क्रिमयश्च द्विधा प्रोक्ता बाह्यभ्यन्तरभेदतः ।
बहिर्मलकफासृग्विट्जन्मभेदाच्चतुर्विधाः
krimayaśca dvidhā proktā bāhyabhyantarabhedataḥ |
bahirmalakaphāsṛgviṭjanmabhedāccaturvidhāḥ
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे क्रिमिनिदानं नाम पञ्चषष्ठ्यधिकशततमोऽध्यायः ॥
14 श्लोक · 165 में से 241
कृमियों पर यह छोटा अध्याय है। धन्वन्तरि उन्हें बाहरी और भीतरी में बाँटते हैं, और उत्पत्ति के अनुसार चार में: मल, कफ, रक्त और पुरीष से, कुल बीस प्रकार। बाहरी कृमि जूँ और लीख हैं, तिल जितने छोटे, जो बालों और वस्त्रों में रहते हैं। कफज कृमि मीठे अन्न, गुड़, दूध, दही, मछली और नए चावल से आमाशय में पनपते हैं; कुछ पट्टी जैसे चौड़े, कुछ केंचुए या अंकुरित धान जैसे होते हैं, और जी मिचलाना, ज्वर, वमन और दुर्बलता लाते हैं। रक्तज कृमि सूक्ष्म, गोल और ताँबे के रंग के होते हैं, प्रायः दिखते नहीं; वे बाल खाते और कुष्ठ बढ़ाते हैं। पुरीषज कृमि पक्वाशय में पलते हैं और ऊपर चढ़ने पर श्वास में मल की गन्ध लाते हैं।
धन्वन्तरिरुवाच
क्रिमयश्च द्विधा प्रोक्ता बाह्यभ्यन्तरभेदतः ।
बहिर्मलकफासृग्विट्जन्मभेदाच्चतुर्विधाः
krimayaśca dvidhā proktā bāhyabhyantarabhedataḥ |
bahirmalakaphāsṛgviṭjanmabhedāccaturvidhāḥ
नामतो विंशतिविधा बाह्यास्तत्र मलोद्भवाः ।
तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः
nāmato viṃśatividhā bāhyāstatra malodbhavāḥ |
tilapramāṇasaṃsthānavarṇāḥ keśāmbarāśrayāḥ
बहुपादाश्च सूक्ष्माश्च यूका लिक्षाश्च नामतः ।
द्विधा ते कोष्ठपिडिकाः कण्डूगण्डान्प्रकुर्वते
bahupādāśca sūkṣmāśca yūkā likṣāśca nāmataḥ |
dvidhā te koṣṭhapiḍikāḥ kaṇḍūgaṇḍānprakurvate
कुष्ठैकहेतवोऽन्तर्जाः श्लेष्मजा बाह्यसम्भवाः ।
मधुरान्नगुडक्षीरदधिमत्स्यनवौदनैः
kuṣṭhaikahetavo'ntarjāḥ śleṣmajā bāhyasambhavāḥ |
madhurānnaguḍakṣīradadhimatsyanavaudanaiḥ
कफादामाशये जाता वृद्धाः सर्पन्ति सर्वतः ।
पृथुब्रध्ननिभाः केचित्केचिद्गण्डूपदोपमाः
kaphādāmāśaye jātā vṛddhāḥ sarpanti sarvataḥ |
pṛthubradhnanibhāḥ kecitkecidgaṇḍūpadopamāḥ
रूढधान्याङ्कुराकारास्तनुदीर्घास्तथाणवः ।
श्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते
rūḍhadhānyāṅkurākārāstanudīrghāstathāṇavaḥ |
śvetāstāmrāvabhāsāśca nāmataḥ saptadhā tu te
अन्त्रादा उदरावेष्टा हृदयादा महागुदाः ।
च्युरवो दर्भकुसुमाः सुगन्धास्ते च कुर्वते
antrādā udarāveṣṭā hṛdayādā mahāgudāḥ |
cyuravo darbhakusumāḥ sugandhāste ca kurvate
हृल्लासमास्यश्रवणमविपाकमरोचकम् ।
मूर्छाच्छर्दिज्वरानाहकार्श्यक्षवथुपीनसान्
hṛllāsamāsyaśravaṇamavipākamarocakam |
mūrchācchardijvarānāhakārśyakṣavathupīnasān
रक्तवाहिशिरास्थानरक्तजा जन्तवोऽणवः ।
अपादा वृत्तताम्राश्च सौक्ष्म्यात्केचिददर्शनाः
raktavāhiśirāsthānaraktajā jantavo'ṇavaḥ |
apādā vṛttatāmrāśca saukṣmyātkecidadarśanāḥ
केशादा रोमविध्वंसा रोमद्वीपा उदुम्बराः ।
षट्ते कुष्ठैककर्माणः सहसौरसमातरः
keśādā romavidhvaṃsā romadvīpā udumbarāḥ |
ṣaṭte kuṣṭhaikakarmāṇaḥ sahasaurasamātaraḥ
पक्वाशये पुरीषोत्था जायन्तेऽथोविसर्पिणः ।
वृद्धास्ते स्युर्भवेयुश्च ते यदामाशयोन्मुखाः
pakvāśaye purīṣotthā jāyante'thovisarpiṇaḥ |
vṛddhāste syurbhaveyuśca te yadāmāśayonmukhāḥ
तदास्योद्गारनिः श्वामविड्गन्धानुविधायिनः ।
पृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः
tadāsyodgāraniḥ śvāmaviḍgandhānuvidhāyinaḥ |
pṛthuvṛttatanusthūlāḥ śyāvapītasitāsitāḥ
ते पञ्चनाम्ना क्रिमयः ककेरुकमकेरुकाः ।
सौसुरादाः सशूलाख्या लेलिहा जनयन्ति हि
te pañcanāmnā krimayaḥ kakerukamakerukāḥ |
sausurādāḥ saśūlākhyā lelihā janayanti hi
वङ्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः ।
रोमहर्षाग्निसदनं गुदकण्डूंर्विमार्गगाः
vaṅbhedaśūlaviṣṭambhakārśyapāruṣyapāṇḍutāḥ |
romaharṣāgnisadanaṃ gudakaṇḍūṃrvimārgagāḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)