हृद्रोगादिनिदानं ते वक्ष्येऽहं सुश्रुताधुना ।
कृमिहृद्रोगलिङ्गैश्च स्मृताः पञ्च तु हृद्गताः
hṛdrogādinidānaṃ te vakṣye'haṃ suśrutādhunā |
kṛmihṛdrogaliṅgaiśca smṛtāḥ pañca tu hṛdgatāḥ
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे आम्लपित्तनिदाना नाम चतुः पञ्चाशदुत्तरशततमोऽध्यायः ॥
20 श्लोक · 154 में से 241
समाप्ति-वाक्य में आम्लपित्त का नाम है, पर धन्वन्तरि यहाँ हृदय रोग और तृष्णा का वर्णन करते हैं। हृदय के पाँच रोग गिने गए हैं: तीनों दोषों से, सबके मेल से, और कृमि से। वात में हृदय सूना, बिंधा, सूखा और जकड़ा लगता है, अचानक दीनता, भय, शब्द न सह पाना, कम्पन और कम नींद के साथ। पित्त में प्यास, थकान, जलन, पसीना, खट्टा वमन और ज्वर होते हैं। कफ में हृदय भारी और जकड़ा, मानो भीतर पत्थर हो, खाँसी, तन्द्रा और अरुचि के साथ। कृमिज रोग में लगता है जैसे हृदय आरी से चीरा जा रहा हो; इसका उपचार शीघ्र करना चाहिए। फिर तृष्णा: सूखा मुख जो पानी से न भरे, अन्न से द्वेष, स्वर-क्षय, गले और होंठों का रूखापन।
धन्वन्तरिरुवाच
हृद्रोगादिनिदानं ते वक्ष्येऽहं सुश्रुताधुना ।
कृमिहृद्रोगलिङ्गैश्च स्मृताः पञ्च तु हृद्गताः
hṛdrogādinidānaṃ te vakṣye'haṃ suśrutādhunā |
kṛmihṛdrogaliṅgaiśca smṛtāḥ pañca tu hṛdgatāḥ
वातेन शून्यातात्यर्थं भुज्यते रोरुदीति च ।
भिद्यते शुष्यते स्तब्धं हृदयं शून्यता भ्रमः
vātena śūnyātātyarthaṃ bhujyate rorudīti ca |
bhidyate śuṣyate stabdhaṃ hṛdayaṃ śūnyatā bhramaḥ
अकस्माद्दीनता शोको भयं शब्देऽसैष्णुता ।
वेपथुर्वेपनान्मोहः श्वासरोधोऽल्पनिद्रता
akasmāddīnatā śoko bhayaṃ śabde'saiṣṇutā |
vepathurvepanānmohaḥ śvāsarodho'lpanidratā
पित्तात्तृष्णा श्रमो दाहो स्वेदोऽम्लकफजः क्रमः ।
छर्दनं ह्यम्लपित्तस्य धूमकल्पितको ज्वरः
pittāttṛṣṇā śramo dāho svedo'mlakaphajaḥ kramaḥ |
chardanaṃ hyamlapittasya dhūmakalpitako jvaraḥ
श्लेष्मणा हृदयं स्तब्धं भारिकं साश्मगर्भवत् ।
कासास्थिसादनिष्ठीवनिद्रालस्यारुचिज्वराः
śleṣmaṇā hṛdayaṃ stabdhaṃ bhārikaṃ sāśmagarbhavat |
kāsāsthisādaniṣṭhīvanidrālasyārucijvarāḥ
हृद्रोगे हि त्रिभिर्देषैः कृमिभिः श्यावनेत्रता ।
तमः प्रवेशो हृल्लासः शोथः कण्डूः कफस्त्रुतिः
hṛdroge hi tribhirdeṣaiḥ kṛmibhiḥ śyāvanetratā |
tamaḥ praveśo hṛllāsaḥ śothaḥ kaṇḍūḥ kaphastrutiḥ
हृदयं सततं चात्र क्रकचेनेव दीर्यते ।
चिकित्सदामयं
घोरं तच्छीघ्रं शीघ्रमारिणम्
hṛdayaṃ satataṃ cātra krakaceneva dīryate |
cikitsadāmayaṃ
ghoraṃ tacchīghraṃ śīghramāriṇam
वातात्पित्तात्कफात्तृष्णा सन्निपाताद्बलक्षयः ।
षष्ठी स्यादुपसर्गाच्च वातपित्ते च कारणम्
vātātpittātkaphāttṛṣṇā sannipātādbalakṣayaḥ |
ṣaṣṭhī syādupasargācca vātapitte ca kāraṇam
सर्वेषु तत्प्रकोपो हि सम्यग्धातुप्रशोषणात् ।
सर्वदेहभ्रामोत्कम्पतापहृद्दाहमोहकृत्
sarveṣu tatprakopo hi samyagdhātupraśoṣaṇāt |
sarvadehabhrāmotkampatāpahṛddāhamohakṛt
जिह्वामूलगलक्लोमतालुतोयवहाः शिराः ।
संशोष्य तृष्णा जायन्ते तासां सामान्यलक्षणम्
jihvāmūlagalaklomatālutoyavahāḥ śirāḥ |
saṃśoṣya tṛṣṇā jāyante tāsāṃ sāmānyalakṣaṇam
मुखशोषो जलातृप्तिरन्नद्वेषः स्वरक्षयः ।
कण्ठोष्ठतालुकार्कश्याज्जिह्वानिष्क्रमणे क्लमः
mukhaśoṣo jalātṛptirannadveṣaḥ svarakṣayaḥ |
kaṇṭhoṣṭhatālukārkaśyājjihvāniṣkramaṇe klamaḥ
प्रलापश्चित्तविभ्रंशो ह्युद्गराढ्यस्तथामयः ।
मारुतात्क्षामतादैन्यं शङ्खभे
दः शिरौभ्रमः
pralāpaścittavibhraṃśo hyudgarāḍhyastathāmayaḥ |
mārutātkṣāmatādainyaṃ śaṅkhabhe
daḥ śiraubhramaḥ
गन्धाज्ञानास्यवैरस्यश्रुतिनिद्राबलक्षयाः ।
शीताम्लफेनवृद्धिश्च पित्तान्मूर्छास्यतिक्तता
gandhājñānāsyavairasyaśrutinidrābalakṣayāḥ |
śītāmlaphenavṛddhiśca pittānmūrchāsyatiktatā
रक्तेक्षणत्वं सततं शोषो दाहोऽतिधूमकः ।
कफो रसाद्विकुपितस्तोयवाहिषु मारुतः
raktekṣaṇatvaṃ satataṃ śoṣo dāho'tidhūmakaḥ |
kapho rasādvikupitastoyavāhiṣu mārutaḥ
स्रोतस्तु सकफं तेन पङ्कवच्छोष्यते ततः ।
शूकैरिवाचितः कण्ठो निद्रा मधुरवक्रता
srotastu sakaphaṃ tena paṅkavacchoṣyate tataḥ |
śūkairivācitaḥ kaṇṭho nidrā madhuravakratā
आध्मानं शिरसो जाड्यं स्तैमित्यच्छर्द्यरोचकम् ।
आलस्यमविपाकञ्च यः स स्यात्सर्वलक्षणः
ādhmānaṃ śiraso jāḍyaṃ staimityacchardyarocakam |
ālasyamavipākañca yaḥ sa syātsarvalakṣaṇaḥ
आमोद्भवाच्च रक्तस्य संरोधाद्वातपित्तता ।
उष्णाक्रान्तस्य सहसा शीताम्भो भजतस्तृषा
āmodbhavācca raktasya saṃrodhādvātapittatā |
uṣṇākrāntasya sahasā śītāmbho bhajatastṛṣā
उष्णादूर्ध्वं गतः कोष्ठं कुर्याद्वै पित्तजैवसा ।
या च पानातिपानोत्था तीक्ष्णाग्रे स्नेहपाकजा
uṣṇādūrdhvaṃ gataḥ koṣṭhaṃ kuryādvai pittajaivasā |
yā ca pānātipānotthā tīkṣṇāgre snehapākajā
स्निग्धकट्वम्ललवणभोजनेन कफोद्भवा ।
तृष्णारसक्षयोक्तेन लक्षणेन क्षयात्मिका
snigdhakaṭvamlalavaṇabhojanena kaphodbhavā |
tṛṣṇārasakṣayoktena lakṣaṇena kṣayātmikā
शोषमोहज्वराद्यन्यदीर्घरोगोपसर्गतः ।
या तृष्णा जायते तीव्रा सोपसर्गात्मिका स्मृता
śoṣamohajvarādyanyadīrgharogopasargataḥ |
yā tṛṣṇā jāyate tīvrā sopasargātmikā smṛtā
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)