्य्योऽर्य्यमा चैव मित्रो वै वरुणस्तथा
dvitīyāyāṃ tu kakṣāyāṃ sūryyāndvādaśa pūjayet |
bhagaḥ sūryyo'ryyamā caiva mitro vai varuṇastathā
सविता चैव धाता च विवस्वांश्च महाबलः ।
त्वष्टा पूषा तथा चेन्द्रो द्वादशो विष्णुरुच्यते
savitā caiva dhātā ca vivasvāṃśca mahābalaḥ |
tvaṣṭā pūṣā tathā cendro dvādaśo viṣṇurucyate
पूर्वादावर्चयेद्देवानिन्द्रादीञ्छ्रद्धया नरः ।
जया च विजया चैव जयन्ति चापराजिता ।
शेषश्च वासुकिश्चैव नागानित्यादि पूजयेत्
pūrvādāvarcayeddevānindrādīñchraddhayā naraḥ |
jayā ca vijayā caiva jayanti cāparājitā |
śeṣaśca vāsukiścaiva nāgānityādi pūjayet
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)