अथातः श्वासरोगस्य निदानं प्रवदाम्यहम् ।
कासवृद्ध्या भवेच्छ्वासः पूर्वैर्वा दोषकोपनैः
athātaḥ śvāsarogasya nidānaṃ pravadāmyaham |
kāsavṛddhyā bhavecchvāsaḥ pūrvairvā doṣakopanaiḥ
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्वासनिदाना नाम पञ्चाशदुत्तरशततमोऽध्यायः ॥
18 श्लोक · 150 में से 241
धन्वन्तरि श्वास रोग समझाते हैं, जो बढ़ी हुई खाँसी से या दोषों को कुपित करने वाले कारणों से होता है: अपच, आमातिसार, वमन, विष, पाण्डु और ज्वर, धूल, धुआँ और हवा, मर्म पर चोट, और बर्फीला जल। इसके पाँच भेद हैं: क्षुद्रक, तमक, छिन्न, महान और ऊर्ध्व। कफ से रुका वात चारों ओर फैलकर छाती में बैठ जाता है। पूर्वरूप हैं हृदय और पसलियों में शूल, उलटी साँस, अफारा और कनपटी में फटन। तमक श्वास सिर, गर्दन और छाती को जकड़ता है, घुरघुराती खाँसी और मूर्छा के साथ; बलवान में यह याप्य है। सबसे गम्भीर भेदों में रोगी की चेतना जाती है, आँखें घूमती हैं, मल-मूत्र रुकते हैं और वाणी टूट जाती है।
धन्वन्तरिरुवाच
अथातः श्वासरोगस्य निदानं प्रवदाम्यहम् ।
कासवृद्ध्या भवेच्छ्वासः पूर्वैर्वा दोषकोपनैः
athātaḥ śvāsarogasya nidānaṃ pravadāmyaham |
kāsavṛddhyā bhavecchvāsaḥ pūrvairvā doṣakopanaiḥ
आमातिसारवमथुविषपाण्डुज्वरैरपि ।
रजोधूमानिलैर्मर्मघातादपि हिमाम्बुना
āmātisāravamathuviṣapāṇḍujvarairapi |
rajodhūmānilairmarmaghātādapi himāmbunā
क्षुद्रकस्तमकश्छिन्नो महानूर्ध्वश्च पञ्चमः ।
कफोपरुद्धगमनपवनो विष्वगास्थितः
kṣudrakastamakaśchinno mahānūrdhvaśca pañcamaḥ |
kaphoparuddhagamanapavano viṣvagāsthitaḥ
प्राणोदकान्नवाहीनि दुष्टस्रोतांसि दूषयन् ।
उरः स्थः कुरुते श्वासमामाशयसमुद्भवम्
prāṇodakānnavāhīni duṣṭasrotāṃsi dūṣayan |
uraḥ sthaḥ kurute śvāsamāmāśayasamudbhavam
प्राग्रूपं तस्य हृत्पार्श्वशूलं प्राणविलोमता ।
आनाहः शङ्खभेदश्च तत्रायासोऽतिभोजनैः
prāgrūpaṃ tasya hṛtpārśvaśūlaṃ prāṇavilomatā |
ānāhaḥ śaṅkhabhedaśca tatrāyāso'tibhojanaiḥ
प्रेरितः प्रेरयन्क्षुद्रं स्वयं स समलं मरुत् ।
प्रतिलोमं शिरा गच्छेदुदीर्य पवनः कफम्
preritaḥ prerayankṣudraṃ svayaṃ sa samalaṃ marut |
pratilomaṃ śirā gacchedudīrya pavanaḥ kapham
परिगृह्यशिरोग्रीवमुरः पार्श्वे च पीडयन् ।
कासं घुर्घुरकं मोहमरुचिम्पीनसं भृशम्
parigṛhyaśirogrīvamuraḥ pārśve ca pīḍayan |
kāsaṃ ghurghurakaṃ mohamarucimpīnasaṃ bhṛśam
करोति तीव्रवेगञ्च श्वासं प्राणोपतापिनम् ।
प्रताम्येत्तस्य वेगेनष्ठीवनान्ते क्षणं सुखी
karoti tīvravegañca śvāsaṃ prāṇopatāpinam |
pratāmyettasya vegenaṣṭhīvanānte kṣaṇaṃ sukhī
कृच्छ्राच्छयानः श्वसिति निषण्णः स्वास्थ्यमर्हति ।
उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमार्तिमान्
kṛcchrācchayānaḥ śvasiti niṣaṇṇaḥ svāsthyamarhati |
ucchritākṣo lalāṭena svidyatā bhṛśamārtimān
विशुष्कास्यो मुहुः श्वासः काङ्क्षत्युष्णं सवेपथुः ।
मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्च विवर्धते
viśuṣkāsyo muhuḥ śvāsaḥ kāṅkṣatyuṣṇaṃ savepathuḥ |
meghāmbuśītaprāgvātaiḥ śleṣmalaiśca vivardhate
स याप्यस्तमकः साध्यो नरस्य बलिनो भवेत् ।
ज्वरमूर्छावतः सीतैर्न शाम्येत्प्रथमस्तु सः
sa yāpyastamakaḥ sādhyo narasya balino bhavet |
jvaramūrchāvataḥ sītairna śāmyetprathamastu saḥ
कासश्वसितवच्छीर्णमर्मच्छेदरुजार्दितः ।
सस्वेदमूर्छः सानाहो बस्तिदाहविबोधवान्
kāsaśvasitavacchīrṇamarmacchedarujārditaḥ |
sasvedamūrchaḥ sānāho bastidāhavibodhavān
अधोदृष्टिः शुताक्षस्तु स्निह्यद्रक्तैकलोचनः ।
शुष्कास्यः प्रलपन्दीनो नष्टच्छायो विचेतनः
adhodṛṣṭiḥ śutākṣastu snihyadraktaikalocanaḥ |
śuṣkāsyaḥ pralapandīno naṣṭacchāyo vicetanaḥ
महातामहता दीनो नादेन श्वसिति क्रथन् ।
उद्धूयमानः संरब्धो मत्तर्षभ इवानिशम्
mahātāmahatā dīno nādena śvasiti krathan |
uddhūyamānaḥ saṃrabdho mattarṣabha ivāniśam
प्रनष्टज्ञानविज्ञानो विभ्रान्तनयनाननः ।
नेत्रे समाक्षिपन्बद्धमूत्रवर्चा विशीर्णवाक्
pranaṣṭajñānavijñāno vibhrāntanayanānanaḥ |
netre samākṣipanbaddhamūtravarcā viśīrṇavāk
शुष्ककण्ठो मुहुश्चैव कर्णशङ्खाशिरोऽतिरुक् ।
यो दीर्घमुच्छ्वसित्यूर्ध्वं न च प्रत्याहरत्यधः
śuṣkakaṇṭho muhuścaiva karṇaśaṅkhāśiro'tiruk |
yo dīrghamucchvasityūrdhvaṃ na ca pratyāharatyadhaḥ
श्लेष्मावृतमुखश्रोत्रः क्रुद्धगन्धवहार्दितः ।
ऊर्ध्वं समीक्षते भ्रान्तमक्षिणी परितः क्षिपन्
śleṣmāvṛtamukhaśrotraḥ kruddhagandhavahārditaḥ |
ūrdhvaṃ samīkṣate bhrāntamakṣiṇī paritaḥ kṣipan
मर्मसु च्छिद्यमानेषु परिदेवी निरुद्धवाक् ।
एते सिध्येयुरव्यक्ताः व्यक्ताः प्राणहरा ध्रुवम्
marmasu cchidyamāneṣu paridevī niruddhavāk |
ete sidhyeyuravyaktāḥ vyaktāḥ prāṇaharā dhruvam
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)