अथातो रक्तपित्तस्य निदानं प्रवदाम्यहम् ।
भृशोष्णतिक्तकट्वम्ललवणादिविदाहिभिः
athāto raktapittasya nidānaṃ pravadāmyaham |
bhṛśoṣṇatiktakaṭvamlalavaṇādividāhibhiḥ
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रक्तपित्तनिदानं नामाष्टचत्वारिंशदुत्तरशततमोऽध्यायः ॥
17 श्लोक · 148 में से 241
धन्वन्तरि रक्तपित्त का वर्णन करते हैं, जिसमें बहुत गरम, कड़वे, तीखे, खट्टे और नमकीन भोजन तथा कोदो जैसे अन्न से कुपित पित्त रक्त में मिलकर पूरे शरीर में फैलता है। यह रक्त के स्थान प्लीहा और यकृत से उठता है। इसके पूर्वरूप हैं सिर का भारीपन, अरुचि, ठण्डी वस्तु की इच्छा, खट्टी डकार, वमन, खाँसी, साँस फूलना और चक्कर, साथ में मुख से मछली-सी गन्ध और आँखों में लाल, पीली या हरी झलक। रक्त ऊपर नाक, आँख, कान और मुख से, नीचे के मार्गों से, या त्वचा के रोमकूपों से बहता है। कफ से जुड़ा ऊर्ध्वगामी रक्तपित्त साध्य है और विरेचन से ठीक होता है; वात से जुड़ा अधोगामी वमन से सँभलता है; दोनों ओर बहने वाला असाध्य है।
धन्वन्तरिरुवाच
अथातो रक्तपित्तस्य निदानं प्रवदाम्यहम् ।
भृशोष्णतिक्तकट्वम्ललवणादिविदाहिभिः
athāto raktapittasya nidānaṃ pravadāmyaham |
bhṛśoṣṇatiktakaṭvamlalavaṇādividāhibhiḥ
कोद्रवोद्दालकैश्चान्यैस्तदुक्तैरति सेवितैः ।
कुपितं पैत्तिकैः पित्तं द्रवं रक्तञ्च मूर्छति
kodravoddālakaiścānyaistaduktairati sevitaiḥ |
kupitaṃ paittikaiḥ pittaṃ dravaṃ raktañca mūrchati
तैर्मिथस्तुल्यरूपत्वमागम्य व्याप्नुवंस्तनुम् ।
पित्तरक्तस्य विकृतेः संसर्गाद्दषणादपि
tairmithastulyarūpatvamāgamya vyāpnuvaṃstanum |
pittaraktasya vikṛteḥ saṃsargāddaṣaṇādapi
गन्धवर्णानुवृत्तेषु रक्तेन व्यपदिश्यते ।
प्रभवत्यसृजः स्थानात्प्लीहतो यकृतश्च सः
gandhavarṇānuvṛtteṣu raktena vyapadiśyate |
prabhavatyasṛjaḥ sthānātplīhato yakṛtaśca saḥ
शिरोगुरुत्वमरुचिः शीतेच्छा धूमकोऽम्लकः ।
छर्धितश्छर्दिबै भत्स्यं कासः श्वासो भ्रमः क्लमः
śirogurutvamaruciḥ śītecchā dhūmako'mlakaḥ |
chardhitaśchardibai bhatsyaṃ kāsaḥ śvāso bhramaḥ klamaḥ
लोहितो न हितो मत्स्यगन्धास्यात्वञ्च विज्वरे ।
रक्तहारिद्रहरितवर्णता नयनादिषु
lohito na hito matsyagandhāsyātvañca vijvare |
raktahāridraharitavarṇatā nayanādiṣu
नीललोहित पीतानां वर्णानामविवेचनम् ।
स्वप्ने इन्मादधर्मित्वं भवत्यस्मिन्भविष्यति
nīlalohita pītānāṃ varṇānāmavivecanam |
svapne inmādadharmitvaṃ bhavatyasminbhaviṣyati
उर्ध्वं नासाक्षिकर्णास्यैर्मेढ्रयोनिगुदैरधः ।
कुपितं रोमकूपैश्च समस्तैस्तत्प्रवर्तते
urdhvaṃ nāsākṣikarṇāsyairmeḍhrayonigudairadhaḥ |
kupitaṃ romakūpaiśca samastaistatpravartate
ऊर्ध्वं साध्यं कफाद्यस्मात्तद्विरेचनसाधितम् ।
बह्वौषधानि पित्तस्य विरेको हि वरौषधम्
ūrdhvaṃ sādhyaṃ kaphādyasmāttadvirecanasādhitam |
bahvauṣadhāni pittasya vireko hi varauṣadham
अनुबन्धी कफो यत्र तत्र तस्यापि शुद्धिकृत् ।
कषायाः स्वादवो यस्य विशुद्धौ श्लेष्मला हिताः
anubandhī kapho yatra tatra tasyāpi śuddhikṛt |
kaṣāyāḥ svādavo yasya viśuddhau śleṣmalā hitāḥ
कटुतिक्तकषाया वा ये निसर्गात्कफावहाः ।
अधो याप्यञ्च नायुष्मांस्तत्प्रच्छर्दनसाधकम्
kaṭutiktakaṣāyā vā ye nisargātkaphāvahāḥ |
adho yāpyañca nāyuṣmāṃstatpracchardanasādhakam
अल्पौषधञ्च पित्तस्य वमनं नावमौषधम् ।
अनुबन्धि बलं यस्य शान्तपित्तनरस्य च
alpauṣadhañca pittasya vamanaṃ nāvamauṣadham |
anubandhi balaṃ yasya śāntapittanarasya ca
कषायश्च हितस्तस्य मधुरा एव केवलम् ।
कफमारुतसंस्पृष्टमसाध्यमुपनामनम्
kaṣāyaśca hitastasya madhurā eva kevalam |
kaphamārutasaṃspṛṣṭamasādhyamupanāmanam
असह्यं प्रतिलोमत्वादसाध्यादौषधस्य च ।
न हि संशोधनं किञ्चिदस्य च प्रतिलोमिनः
asahyaṃ pratilomatvādasādhyādauṣadhasya ca |
na hi saṃśodhanaṃ kiñcidasya ca pratilominaḥ
शोधनं प्रतिलोमञ्च रक्तपित्तेऽभिसर्जितम् ।
एवमेवोपशमनं संशोधनमिहेष्यते
śodhanaṃ pratilomañca raktapitte'bhisarjitam |
evamevopaśamanaṃ saṃśodhanamiheṣyate
संसृष्टेषु हि दोषेषु सर्वथा छर्दनं हितम् ।
तत्र दोषोऽत्र गमनं शिवास्त्र इव लक्ष्यते
saṃsṛṣṭeṣu hi doṣeṣu sarvathā chardanaṃ hitam |
tatra doṣo'tra gamanaṃ śivāstra iva lakṣyate
उपद्रवाश्च विकृतिं फलतस्तेषु साधितम्
upadravāśca vikṛtiṃ phalatasteṣu sādhitam
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)