पूर्व खण्ड — आचार काण्ड

अध्याय 169: आहार के गुण और अनुपान विधि

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे अनुपानादिविधिकथनं नामैकोनसप्तत्यधिकशततमोऽध्यायः ॥

65 श्लोक · 169 में से 241

इस अध्याय में क्या होता है

आहार के गुण और अनुपान विधि

हितकर और अहितकर पहचानने के लिए धन्वन्तरि आहार और तीनों दोषों पर उसके प्रभाव गिनाते हैं। लाल शालि चावल त्रिदोष शमन करता है, महाशालि बल देता है, श्यामाक सुखाता और वायु बढ़ाता है, जौ शीतल है और कफ व पित्त शान्त करता है, गेहूँ भारी, मीठा और पौष्टिक है तथा वात नाशक। मूँग हल्की है और रक्त व पित्त को शान्त करती है, उड़द बहुत बल देता है। फिर शाक, मसाले, लवण और क्षार आते हैं: काली मिर्च को अवृष्य कहा गया है, हींग शूल और वायु हरती है, सेंधा नमक नेत्रों के लिए हितकर और त्रिदोषशामक है, आकाश का जल हल्का और विषहर है। भोजन के बाद जल थकान और प्यास मिटाता है। अन्त में विषयुक्त भोजन के लक्षण बताए गए हैं।

धन्वन्तरिरुवाच

169.1

हिताहितविकेकाय अनुपानविधिं ब्रुवे ।
रक्तशालि त्रिदोषघ्नं तृष्णामेदोनिवारकम्

hitāhitavikekāya anupānavidhiṃ bruve |
raktaśāli tridoṣaghnaṃ tṛṣṇāmedonivārakam

169.2

महाशालि परं वृष्यं कलमः श्लेष्मपित्तहा ।
शीत्तो गुरुस्त्रिदोषघ्नः प्रायशो गौरषष्टिकः

mahāśāli paraṃ vṛṣyaṃ kalamaḥ śleṣmapittahā |
śītto gurustridoṣaghnaḥ prāyaśo gauraṣaṣṭikaḥ

169.3

श्यामाकः शोषणो रूक्षो वातलः श्लेष्मपित्तहा ।
तद्वत्प्रियङ्गुनीवारकोरदूषाः प्रकीर्तिताः

śyāmākaḥ śoṣaṇo rūkṣo vātalaḥ śleṣmapittahā |
tadvatpriyaṅgunīvārakoradūṣāḥ prakīrtitāḥ

169.4

बहुवारः सकृच्छीतः श्लेष्मपित्तहरो यवः ।
वृष्यः शीतो गुरुः स्वादुर्गोधूमो वातनाशनः

bahuvāraḥ sakṛcchītaḥ śleṣmapittaharo yavaḥ |
vṛṣyaḥ śīto guruḥ svādurgodhūmo vātanāśanaḥ

169.5

कफपित्तास्त्रजिन्मुद्गः कषायो मधुरोलघुः ।
माषो बहुबलो वृष्यः पित्तश्लेष्महरो गुरुः

kaphapittāstrajinmudgaḥ kaṣāyo madhurolaghuḥ |
māṣo bahubalo vṛṣyaḥ pittaśleṣmaharo guruḥ

169.6

अवृष्यः श्लेष्मपित्तघ्नो राजमाषोऽनिलार्तिनुत् ।
कुलत्थः श्वासहिक्काहृत्कफगुल्मानिलापहः

avṛṣyaḥ śleṣmapittaghno rājamāṣo'nilārtinut |
kulatthaḥ śvāsahikkāhṛtkaphagulmānilāpahaḥ

169.7

रक्तपित्तज्वरोन्माथो शीतो ग्राही मकुष्ठकः ।
पुंस्त्वासृक्कफपित्तघ्नश्चणको वातलः स्मृतः

raktapittajvaronmātho śīto grāhī makuṣṭhakaḥ |
puṃstvāsṛkkaphapittaghnaścaṇako vātalaḥ smṛtaḥ

169.8

मसूरो मधुरः शीव संग्रही कफपित्तहा ।
तद्वत्सर्वगुणाढ्यश्च कलायश्चातिवातलः

masūro madhuraḥ śīva saṃgrahī kaphapittahā |
tadvatsarvaguṇāḍhyaśca kalāyaścātivātalaḥ

169.9

आग्की कफपित्तघ्नो शुक्रला च तथा स्मृता ।
अतसी पित्तला ज्ञेया सिद्धार्थः कफवातजित्

āgkī kaphapittaghno śukralā ca tathā smṛtā |
atasī pittalā jñeyā siddhārthaḥ kaphavātajit

169.10

सक्षारमधुरस्निग्धो बलोष्णपित्तकृत्तिलः ।
बलघ्ना रूक्षलाः शीता विविधाः सस्यजातयः

sakṣāramadhurasnigdho baloṣṇapittakṛttilaḥ |
balaghnā rūkṣalāḥ śītā vividhāḥ sasyajātayaḥ

169.11

चित्रकेङ्गुदिनालीकाः पिप्पलीमधुशिग्रवः ।
चव्याचरणनिर्गुण्डीतर्कारीकाशमर्दकाः

citrakeṅgudinālīkāḥ pippalīmadhuśigravaḥ |
cavyācaraṇanirguṇḍītarkārīkāśamardakāḥ

169.12

सबिल्वाः कफपित्तघ्नाः क्रिमिघ्ना लघुदीपकाः ।
वर्षाभूमार्करौ वातकफघ्नौ दोषनाशनौ

sabilvāḥ kaphapittaghnāḥ krimighnā laghudīpakāḥ |
varṣābhūmārkarau vātakaphaghnau doṣanāśanau

169.13

तिक्तरसः स्यादेरण्डः काकमाची त्रिदोषहृत् ।
चाङ्गेरी कफवातघ्नी सर्षपः सर्वदोषदम्

tiktarasaḥ syāderaṇḍaḥ kākamācī tridoṣahṛt |
cāṅgerī kaphavātaghnī sarṣapaḥ sarvadoṣadam

169.14

तद्वदेव च कौस्मसुम्भं राजिका वातपित्तला ।
नाडीचः कफपित्तघ्नः चुचुर्मधुरशीतलः

tadvadeva ca kausmasumbhaṃ rājikā vātapittalā |
nāḍīcaḥ kaphapittaghnaḥ cucurmadhuraśītalaḥ

169.15

दोषघ्नं पद्मपत्रञ्च त्रिपुटं वातकृत्परम् ।
सक्षारः सर्वदोषघ्नो वास्तुको रोचनः परः

doṣaghnaṃ padmapatrañca tripuṭaṃ vātakṛtparam |
sakṣāraḥ sarvadoṣaghno vāstuko rocanaḥ paraḥ

169.16

तण्डुकीयोविपहरः पालङ्क्याश्च तथापरे ।
मूलकं दोषकृच्छामं स्विन्नं वातकफापदम्

taṇḍukīyovipaharaḥ pālaṅkyāśca tathāpare |
mūlakaṃ doṣakṛcchāmaṃ svinnaṃ vātakaphāpadam

169.17

सर्वदोषहरं ह्यद्यं कण्ठ्यं तत्पक्वमिष्यते ।
कर्कोटकं सवार्ताकं पदोलं कारवेल्लकम्

sarvadoṣaharaṃ hyadyaṃ kaṇṭhyaṃ tatpakvamiṣyate |
karkoṭakaṃ savārtākaṃ padolaṃ kāravellakam

169.18

कुष्ठमेहज्वरश्वासकासपित्तकफापहम् ।
सर्वदोषहरं हृद्यं कूष्माण्डं बस्तिशोधनम्

kuṣṭhamehajvaraśvāsakāsapittakaphāpaham |
sarvadoṣaharaṃ hṛdyaṃ kūṣmāṇḍaṃ bastiśodhanam

169.19

कलिङ्गालाबुनी पित्तनाशिनी वातकारिणी ।
त्रपुषोर्वारुके वातश्लेष्मले पित्तवारणे

kaliṅgālābunī pittanāśinī vātakāriṇī |
trapuṣorvāruke vātaśleṣmale pittavāraṇe

169.20

वृक्षाम्लं कफवातघ्नं जम्बीरं कफवातनुत् ।
वातघ्नं दाडिमं ग्राहि नागरङ्गफलं गुरु

vṛkṣāmlaṃ kaphavātaghnaṃ jambīraṃ kaphavātanut |
vātaghnaṃ dāḍimaṃ grāhi nāgaraṅgaphalaṃ guru

169.21

केशरं मातुलुङ्गं च दीपनं कफवातनुत् ।
वातपित्तहरो माषस्त्वक्स्निग्धोष्णानिलापहः

keśaraṃ mātuluṅgaṃ ca dīpanaṃ kaphavātanut |
vātapittaharo māṣastvaksnigdhoṣṇānilāpahaḥ

169.22

सरमामलकं वृष्यं मधुरं हृद्यमम्लकृत् ।
भुक्तप्ररोचका पुण्या हरीतक्यमृतोपमा

saramāmalakaṃ vṛṣyaṃ madhuraṃ hṛdyamamlakṛt |
bhuktaprarocakā puṇyā harītakyamṛtopamā

169.23

स्त्रंसनी कफवातघ्नी ह्यक्षस्तद्वत्त्रिदोषजित् ।
वातश्लेष्महरं त्वम्लं स्त्रंसनं तिन्तिडीफलम्

straṃsanī kaphavātaghnī hyakṣastadvattridoṣajit |
vātaśleṣmaharaṃ tvamlaṃ straṃsanaṃ tintiḍīphalam

169.24

दोषलं लकुचं स्वादु बकुलं कफवातजित् ।
गुल्मवातकफश्वासकासघ्नं बीजपूरकम्

doṣalaṃ lakucaṃ svādu bakulaṃ kaphavātajit |
gulmavātakaphaśvāsakāsaghnaṃ bījapūrakam

169.25

कपित्थं ग्राहि दोषघ्नं पक्वं गुरु विषापहम् ।
कफपित्तकरं बालमापूर्णं पित्तवर्धनम्

kapitthaṃ grāhi doṣaghnaṃ pakvaṃ guru viṣāpaham |
kaphapittakaraṃ bālamāpūrṇaṃ pittavardhanam

169.26

पक्वाम्रं वातकृन्मांसशुक्रवर्णबलप्रदम् ।
वातघ्नं कफपित्तघ्नं ग्राहि विष्टम्भि जाम्बवम्

pakvāmraṃ vātakṛnmāṃsaśukravarṇabalapradam |
vātaghnaṃ kaphapittaghnaṃ grāhi viṣṭambhi jāmbavam

169.27

तिन्दुकं कफवातघ्नं बदरं वातपित्तहृत् ।
विष्टम्भि वातलं बिल्वं प्रियालं पवनापहम्

tindukaṃ kaphavātaghnaṃ badaraṃ vātapittahṛt |
viṣṭambhi vātalaṃ bilvaṃ priyālaṃ pavanāpaham

169.28

राजादनफलं मोचं पनसं नारिकेलजम् ।
शुक्रमांसकराण्याहुः स्वादुस्निग्धगुरूणि च

rājādanaphalaṃ mocaṃ panasaṃ nārikelajam |
śukramāṃsakarāṇyāhuḥ svādusnigdhagurūṇi ca

169.29

द्राक्षामधूकखर्जूरं कुङ्कुमं वातरक्तजित् ।
मागधी मधुरा पक्वा श्वासपित्तहरा परा

drākṣāmadhūkakharjūraṃ kuṅkumaṃ vātaraktajit |
māgadhī madhurā pakvā śvāsapittaharā parā

169.30

आर्द्रकं रोचकं वृष्यं दीपनं कफवातहृत् ।
शुण्ठीमरिचपिप्पल्यः कफवातजितो मताः

ārdrakaṃ rocakaṃ vṛṣyaṃ dīpanaṃ kaphavātahṛt |
śuṇṭhīmaricapippalyaḥ kaphavātajito matāḥ

169.31

अवृष्यं मरिचं विद्यादिति वैद्यकसंमतम् ।
गुल्मशूलविबन्धघ्नं हिङ्गुवातकफापहम्

avṛṣyaṃ maricaṃ vidyāditi vaidyakasaṃmatam |
gulmaśūlavibandhaghnaṃ hiṅguvātakaphāpaham

169.32

यवानीधन्यकाजाज्यः वातश्लेष्मनुदः परम् ।
चक्षुष्यं सैन्धवं वृष्यं त्रिदोषशमनं स्मृतम्

yavānīdhanyakājājyaḥ vātaśleṣmanudaḥ param |
cakṣuṣyaṃ saindhavaṃ vṛṣyaṃ tridoṣaśamanaṃ smṛtam

169.33

सौवर्चलं विबन्धघ्नमुष्णं हृच्छूलनाशनम् ।
उष्णं शूलहरं तीक्ष्णं विडङ्गं वातनाशनम्

sauvarcalaṃ vibandhaghnamuṣṇaṃ hṛcchūlanāśanam |
uṣṇaṃ śūlaharaṃ tīkṣṇaṃ viḍaṅgaṃ vātanāśanam

169.34

रोमकं वातलं स्वादु रोचनं क्लेदनं गुरु ।
हृत्पाण्डुगलरोगघ्नं यवक्षारोऽग्निदीपनः

romakaṃ vātalaṃ svādu rocanaṃ kledanaṃ guru |
hṛtpāṇḍugalarogaghnaṃ yavakṣāro'gnidīpanaḥ

169.35

दहनो दीपनस्तीक्ष्णः सर्जिक्षारो विदारणः ।
दोषघ्नं नाभसं वारिलघु हृद्यं विषापहम्

dahano dīpanastīkṣṇaḥ sarjikṣāro vidāraṇaḥ |
doṣaghnaṃ nābhasaṃ vārilaghu hṛdyaṃ viṣāpaham

169.36

नादेयं वातलं रूक्षं सारसं मदुर लघु ।
वातश्लेष्महरं वार्प्यं ताडागं वातलं स्मृतम्

nādeyaṃ vātalaṃ rūkṣaṃ sārasaṃ madura laghu |
vātaśleṣmaharaṃ vārpyaṃ tāḍāgaṃ vātalaṃ smṛtam

169.37

रौच्यमग्निकरं रूक्षं कफघ्नंलघु नैर्झरम् ।
दीपनं पित्तलं कौपमौद्भिदं पित्तनाशनम्

raucyamagnikaraṃ rūkṣaṃ kaphaghnaṃlaghu nairjharam |
dīpanaṃ pittalaṃ kaupamaudbhidaṃ pittanāśanam

169.38

दिवार्ककिरणैर्जुष्टं रात्रौ चैवेन्दुरश्मिभिः ।
सर्वदोषविनिर्मुक्तं तत्तुल्यं गगनाम्बुना

divārkakiraṇairjuṣṭaṃ rātrau caivenduraśmibhiḥ |
sarvadoṣavinirmuktaṃ tattulyaṃ gaganāmbunā

169.39

उष्णं वारि ज्वरश्वासमेदोऽनिलकफापहम् ।
शृतं शीतत्रिदोषघ्नमुषितं तच्च दोषलम्

uṣṇaṃ vāri jvaraśvāsamedo'nilakaphāpaham |
śṛtaṃ śītatridoṣaghnamuṣitaṃ tacca doṣalam

169.40

गोक्षीरं वातपित्तग्नं स्निग्धं गुरुरसायनम् ।
गव्याद्गुरुतरं स्निग्धं माहिष्वह्निनाशनम्

gokṣīraṃ vātapittagnaṃ snigdhaṃ gururasāyanam |
gavyādgurutaraṃ snigdhaṃ māhiṣvahnināśanam

169.41

छागं रक्तातिसारघ्नं कासश्वासकफापहम् ।
चक्षुष्यं जीवनं स्त्रीणां रक्तपित्ते चनावनम्

chāgaṃ raktātisāraghnaṃ kāsaśvāsakaphāpaham |
cakṣuṣyaṃ jīvanaṃ strīṇāṃ raktapitte canāvanam

169.42

परं वातहरं वृष्यं पित्तश्लेष्मकरं दधि ।
दोषघ्नं मन्थजातन्तु मस्तु स्रोतोविशोधनम्

paraṃ vātaharaṃ vṛṣyaṃ pittaśleṣmakaraṃ dadhi |
doṣaghnaṃ manthajātantu mastu srotoviśodhanam

169.43

ग्रहण्यर्शोऽर्दितार्तिघ्नं नवनीतं नवोद्धृतम् ।
विकाराश्च किलाटाद्या गुरवः कुष्ठहेतवः

grahaṇyarśo'rditārtighnaṃ navanītaṃ navoddhṛtam |
vikārāśca kilāṭādyā guravaḥ kuṣṭhahetavaḥ

169.44

परं ग्रहणीशोथार्शः पाण्ड्वतीसारगुल्मनुत् ।
त्रिदोषशमनं तक्रं कथितं पूर्वसूरिभिः

paraṃ grahaṇīśothārśaḥ pāṇḍvatīsāragulmanut |
tridoṣaśamanaṃ takraṃ kathitaṃ pūrvasūribhiḥ

169.45

वृष्यञ्च मधुरं सर्पिर्वातपित्तकफापहम् ।
गव्यं मेध्यञ्च चाक्षुष्यं संस्काराच्च त्रिदोषजित्

vṛṣyañca madhuraṃ sarpirvātapittakaphāpaham |
gavyaṃ medhyañca cākṣuṣyaṃ saṃskārācca tridoṣajit

169.46

अपस्मारगदोन्मादमूर्छाघ्नं संस्कृतङ्घृतम् ।
अजादीनाञ्च सर्पोषि विद्याद्गोक्षीरसद्गुणैः ।
कफवातहरं मूत्रं सर्वक्रिमिविषापहम्

apasmāragadonmādamūrchāghnaṃ saṃskṛtaṅghṛtam |
ajādīnāñca sarpoṣi vidyādgokṣīrasadguṇaiḥ |
kaphavātaharaṃ mūtraṃ sarvakrimiviṣāpaham

169.47

पाण्डुत्वोदरकुष्ठार्शः शोथगुल्मप्रमेहनुत् ।
वातश्लेष्महरं बल्यं तैलं कश्यं तिलोद्भवम्

pāṇḍutvodarakuṣṭhārśaḥ śothagulmapramehanut |
vātaśleṣmaharaṃ balyaṃ tailaṃ kaśyaṃ tilodbhavam

169.48

सार्षपं कृमिपाण्डुघ्नं कफमेदोऽनिलापहम् ।
क्षौमं तैलमचक्षुष्यं पित्तहृद्वातनाशनम्

sārṣapaṃ kṛmipāṇḍughnaṃ kaphamedo'nilāpaham |
kṣaumaṃ tailamacakṣuṣyaṃ pittahṛdvātanāśanam

169.49

अक्षजं कफपित्तघ्नं केश्यं त्वक्श्रोत्रतर्पणम् ।
त्रिदोषघ्नं मधु प्रोक्तं वातलञ्च प्रकीर्तितम्

akṣajaṃ kaphapittaghnaṃ keśyaṃ tvakśrotratarpaṇam |
tridoṣaghnaṃ madhu proktaṃ vātalañca prakīrtitam

169.50

हिक्काश्वासकृमिच्छर्दिमेहतृष्णाविषामहम् ।
इक्षवोरक्तपित्तघ्नो बल्या वृष्याः कफप्रदाः

hikkāśvāsakṛmicchardimehatṛṣṇāviṣāmaham |
ikṣavoraktapittaghno balyā vṛṣyāḥ kaphapradāḥ

169.51

फाणितं पित्तलं तव्रिं सुरा मत्स्यण्डिका लघुः ।
खण्डं वृष्यं तथा स्निग्धं स्वाद्वसृक्पित्तवातजित्

phāṇitaṃ pittalaṃ tavriṃ surā matsyaṇḍikā laghuḥ |
khaṇḍaṃ vṛṣyaṃ tathā snigdhaṃ svādvasṛkpittavātajit

169.52

वातपित्तहरो रूक्षो वातघ्नः कफकृद्गुडः ।
स पित्तघ्नः परः पथ्यः पुराणोऽसृक्प्रसादनः

vātapittaharo rūkṣo vātaghnaḥ kaphakṛdguḍaḥ |
sa pittaghnaḥ paraḥ pathyaḥ purāṇo'sṛkprasādanaḥ

169.53

रक्तिपित्तहरा वृष्या सस्नेहा गडशर्करा ।
सर्वपित्तकरं मद्यमम्लत्वात्कफवातजित्

raktipittaharā vṛṣyā sasnehā gaḍaśarkarā |
sarvapittakaraṃ madyamamlatvātkaphavātajit

169.54

रक्तपित्तकरास्तीक्ष्णास्तथा सौवीरजातयः ।
पाचनो दीपनः पथ्यो मण्डः स्याद्भृष्टतण्डुलः

raktapittakarāstīkṣṇāstathā sauvīrajātayaḥ |
pācano dīpanaḥ pathyo maṇḍaḥ syādbhṛṣṭataṇḍulaḥ

169.55

वातानुलोमनी लघ्वी पेया वस्तिविशोधनी ।
सतक्रदाडिमव्योषा सगुडा मधुपिप्पली

vātānulomanī laghvī peyā vastiviśodhanī |
satakradāḍimavyoṣā saguḍā madhupippalī

169.56

इन्तीयं सुकृता पेया कासश्वा सप्रवाहिकाः ।
पायसः कफकृद्बल्यः कृशरा वातनाशिनी

intīyaṃ sukṛtā peyā kāsaśvā sapravāhikāḥ |
pāyasaḥ kaphakṛdbalyaḥ kṛśarā vātanāśinī

169.57

सुधौतः प्रस्त्रुतः स्निग्धः सुखोष्णो लघुरोचनः ।
कन्दमूलफलेहैः साधितो बृंहणोगुरुः

sudhautaḥ prastrutaḥ snigdhaḥ sukhoṣṇo laghurocanaḥ |
kandamūlaphalehaiḥ sādhito bṛṃhaṇoguruḥ

169.58

ईषदुष्णसेवनाच्च लघुः सूपः सुसाधितः ।
स्विन्न निष्पीडितं शाकं हितं स्नेहादिसंस्कृतम्

īṣaduṣṇasevanācca laghuḥ sūpaḥ susādhitaḥ |
svinna niṣpīḍitaṃ śākaṃ hitaṃ snehādisaṃskṛtam

169.59

दाडिमामलकैर्यूषो वह्निकृद्वातपित्तहा ।
श्वासकासप्रतिश्यायकफघ्नो मलकैः कृतः

dāḍimāmalakairyūṣo vahnikṛdvātapittahā |
śvāsakāsapratiśyāyakaphaghno malakaiḥ kṛtaḥ

169.60

यवकोलकुलत्थानां यूषः कण्ठ्योऽनिलापहः ।
मुद्गामलकजो ग्राही श्लेष्मपित्तविनाशनः

yavakolakulatthānāṃ yūṣaḥ kaṇṭhyo'nilāpahaḥ |
mudgāmalakajo grāhī śleṣmapittavināśanaḥ

169.61

सगुडं दधि वातघ्नं सक्तवो रूक्षवातुलाः ।
घृतपूर्णोऽग्निकारी स्याद्वृष्या गुर्वो च शष्कुली

saguḍaṃ dadhi vātaghnaṃ saktavo rūkṣavātulāḥ |
ghṛtapūrṇo'gnikārī syādvṛṣyā gurvo ca śaṣkulī

169.62

बृंहणाः सामिषा भक्ष्यपिष्ट का गुखः स्मृताः ।
तैलसिद्धाश्च दृष्टिघ्नास्तोयस्विन्नाश्च दुर्जराः

bṛṃhaṇāḥ sāmiṣā bhakṣyapiṣṭa kā gukhaḥ smṛtāḥ |
tailasiddhāśca dṛṣṭighnāstoyasvinnāśca durjarāḥ

169.63

अत्युष्णा मण्डकाः पथ्याः शीतला गुखो मताः ।
अनुपानञ्च पानीयं श्रमतृष्णादिनाशनम्

atyuṣṇā maṇḍakāḥ pathyāḥ śītalā gukho matāḥ |
anupānañca pānīyaṃ śramatṛṣṇādināśanam

169.64

अन्नपानादिना रक्षा कृत्स्याद्रोगवर्जितः ।
अनुष्णः शिखिकण्ठाभो विषञ्चैव विवर्णकृत्

annapānādinā rakṣā kṛtsyādrogavarjitaḥ |
anuṣṇaḥ śikhikaṇṭhābho viṣañcaiva vivarṇakṛt

169.65

गन्धस्पर्शरसास्तीव्राभोक्तुश्च स्यान्मनोव्यथा ।
आघ्राणे चाक्षिरोगः स्यादसाध्यश्च भिषग्वरैः ।
वेपथुर्जृम्भणाद्यं स्याद्विषस्यैतत्तु लक्षणम्

gandhasparśarasāstīvrābhoktuśca syānmanovyathā |
āghrāṇe cākṣirogaḥ syādasādhyaśca bhiṣagvaraiḥ |
vepathurjṛmbhaṇādyaṃ syādviṣasyaitattu lakṣaṇam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)