पूर्व खण्ड — आचार काण्ड

अध्याय 133: अशोकाष्टमी और महानवमी की दुर्गापूजा

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे महानवमीव्रतं नाम त्रयस्त्रिंशदुत्तरशततमोऽध्यायः ॥

18 श्लोक · 133 में से 241

इस अध्याय में क्या होता है

अशोकाष्टमी और महानवमी की दुर्गापूजा

चैत्र शुक्ल अष्टमी को पुनर्वसु नक्षत्र में जो अशोक की आठ कलियाँ पीते हैं, वे कभी शोक नहीं पाते। उत्तराषाढ़ा से युक्त आश्विन शुक्ल नवमी महानवमी कहलाती है, जब स्नान और दान अक्षय होते हैं; इस दिन दुर्गा की पूजा होती है। विजय चाहने वाला राजा षष्ठी से उपवास करता है और कन्याओं को भोजन कराता है। दुर्गे दुर्गे रक्षिणि स्वाहा मन्त्र बताए गए हैं, और नौ मण्डप बनते हैं। सोलह भुजाओं में आयुध धारण किए दुर्गा का ध्यान है, और रुद्रचण्डा, प्रचण्डा, चण्डोग्रा आदि नौ चण्डिकाएँ गिनाई गई हैं, देवी महिष के केश पकड़े हैं। पाठ आगे कहता है कि रात के अन्त में भैंसे और बकरे की बलि दी जाती है, और चारों कोणों में पूतना, पापराक्षसी, चरकी और विदारिका को भेंट दी जाती है।

ब्रह्मोवाच

133.1

अशोककलिका ह्यष्टौ ये पिबन्ति पुनर्वसौ ।
चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः

aśokakalikā hyaṣṭau ye pibanti punarvasau |
caitre māsi sitāṣṭamyāṃ na te śokamavāpnuyuḥ

133.2

त्वामशोक हराभीष्ट मधुमाससमुद्भव ।
पिबामि शोकसन्तप्तो मामशोकं सदा कुरु

tvāmaśoka harābhīṣṭa madhumāsasamudbhava |
pibāmi śokasantapto māmaśokaṃ sadā kuru

133.3

(ब्रह्मोवाच)
शुक्लाष्टम्यामाश्वयुजे उत्तराषाढया युता ।
सा महानवमीत्युक्ता स्नानदानादि चाक्षयम्

(brahmovāca)
śuklāṣṭamyāmāśvayuje uttarāṣāḍhayā yutā |
sā mahānavamītyuktā snānadānādi cākṣayam

133.4

नवमी केवला चापि दुर्गां चैव तु पूजयेत् ।
महाव्रतं महापुण्यं शङ्कराद्यैरनुष्ठितम्

navamī kevalā cāpi durgāṃ caiva tu pūjayet |
mahāvrataṃ mahāpuṇyaṃ śaṅkarādyairanuṣṭhitam

133.5

अयाचितादि षष्ठ्यादौ राजा शत्रुजयाया च ।
जपहोमसमायुक्तः कन्यां वा भोजयेत्सदा

ayācitādi ṣaṣṭhyādau rājā śatrujayāyā ca |
japahomasamāyuktaḥ kanyāṃ vā bhojayetsadā

133.6

दुर्गेदुर्गे रक्षिणि स्वाहा मन्त्रोऽयं पूजनादिषु ।
दीर्घाकारादिमात्राभिर्नव देव्यो नमोऽन्तिकाः

durgedurge rakṣiṇi svāhā mantro'yaṃ pūjanādiṣu |
dīrghākārādimātrābhirnava devyo namo'ntikāḥ

133.7

षड्भिः पदैर्नमः स्वाहा वषडादिहृदादिकम् ।
अङ्गुष्ठादिकनिष्ठान्तं न्यस्य वै पृजयेच्छिवाम्

ṣaḍbhiḥ padairnamaḥ svāhā vaṣaḍādihṛdādikam |
aṅguṣṭhādikaniṣṭhāntaṃ nyasya vai pṛjayecchivām

133.8

अष्टम्यां नव गेहानि दारुजान्येकमेव वा ।
तस्मिन्देवी प्रकर्तव्या हैमी वाराजतापि वा

aṣṭamyāṃ nava gehāni dārujānyekameva vā |
tasmindevī prakartavyā haimī vārājatāpi vā

133.9

शूले खङ्गे पुस्तके वा पटे वा मण्डले
यजेत् ।
कपालं खेटकं घण्टां दर्पणं तर्जनीं धनः

śūle khaṅge pustake vā paṭe vā maṇḍale
yajet |
kapālaṃ kheṭakaṃ ghaṇṭāṃ darpaṇaṃ tarjanīṃ dhanaḥ

133.10

ध्वजं डमरुकं पाशं वामहस्तेषु बिभ्रती ।
शक्तिं च मुद्गरं शूलं वज्रं खङ्गं तथाङ्कुशम्

dhvajaṃ ḍamarukaṃ pāśaṃ vāmahasteṣu bibhratī |
śaktiṃ ca mudgaraṃ śūlaṃ vajraṃ khaṅgaṃ tathāṅkuśam

133.11

शरं चक्रं शलाकां च दुर्गामायुधसंयुताम् ।
शेषाः षोडशहस्तां स्युरञ्जनं डमरुं विना

śaraṃ cakraṃ śalākāṃ ca durgāmāyudhasaṃyutām |
śeṣāḥ ṣoḍaśahastāṃ syurañjanaṃ ḍamaruṃ vinā

133.12

रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।
चण्डा चण्डवती चैव चण्डरूपातिचण्डिका

rudracaṇḍā pracaṇḍā ca caṇḍogrā caṇḍanāyikā |
caṇḍā caṇḍavatī caiva caṇḍarūpāticaṇḍikā

133.13

नवमी चोग्रचण्डा च मध्यमाग्निप्रभाकृतिः ।
रोचना त्वरुणा कृष्णा नीलं धूम्रा च शुक्रका

navamī cogracaṇḍā ca madhyamāgniprabhākṛtiḥ |
rocanā tvaruṇā kṛṣṇā nīlaṃ dhūmrā ca śukrakā

133.14

पाता च पाण्डुरा प्रोक्ता आलीढं हरितं तथा ।
म
हिषोऽस्य स खड्गाग्रप्रकचग्रहमुष्टिकः

pātā ca pāṇḍurā proktā ālīḍhaṃ haritaṃ tathā |
ma
hiṣo'sya sa khaḍgāgraprakacagrahamuṣṭikaḥ

133.15

जप्त्वा दशाक्षरीं विद्यां नासौ केनापि बध्यते ।
पञ्च
दशाङ्गुलं खड्गं त्रिशूलं च ततो यजेत् ।
लिङ्गस्यां पूजयेद्वापि पादुकेऽथ जलेऽपि वा

japtvā daśākṣarīṃ vidyāṃ nāsau kenāpi badhyate |
pañca
daśāṅgulaṃ khaḍgaṃ triśūlaṃ ca tato yajet |
liṅgasyāṃ pūjayedvāpi pāduke'tha jale'pi vā

133.16

विचित्रां रक्षयेत्पूजामष्टम्यामुपवासयेत् ।
पञ्चाब्दं महिषं बस्तं रात्रिशेषे च घातयेत्

vicitrāṃ rakṣayetpūjāmaṣṭamyāmupavāsayet |
pañcābdaṃ mahiṣaṃ bastaṃ rātriśeṣe ca ghātayet

133.17

विधिवत्कालिकालीति तदुत्थरुधिरादिकम् ।
नेरृत्यां पूतनां चैव वायव्यां पापराक्षसीम्

vidhivatkālikālīti taduttharudhirādikam |
nerṛtyāṃ pūtanāṃ caiva vāyavyāṃ pāparākṣasīm

133.18

दद्याच्चरक्यै चैशान्यामाग्नेय्यां च विदारिकाम्

dadyāccarakyai caiśānyāmāgneyyāṃ ca vidārikām

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)