पूर्व खण्ड — आचार काण्ड

अध्याय 163: विसर्प, त्वचा पर फैलने वाला रोग

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वीसर्पनिदानं नाम त्रिपष्ट्यधिकशततमोऽध्यायः ॥

24 श्लोक · 163 में से 241

इस अध्याय में क्या होता है

विसर्प, त्वचा पर फैलने वाला रोग

धन्वन्तरि विसर्प का वर्णन करते हैं, जो शरीर पर फैलता चला जाता है। जलन करने वाले आहार, वेगों को रोकने और मन्द अग्नि से कुपित दोष भीतर से शीघ्र बाहर फैलते हैं। वातज विसर्प में वात ज्वर जैसी फड़कन और चुभन होती है, पित्तज तेज़ी से फैलता और गहरा लाल होता है, कफज में खुजली और चिकनाई रहती है। अग्निविसर्प बुझे अंगारे जैसा दिखता है, आग से जले जैसे फफोले उठाता है और मर्मों तक पहुँचकर नींद और चेतना हर लेता है। ग्रन्थिविसर्प शिराओं पर कठोर, पीड़ादायक गाँठों की माला बनाता है, साथ में खाँसी और मूर्छा। घाव से होने वाला विसर्प कुलथी जैसे फफोलों से भरता है। एक दोष का विसर्प साध्य है, त्रिदोषज या मर्मों तक पहुँचा, शव जैसी गन्ध वाला असाध्य।

धन्वन्तीररुवाच

163.1

विसर्पादिनिदानन्ते वक्ष्ये सुश्रुत तच्छृणु ।
स्याद्विसर्पो विघातात्तु दोषैर्दुष्टैश्च शोथवत्

visarpādinidānante vakṣye suśruta tacchṛṇu |
syādvisarpo vighātāttu doṣairduṣṭaiśca śothavat

163.2

अधिष्ठानञ्च तं प्राहुर्बाह्यं तत्र भयाच्छ्रमात् ।
यथात्तरञ्च दुः साध्यस्तत्र दोषो यथायथम्

adhiṣṭhānañca taṃ prāhurbāhyaṃ tatra bhayācchramāt |
yathāttarañca duḥ sādhyastatra doṣo yathāyatham

163.3

प्रकोपनैः प्रकुपिता विशेषेण विदाहिभिः ।
देहे शीघ्रं विशन्तीह तेऽन्तरे हि स्थिता बहिः

prakopanaiḥ prakupitā viśeṣeṇa vidāhibhiḥ |
dehe śīghraṃ viśantīha te'ntare hi sthitā bahiḥ

163.4

तृष्णाभियोगाद्वेगानां विषमाच्च प्रवर्तनात् ।
आशु चाग्निबलभ्रंशादतो बाह्यं विसर्पयेत्

tṛṣṇābhiyogādvegānāṃ viṣamācca pravartanāt |
āśu cāgnibalabhraṃśādato bāhyaṃ visarpayet

163.5

तत्र वातात्स वीसर्पो वातज्वरसमव्यथः ।
शोथस्फुरणनिस्तोदभेदायासार्तिहर्षवान्

tatra vātātsa vīsarpo vātajvarasamavyathaḥ |
śothasphuraṇanistodabhedāyāsārtiharṣavān

163.6

पित्ताद्द्रुतगतिः पित्तज्वरलिङ्गोऽतिलोहितः ।
कफात्कण्डूयुतः स्निग्धः कफज्वरसमानरुक्

pittāddrutagatiḥ pittajvaraliṅgo'tilohitaḥ |
kaphātkaṇḍūyutaḥ snigdhaḥ kaphajvarasamānaruk

163.7

सन्निपातसमुत्थाश्च सर्वलिङ्गसमन्विताः ।
स्वदोषलिङ्गैश्चीयन्ते सर्वैः स्फोटैरुपेक्षिताः ।
तेऽपि स्वेदान्विमुञ्चति बिभ्रतो व्रणलक्षणम्

sannipātasamutthāśca sarvaliṅgasamanvitāḥ |
svadoṣaliṅgaiścīyante sarvaiḥ sphoṭairupekṣitāḥ |
te'pi svedānvimuñcati bibhrato vraṇalakṣaṇam

163.8

वातपित्ताज्ज्वरच्छर्दिमूर्छातीसारतृड्भ्रमैः ।
गन्थिभेदाग्निसदनतमकारोचकैर्युतः

vātapittājjvaracchardimūrchātīsāratṛḍbhramaiḥ |
ganthibhedāgnisadanatamakārocakairyutaḥ

163.9

करोति सर्वमङ्गञ्च दीप्ताङ्गारावकीर्णवत् ।
यंयं देशं विसर्पश्च विसर्पति भवेत्ससः

karoti sarvamaṅgañca dīptāṅgārāvakīrṇavat |
yaṃyaṃ deśaṃ visarpaśca visarpati bhavetsasaḥ

163.10

शान्ताङ्गारासितो नीलो रक्तो वासु च चीयते ।
अग्निदग्ध इव स्फोटैः शीघ्रगत्वाद्द्रुतं स च

śāntāṅgārāsito nīlo rakto vāsu ca cīyate |
agnidagdha iva sphoṭaiḥ śīghragatvāddrutaṃ sa ca

163.11

मर्मानुसारी वीसर्पः स्याद्वातोऽतिबलस्ततः ।
व्यथतेऽङ्गं हरेत्संज्ञां निद्राञ्च श्वासमीरयेत्

marmānusārī vīsarpaḥ syādvāto'tibalastataḥ |
vyathate'ṅgaṃ haretsaṃjñāṃ nidrāñca śvāsamīrayet

163.12

हिक्काञ्च स गतोऽवस्थामीदृशीं लभते नरः ।
क्वचिन्मर्मारतिग्रस्तो भूमिशय्यासनादिषु

hikkāñca sa gato'vasthāmīdṛśīṃ labhate naraḥ |
kvacinmarmāratigrasto bhūmiśayyāsanādiṣu

163.13

चेष्टमानस्ततः क्लिष्टो मनोदेहप्रमोहवान् ।
दुष्प्रबोधोऽश्नुते निद्रां सोऽग्निवीसर्प उच्यते

ceṣṭamānastataḥ kliṣṭo manodehapramohavān |
duṣprabodho'śnute nidrāṃ so'gnivīsarpa ucyate

163.14

कफेन रुद्धः पवनो भित्त्वातं बहुधा कफम् ।
रक्तं वा वृद्धरक्तस्य त्वक्छिरास्नायुमांसगम्

kaphena ruddhaḥ pavano bhittvātaṃ bahudhā kapham |
raktaṃ vā vṛddharaktasya tvakchirāsnāyumāṃsagam

163.15

दूषयित्वा तु दीर्घानुवृत्तस्थूलखरात्मिकाम् ।
ग्रन्थीनां कुरुते मालां सरक्तान्तीव्ररुग्ज्वराम्

dūṣayitvā tu dīrghānuvṛttasthūlakharātmikām |
granthīnāṃ kurute mālāṃ saraktāntīvrarugjvarām

163.16

श्वासकासातिसारास्यशोषहिक्कावमिभ्रमैः ।
मोहवैवर्ण्यमूर्छाङ्गभङ्गग्निसदनैर्युताम् ।
इत्ययं ग्रन्थिवीसर्पः कफमारुतकोपजः

śvāsakāsātisārāsyaśoṣahikkāvamibhramaiḥ |
mohavaivarṇyamūrchāṅgabhaṅgagnisadanairyutām |
ityayaṃ granthivīsarpaḥ kaphamārutakopajaḥ

163.17

कफपित्ताज्ज्वरः स्तम्भो निद्रा तन्द्रा शिरोरुजा ।
अङ्गावसादविक्षेंपौ प्रलापारोचकभ्रमाः

kaphapittājjvaraḥ stambho nidrā tandrā śirorujā |
aṅgāvasādavikṣeṃpau pralāpārocakabhramāḥ

163.18

मूर्छाग्निहानिर्भेदोऽस्थ्नां पिपासेन्द्रियगौरवम् ।
आमोपवेशनं लेपः स्रोतसां स च सर्पति

mūrchāgnihānirbhedo'sthnāṃ pipāsendriyagauravam |
āmopaveśanaṃ lepaḥ srotasāṃ sa ca sarpati

163.19

प्रायेणामाशयं गृह्णन्नेकदेशं न चातिरुक् ।
पीडकैरवकीर्णोऽतिपीतलोहितपाण्डुरैः

prāyeṇāmāśayaṃ gṛhṇannekadeśaṃ na cātiruk |
pīḍakairavakīrṇo'tipītalohitapāṇḍuraiḥ

163.20

स्निध्नोऽसितो मेचकाभो मलिनः शोथवान्गुरुः ।
गम्भीरपाकः प्रायोष्मस्पृष्टः क्लिन्नोंऽवदीर्यते

snidhno'sito mecakābho malinaḥ śothavānguruḥ |
gambhīrapākaḥ prāyoṣmaspṛṣṭaḥ klinnoṃ'vadīryate

163.21

पक्ववच्छीर्णमांसश्च स्पष्टस्नायुशिरागणः ।
सर्वगो लक्षणैः सर्वेः सर्वगत्वक्समर्पणः ।
शवगन्धी च वीसर्पः कर्दमाख्यमुशन्ति तम्

pakvavacchīrṇamāṃsaśca spaṣṭasnāyuśirāgaṇaḥ |
sarvago lakṣaṇaiḥ sarveḥ sarvagatvaksamarpaṇaḥ |
śavagandhī ca vīsarpaḥ kardamākhyamuśanti tam

163.22

बाह्यहेतोः क्षतात्क्रुद्ध्वः सरक्तं पित्तमीरयन् ।
वीसर्पं मारुतः कुर्यात्कुलत्थसदृशैश्चितम्

bāhyahetoḥ kṣatātkruddhvaḥ saraktaṃ pittamīrayan |
vīsarpaṃ mārutaḥ kuryātkulatthasadṛśaiścitam

163.23

स्फोटैः शोथज्वररुजादाहाढ्यं श्यावशोणितम् ।
पथग्दोषैस्त्रयः साध्या द्वन्द्वजाश्चानुपद्रवाः

sphoṭaiḥ śothajvararujādāhāḍhyaṃ śyāvaśoṇitam |
pathagdoṣaistrayaḥ sādhyā dvandvajāścānupadravāḥ

163.24

असाध्याः कृतसर्वोत्थाः सर्वे चाक्रान्तमर्मणः ।
शीर्णस्नायुशिरामांसाः क्लिन्नाश्चशवगन्धयः

asādhyāḥ kṛtasarvotthāḥ sarve cākrāntamarmaṇaḥ |
śīrṇasnāyuśirāmāṃsāḥ klinnāścaśavagandhayaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)