आशुकारी यतः कासः स एवातः प्रवक्ष्यते ।
पञ्च कासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः
āśukārī yataḥ kāsaḥ sa evātaḥ pravakṣyate |
pañca kāsāḥ smṛtā vātapittaśleṣmakṣatakṣayaiḥ
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कासनिदाना नामैकोनपञ्चाशदुत्तरशततमोध्यायः ॥
21 श्लोक · 149 में से 241
धन्वन्तरि कास, अर्थात खाँसी, का निदान बताते हैं, जो शीघ्र असर करती है। इसके पाँच प्रकार हैं: वात, पित्त, कफ, छाती की चोट और क्षय से, हर एक पिछले से प्रबल, और उपेक्षा करने पर सब क्षय में बदलते हैं। नीचे रुका वात गले तक उठकर नाड़ियों को भरता है, और फूटे काँसे जैसी आवाज़ के साथ खाँसी निकलती है। पित्त की खाँसी में पीली आँखें, कड़वा मुख, ज्वर और पित्त तथा रक्त का वमन होता है। कफ की खाँसी गाढ़े कफ से भारी होती है। चोट की खाँसी में कफ के साथ रक्त आता है, और क्षय की खाँसी में दुबलापन और पीठ-दर्द होता है। क्षयज खाँसी दुर्बल के लिए प्राणघातक है; बलवान में नई हो तो वश में की जा सकती है।
धन्वन्तरिरुवाच
आशुकारी यतः कासः स एवातः प्रवक्ष्यते ।
पञ्च कासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः
āśukārī yataḥ kāsaḥ sa evātaḥ pravakṣyate |
pañca kāsāḥ smṛtā vātapittaśleṣmakṣatakṣayaiḥ
क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम् ।
तेषां भविष्यतां रूपं कण्ठे कण्डूररोचकः
kṣayāyopekṣitāḥ sarve balinaścottarottaram |
teṣāṃ bhaviṣyatāṃ rūpaṃ kaṇṭhe kaṇḍūrarocakaḥ
शुष्ककर्णास्यकण्ठत्वं तत्राधोविहितोऽनिलः ।
ऊर्ध्वं प्रवृत्तः प्राप्यो रस्तस्मिन्कण्ठे च संसृजन्
śuṣkakarṇāsyakaṇṭhatvaṃ tatrādhovihito'nilaḥ |
ūrdhvaṃ pravṛttaḥ prāpyo rastasminkaṇṭhe ca saṃsṛjan
शिरास्रोतांसि संपूर्य ततोऽङ्गान्युत्क्षिपन्ति च ।
क्षिपन्निवाक्षिणी क्लिष्टस्वरः पार्श्वे च पीडयन्
śirāsrotāṃsi saṃpūrya tato'ṅgānyutkṣipanti ca |
kṣipannivākṣiṇī kliṣṭasvaraḥ pārśve ca pīḍayan
प्रवर्तते सवक्रेण भिन्नकांस्योपमध्वनिः ।
हृत्पार्श्वेरुशिरः शूलमोहक्षोभस्वरक्षयान्
pravartate savakreṇa bhinnakāṃsyopamadhvaniḥ |
hṛtpārśveruśiraḥ śūlamohakṣobhasvarakṣayān
करोति शुष्ककासञ्च महावेगरुजास्वनम् ।
सोंगहर्षो कफं शुष्कं कृछ्रान्मुक्त्वाल्पतां व्रजेत्
karoti śuṣkakāsañca mahāvegarujāsvanam |
soṃgaharṣo kaphaṃ śuṣkaṃ kṛchrānmuktvālpatāṃ vrajet
पित्तात्पीताक्षिकत्वं च तिक्तास्यत्वं ज्वरो भ्रमः ।
पित्तासृग्वमनं तृष्णा वैस्वर्यं धूमको मदः
pittātpītākṣikatvaṃ ca tiktāsyatvaṃ jvaro bhramaḥ |
pittāsṛgvamanaṃ tṛṣṇā vaisvaryaṃ dhūmako madaḥ
प्रततं कासवेगे च ज्योतिषामिव दर्शनम् ।
कफादुरोऽल्परुङ्मूर्धि हृदयं स्तिमिते गुरु
pratataṃ kāsavege ca jyotiṣāmiva darśanam |
kaphāduro'lparuṅmūrdhi hṛdayaṃ stimite guru
कण्ठे प्रलेपमदजं पीनसच्छर्द्यरोचकाः ।
रोमहर्षो धनस्निग्धंश्लेष्मणाञ्च प्रवर्तनम्
kaṇṭhe pralepamadajaṃ pīnasacchardyarocakāḥ |
romaharṣo dhanasnigdhaṃśleṣmaṇāñca pravartanam
युद्धाद्यैः साहसैस्तैस्तैः सेवितैरयथाबलम् ।
उपस्यन्तः क्षतो वायुः पित्तेनानुगतो बली
yuddhādyaiḥ sāhasaistaistaiḥ sevitairayathābalam |
upasyantaḥ kṣato vāyuḥ pittenānugato balī
कुपितः कुरुते कासं कफं तेन सशोणितम् ।
पीतं श्यावञ्च शुष्कञ्च ग्रथितं कुपितं बहु
kupitaḥ kurute kāsaṃ kaphaṃ tena saśoṇitam |
pītaṃ śyāvañca śuṣkañca grathitaṃ kupitaṃ bahu
ष्ठीवेत्कण्ठेन रुजता विभिन्नेनैव चोरसा ।
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना
ṣṭhīvetkaṇṭhena rujatā vibhinnenaiva corasā |
sūcībhiriva tīkṣṇābhistudyamānena śūlinā
दुः खस्पर्शेन शूलेन भेदपीडाहितापिना ।
पर्वभेदज्वरश्वासतृष्णावैस्वर्यकम्पवान्
duḥ khasparśena śūlena bhedapīḍāhitāpinā |
parvabhedajvaraśvāsatṛṣṇāvaisvaryakampavān
पारावत इवोत्कूजन्पार्श्वशूली ततोऽस्य च ।
कफाद्यैर्वमनं पक्तिबलवर्णञ्च हीयते
pārāvata ivotkūjanpārśvaśūlī tato'sya ca |
kaphādyairvamanaṃ paktibalavarṇañca hīyate
क्षीणस्य सासृङ्मूत्रत्वं श्वासपृष्टकटिग्रहः ।
षायुप्रधानाः कुपिता धावतो राजयक्ष्मणः
kṣīṇasya sāsṛṅmūtratvaṃ śvāsapṛṣṭakaṭigrahaḥ |
ṣāyupradhānāḥ kupitā dhāvato rājayakṣmaṇaḥ
कर्वन्ति यक्ष्मायतने कासं ष्ठीवत्कफं ततः ।
पूतिपूयोपमं वीतं मिश्रं हरितलोहितम्
karvanti yakṣmāyatane kāsaṃ ṣṭhīvatkaphaṃ tataḥ |
pūtipūyopamaṃ vītaṃ miśraṃ haritalohitam
सुप्यते तुद्यत इव हृदयं पचतीव च ।
अकस्मादुष्णशीतेच्छा बह्वाशित्वं बलक्षयः
supyate tudyata iva hṛdayaṃ pacatīva ca |
akasmāduṣṇaśītecchā bahvāśitvaṃ balakṣayaḥ
स्निग्धप्रसन्नवक्रत्वं श्रीमद्दर्शननेत्रता ।
ततोऽस्य क्षयरूपाणि सर्वाण्याविर्भवन्ति च
snigdhaprasannavakratvaṃ śrīmaddarśananetratā |
tato'sya kṣayarūpāṇi sarvāṇyāvirbhavanti ca
इत्येष क्षयजः कास क्षीणानां देहनाशनः ।
याप्यौ वा बलिनां तद्वत्क्षतजोऽपि नवौ तु तौ
ityeṣa kṣayajaḥ kāsa kṣīṇānāṃ dehanāśanaḥ |
yāpyau vā balināṃ tadvatkṣatajo'pi navau tu tau
सिध्येतामपि सामर्थ्यात्साध्यादौ च पृथक्क्रमः ।
मिश्रा याप्याश्च ये सर्वे जरसः स्थविरस्य च
sidhyetāmapi sāmarthyātsādhyādau ca pṛthakkramaḥ |
miśrā yāpyāśca ye sarve jarasaḥ sthavirasya ca
कासश्वासक्षयच्छर्दिस्वरसादादयो गदाः ।
भवन्त्युपेक्षया यस्मात्तस्मात्तास्त्वरया जयेत्
kāsaśvāsakṣayacchardisvarasādādayo gadāḥ |
bhavantyupekṣayā yasmāttasmāttāstvarayā jayet
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)