पूर्व खण्ड — आचार काण्ड

अध्याय 164: कुष्ठ, त्वचा के रोग

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कुष्ठरोगनिदान नाम चतुः षष्ट्युत्तरशततमोऽध्यायः ॥

41 श्लोक · 164 में से 241

इस अध्याय में क्या होता है

कुष्ठ, त्वचा के रोग

धन्वन्तरि कहते हैं कि कुष्ठ गलत और विरोधी आहार-विहार से होता है, और पाप कर्मों से भी: सज्जनों की निन्दा, हिंसा, चोरी और पूर्व जन्म के कर्म। ये दोषों को शिराओं में धकेलते हैं, जहाँ वे त्वचा, रक्त और मांस को दूषित करते, त्वचा का रंग बिगाड़ते और उपेक्षा होने पर सूक्ष्म कृमि उत्पन्न कर भीतर तक फैलते हैं। वे सात महाकुष्ठ और ग्यारह क्षुद्र कुष्ठ उनके रूप से बताते हैं: ठीकरे जैसा कपाल, हिरन की जीभ जैसा ऋष्यजिह्व, हाथी की खाल जैसा चर्मकुष्ठ, मछली के छिलकों जैसा किटिम, खुजली वाले उभरे मण्डलों का दद्रु और अन्य। अन्त में श्वित्र आता है, न रिसने वाले श्वेत धब्बे; काले रोम वाले नए धब्बे साध्य हैं। ऐसे रोग प्रायः स्पर्श, साथ भोजन, शय्या और वस्त्र से फैलते हैं।

धन्वन्तरिरुवाच

164.1

मिथ्याहारविहारेण विशेषेण विरोधिना ।
साधुनिन्दावधाद्युद्धहरणाद्यैश्च सेवितैः

mithyāhāravihāreṇa viśeṣeṇa virodhinā |
sādhunindāvadhādyuddhaharaṇādyaiśca sevitaiḥ

164.2

पाप्मभिः कर्मभिः सद्यः प्राक्तनैः प्रेरितामलाः ।
शिराः प्रपद्य तैर्युक्तास्त्वग्वसारक्तमामिषम्

pāpmabhiḥ karmabhiḥ sadyaḥ prāktanaiḥ preritāmalāḥ |
śirāḥ prapadya tairyuktāstvagvasāraktamāmiṣam

164.3

दूषयन्ति च संशोष्य निश्चरन्तस्ततो बहिः ।
त्वचः कुर्वान्ति वैवर्ण्यं शिष्टाः कुष्ठमुशन्तितम्

dūṣayanti ca saṃśoṣya niścarantastato bahiḥ |
tvacaḥ kurvānti vaivarṇyaṃ śiṣṭāḥ kuṣṭhamuśantitam

164.4

कालेनोपेक्षितं यत्स्यात्सर्वं कोष्ठानि तद्वपुः ।
प्रपद्य धातून्बाह्यान्तः सर्वान्संक्लेद्य चावहेत्

kālenopekṣitaṃ yatsyātsarvaṃ koṣṭhāni tadvapuḥ |
prapadya dhātūnbāhyāntaḥ sarvānsaṃkledya cāvahet

164.5

सस्वेदक्लेदसङ्कोचान्कृमीन् सूक्ष्मांश्चदारुणान् ।
लोमत्वक्स्नायुधमनीराक्रामति यथाक्रमम्

sasvedakledasaṅkocānkṛmīn sūkṣmāṃścadāruṇān |
lomatvaksnāyudhamanīrākrāmati yathākramam

164.6

भस्माच्छादितवत्कुर्याद्बाह्यं कुष्ठमुदाहृतम् ।
कुष्ठानि सप्तधा दोषैः पृथग्द्वन्द्वैः समागतैः

bhasmācchāditavatkuryādbāhyaṃ kuṣṭhamudāhṛtam |
kuṣṭhāni saptadhā doṣaiḥ pṛthagdvandvaiḥ samāgataiḥ

164.7

सर्वेष्वपि त्रिदोषेषु व्यपदेशोऽधिकस्ततः ।
वातेन कुष्ठं कापालं पित्तेनौदुम्बरं कफात्

sarveṣvapi tridoṣeṣu vyapadeśo'dhikastataḥ |
vātena kuṣṭhaṃ kāpālaṃ pittenaudumbaraṃ kaphāt

164.8

मण्डलाख्यं विचर्चो च ऋष्याख्यं वातपित्तजम् ।
चर्मैककुष्ठं किटिमं सिध्मालसविपादिकाः

maṇḍalākhyaṃ vicarco ca ṛṣyākhyaṃ vātapittajam |
carmaikakuṣṭhaṃ kiṭimaṃ sidhmālasavipādikāḥ

164.9

वातश्लेष्मोद्भवाः श्लेष्मपित्ताद्दद्रूशतारुषी ।
पुण्डरीकं सविस्फोटं पामा चर्मदलं तथा

vātaśleṣmodbhavāḥ śleṣmapittāddadrūśatāruṣī |
puṇḍarīkaṃ savisphoṭaṃ pāmā carmadalaṃ tathā

164.10

सर्वेभ्यः काकणं पूर्वत्रिकं दद्रु सकाकणम् ।
पुण्डरीकर्यजिह्वे च महाकुष्ठानि सप्त तु

sarvebhyaḥ kākaṇaṃ pūrvatrikaṃ dadru sakākaṇam |
puṇḍarīkaryajihve ca mahākuṣṭhāni sapta tu

164.11

अतिश्लक्ष्णखरस्पर्शस्वेदास्वेदविवर्णताः ।
दाहः कण्डूस्त्वचि स्वापस्तोदः कोचोन्नतिस्तमः

atiślakṣṇakharasparśasvedāsvedavivarṇatāḥ |
dāhaḥ kaṇḍūstvaci svāpastodaḥ koconnatistamaḥ

164.12

व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः ।
रूढानामपि रूक्षत्वं निमित्तेऽल्पेऽतिकोपनम्

vraṇānāmadhikaṃ śūlaṃ śīghrotpattiścirasthitiḥ |
rūḍhānāmapi rūkṣatvaṃ nimitte'lpe'tikopanam

164.13

रोमहर्षोऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम् ।
कृष्णारुणकपालाभं यद्रूक्षं परुषं तनु

romaharṣo'sṛjaḥ kārṣṇyaṃ kuṣṭhalakṣaṇamagrajam |
kṛṣṇāruṇakapālābhaṃ yadrūkṣaṃ paruṣaṃ tanu

164.14

विस्तृताकृतिपर्यस्तन्दूषितैर्लोमभिश्चितम् ।
कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम्

vistṛtākṛtiparyastandūṣitairlomabhiścitam |
kāpālaṃ todabahulaṃ tatkuṣṭhaṃ viṣamaṃ smṛtam

164.15

उदुम्बरफलाभासं कुष्ठमौदुम्बरं वदेत् ।
वर्तुलं बहुलकेत्युक्तं दाहरुजाधिकम्

udumbaraphalābhāsaṃ kuṣṭhamaudumbaraṃ vadet |
vartulaṃ bahulaketyuktaṃ dāharujādhikam

164.16

असंच्छन्नमदरणं कृमिवत्स्यादुदुम्बरम् ।
स्थिरं सत्यानं गुरु स्निग्धं श्वेतरक्तं मलान्वितम्

asaṃcchannamadaraṇaṃ kṛmivatsyādudumbaram |
sthiraṃ satyānaṃ guru snigdhaṃ śvetaraktaṃ malānvitam

164.17

अन्योन्यसक्तपुच्छूनबहुकण्डूस्नुतिकृमि ।
श्लक्ष्णपीताभासंयुक्तं मण्डलं परिकीर्तितम्

anyonyasaktapucchūnabahukaṇḍūsnutikṛmi |
ślakṣṇapītābhāsaṃyuktaṃ maṇḍalaṃ parikīrtitam

164.18

सकण्डूपिटिका श्यावा सक्लेदा च विचर्चिका ।
परुषन्तत्ररक्तान्तमन्तः श्यामं समुन्नतम्

sakaṇḍūpiṭikā śyāvā sakledā ca vicarcikā |
paruṣantatraraktāntamantaḥ śyāmaṃ samunnatam

164.19

ऋष्यजिह्वाकृतिप्रोक्तं ऋष्यजिह्वं बहुक्रिमि ।
हस्तिचर्मखरस्पर्शं चर्माख्यं कुष्ठमुच्यते

ṛṣyajihvākṛtiproktaṃ ṛṣyajihvaṃ bahukrimi |
hasticarmakharasparśaṃ carmākhyaṃ kuṣṭhamucyate

164.20

अस्वेदञ्चमत्स्यशल्कसन्निभं किटिमं पुनः ।
रूक्षाग्निवर्णं दुः स्पर्शं कण्डूमत्परुषासितम्

asvedañcamatsyaśalkasannibhaṃ kiṭimaṃ punaḥ |
rūkṣāgnivarṇaṃ duḥ sparśaṃ kaṇḍūmatparuṣāsitam

164.21

अन्ता रूक्षं बहिः स्निग्धमन्तर्घृष्टं रजः किरेत् ।
श्लक्ष्णस्पर्शं तनु स्निग्धं स्वच्छमस्वेदपुष्पवत्

antā rūkṣaṃ bahiḥ snigdhamantarghṛṣṭaṃ rajaḥ kiret |
ślakṣṇasparśaṃ tanu snigdhaṃ svacchamasvedapuṣpavat

164.22

प्रायेण चोर्ध्वकार्श्यञ्च कुण्डैः कण्डूपरैश्चितम् ।
रक्तैरलंशुका पाणिपादे कुर्याद्विपादिका

prāyeṇa cordhvakārśyañca kuṇḍaiḥ kaṇḍūparaiścitam |
raktairalaṃśukā pāṇipāde kuryādvipādikā

164.23

तीव्रार्तिं गाढकण्डूञ्च सरागपिडिकाचितम् ।
दीर्घप्रतानदूर्वावदतसीकुसुमच्छवि

tīvrārtiṃ gāḍhakaṇḍūñca sarāgapiḍikācitam |
dīrghapratānadūrvāvadatasīkusumacchavi

164.24

उच्छूनमण्डलो दद्रुः कण्डूमानिति कथ्यते ।
स्थूलमूलं सदाहार्ति रक्तस्त्रावं बहुव्रणम्

ucchūnamaṇḍalo dadruḥ kaṇḍūmāniti kathyate |
sthūlamūlaṃ sadāhārti raktastrāvaṃ bahuvraṇam

164.25

सादहकक्लेदरुजं प्रायशः सर्वजन्म च ।
रक्ताक्तमण्डलं पाण्डु कण्डूदाहरुजान्वितम्

sādahakakledarujaṃ prāyaśaḥ sarvajanma ca |
raktāktamaṇḍalaṃ pāṇḍu kaṇḍūdāharujānvitam

164.26

सोत्सेधमाचितं रक्तैः कञ्जपर्णमिवाम्बुभिः ।
पुण्डरीकं भवेत्तद्धि चितं स्फोटैः सितारुणैः

sotsedhamācitaṃ raktaiḥ kañjaparṇamivāmbubhiḥ |
puṇḍarīkaṃ bhavettaddhi citaṃ sphoṭaiḥ sitāruṇaiḥ

164.27

विस्फोटपिटिका पामा कण्डूक्लेदरुजान्विताः ।
सूक्ष्मा श्यामारुणा रूक्षा प्रायः स्फिक्पाणिकूर्परे

visphoṭapiṭikā pāmā kaṇḍūkledarujānvitāḥ |
sūkṣmā śyāmāruṇā rūkṣā prāyaḥ sphikpāṇikūrpare

164.28

सस्फोटसंस्पर्शसहं कण्डूरक्तातिदाहवत् ।
रक्तदलं चर्मदलं काकणं तीव्रदाहरुक्

sasphoṭasaṃsparśasahaṃ kaṇḍūraktātidāhavat |
raktadalaṃ carmadalaṃ kākaṇaṃ tīvradāharuk

164.29

पूर्वरक्तञ्च कृष्णञ्च काकणं त्रिफलोपमम् ।
कृष्णलिङ्गैर्युतैः सर्वैः स्वस्वकारणतो भवेत्

pūrvaraktañca kṛṣṇañca kākaṇaṃ triphalopamam |
kṛṣṇaliṅgairyutaiḥ sarvaiḥ svasvakāraṇato bhavet

164.30

दोषभेदाय विहितैरादिशेल्लिङ्गकर्मभिः ।
कुष्ठस्वदोषानुगतं सर्वदोषगतं त्यजेत्

doṣabhedāya vihitairādiśelliṅgakarmabhiḥ |
kuṣṭhasvadoṣānugataṃ sarvadoṣagataṃ tyajet

164.31

कुष्ठोक्तं यच्च यच्चास्थिमज्जाशुक्रसमाश्रयम् ।
कृच्छ्रं मेदोमतञ्चैव याप्यं स्नाप्वास्थिमांसगम्

kuṣṭhoktaṃ yacca yaccāsthimajjāśukrasamāśrayam |
kṛcchraṃ medomatañcaiva yāpyaṃ snāpvāsthimāṃsagam

164.32

अकृच्छ्रं कफवातोत्थं त्वग्गतं त्वमलञ्च यत् ।
तत्र त्वचि स्थिते कष्ठे काये वैवर्ण्यरूक्षाता

akṛcchraṃ kaphavātotthaṃ tvaggataṃ tvamalañca yat |
tatra tvaci sthite kaṣṭhe kāye vaivarṇyarūkṣātā

164.33

स्वेदतापश्वयथवः शोणिते पिशिते पुनः ।
पाणिपादाश्रिताः स्फोटाः क्लेशात्सन्धिषु चाधिकम्

svedatāpaśvayathavaḥ śoṇite piśite punaḥ |
pāṇipādāśritāḥ sphoṭāḥ kleśātsandhiṣu cādhikam

164.34

दोषस्याभीक्ष्णयोगेन दलनं स्याच्च मेदसि ।
नातिसंज्ञास्ति मज्जास्थिनेत्रवेगस्वरक्ष्यः

doṣasyābhīkṣṇayogena dalanaṃ syācca medasi |
nātisaṃjñāsti majjāsthinetravegasvarakṣyaḥ

164.35

क्षते च क्रिमिभिः शुक्रे स्वदारापत्यबाधनम् ।
यथापूर्वाणि सर्वाणि स्वलिङ्गानि मृगादिषु

kṣate ca krimibhiḥ śukre svadārāpatyabādhanam |
yathāpūrvāṇi sarvāṇi svaliṅgāni mṛgādiṣu

164.36

कष्ठैकसम्भवं श्वित्रं किलासं दारुणं भवेत् ।
निर्दिष्टमपरिस्त्रावि त्रिधातूद्भवसंश्रयम्

kaṣṭhaikasambhavaṃ śvitraṃ kilāsaṃ dāruṇaṃ bhavet |
nirdiṣṭamaparistrāvi tridhātūdbhavasaṃśrayam

164.37

वाताद्रूक्षारुणं पित्तात्ताम्रं कमलपत्रवत् ।
सदाहं रोमविध्वंसि कफाच्छ्वेतं घन गुरु

vātādrūkṣāruṇaṃ pittāttāmraṃ kamalapatravat |
sadāhaṃ romavidhvaṃsi kaphācchvetaṃ ghana guru

164.38

सकण्डूरं क्रमाद्रक्तमांसमेदः सु चादिशेत् ।
वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम्

sakaṇḍūraṃ kramādraktamāṃsamedaḥ su cādiśet |
varṇenaivedṛgubhayaṃ kṛcchraṃ taccottarottaram

164.39

अशुक्लरोमबहुलमसंश्लिष्टं मिथो नवम् ।
अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा

aśuklaromabahulamasaṃśliṣṭaṃ mitho navam |
anagnidagdhajaṃ sādhyaṃ śvitraṃ varjyamato'nyathā

164.40

गुह्यपाणितलौष्ठेषु जातमप्यचिरन्तरम् ।
वर्जनीयं विशेषेण किलासं सिद्धिमिच्छिता

guhyapāṇitalauṣṭheṣu jātamapyacirantaram |
varjanīyaṃ viśeṣeṇa kilāsaṃ siddhimicchitā

164.41

स्पर्शैकाहारसंगादिसेवनात्प्रायशो गदाः ।
एकशय्यासनाच्चैव वस्त्रमाल्यानुलेपनात्

sparśaikāhārasaṃgādisevanātprāyaśo gadāḥ |
ekaśayyāsanāccaiva vastramālyānulepanāt

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)