पूर्व खण्ड — आचार काण्ड

अध्याय 132: बुधाष्टमी और कौशिक की कथा

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बुधाष्टमीव्रतनिरूपणं नाम द्वात्रिंशदुत्तरशततमोऽध्यायः ॥

21 श्लोक · 132 में से 241

इस अध्याय में क्या होता है

बुधाष्टमी और कौशिक की कथा

जब अष्टमी बुधवार को पड़े, तब बुधाष्टमी व्रत होता है: आठ मुट्ठी चावल पकाकर खाया जाता है, और जलाशय के पास बुं बुधाय बीजमन्त्र से बुध की पूजा होती है। फिर कथा है। पाटलिपुत्र में वीर नामक ब्राह्मण अपने पुत्र कौशिक और पुत्री विजया के साथ रहता था। एक दिन ग्वाले चोर उनका बैल ले गए। भूखे भाई-बहन ने सरोवर पर बुध की पूजा करती दिव्य स्त्रियों के साथ व्रत किया और जल्दी ही बैल पा लिया। बाद में वीर ने युवा पुत्री की चिन्ता में कहा कि इसे यम को दूँगा। व्रत के प्रभाव से माता-पिता स्वर्ग गए, कौशिक को अयोध्या का राज्य मिला, और यम के नगर में रहती विजया ने पाश से बँधी माता को देखकर यही व्रत करके उसे मुक्त किया।

ब्रह्मोवाच

132.1

नक्ताशी त्वष्टमीं यावद्वर्षान्ते चैव धेनुदः ।
पौरन्दरपदं याति सद्गतिव्रतमुच्यते

naktāśī tvaṣṭamīṃ yāvadvarṣānte caiva dhenudaḥ |
paurandarapadaṃ yāti sadgativratamucyate

132.2

शुक्लाष्टभ्यां पौषमासे महारुद्रेति साधु वै ।
मत्प्रीतये कृतं देवि शथसाहस्रिकं फलम्

śuklāṣṭabhyāṃ pauṣamāse mahārudreti sādhu vai |
matprītaye kṛtaṃ devi śathasāhasrikaṃ phalam

132.3

अष्टमी बुधवारेण पक्षयोरुभयोर्यदा ।
भविष्यति तदा तस्यां व्रतमेतत्कथा परा

aṣṭamī budhavāreṇa pakṣayorubhayoryadā |
bhaviṣyati tadā tasyāṃ vratametatkathā parā

132.4

तस्यां नियमकर्तारो न स्युः खण्डितसम्पदः ।
तण्डुलस्याष्टमुष्टीनां वर्जयित्वाङ्गुलिद्वयम्

tasyāṃ niyamakartāro na syuḥ khaṇḍitasampadaḥ |
taṇḍulasyāṣṭamuṣṭīnāṃ varjayitvāṅgulidvayam

132.5

भक्तं सद्भक्तिश्रद्धाभ्यां मुक्तिकामी हि मानवः ।
आम्र पत्रपुटे कृत्वा यो भुड्क्ते कुशवोष्टिते

bhaktaṃ sadbhaktiśraddhābhyāṃ muktikāmī hi mānavaḥ |
āmra patrapuṭe kṛtvā yo bhuḍkte kuśavoṣṭite

132.6

कलम्बिकाम्लिकोपेतं काम्यं तस्य फलं भवे
त् ।
बुधं पञ्चोपचारेण पूजयित्वा जलाशये

kalambikāmlikopetaṃ kāmyaṃ tasya phalaṃ bhave
t |
budhaṃ pañcopacāreṇa pūjayitvā jalāśaye

132.7

शक्तितो दक्षिणं दद्यात्कर्करीं तण्डुलान्विताम् ।
बुं बुधायेति बीजं स्यात्स्वाहान्तः कमलादिकः

śaktito dakṣiṇaṃ dadyātkarkarīṃ taṇḍulānvitām |
buṃ budhāyeti bījaṃ syātsvāhāntaḥ kamalādikaḥ

132.8

बाणचापधरंश्यामं दले चाङ्गनि मध्यतः ।
बुधाष्टमीकथा पुण्या श्रोतव्या कृतिभिर्ध्रुवम्

bāṇacāpadharaṃśyāmaṃ dale cāṅgani madhyataḥ |
budhāṣṭamīkathā puṇyā śrotavyā kṛtibhirdhruvam

132.9

पुरे पाटलिपुत्राख्ये वीरो नाम द्विजोत्तमः ।
रम्भा भार्या तस्य चासीत्कौशिकः पुत्र उत्तमः

pure pāṭaliputrākhye vīro nāma dvijottamaḥ |
rambhā bhāryā tasya cāsītkauśikaḥ putra uttamaḥ

132.10

दुहिता विजयानाम्नी व
नपालो वृषोऽभवत् ।
गृहीत्वा कौशिकस्तं च ग्रीष्मे गङ्गां गतोऽरमत्

duhitā vijayānāmnī va
napālo vṛṣo'bhavat |
gṛhītvā kauśikastaṃ ca grīṣme gaṅgāṃ gato'ramat

132.11

गोपालकैर्वृषश्चौरैः क्रीडास्थोपहृतो बलात् ।
गङ्गातः स च उत्थाय वनं बभ्राम दुः खितः

gopālakairvṛṣaścauraiḥ krīḍāsthopahṛto balāt |
gaṅgātaḥ sa ca utthāya vanaṃ babhrāma duḥ khitaḥ

132.12

जलार्थं विजया चागाद्भ्रा
त्रा सार्धं च साप्यगात् ।
पिपासितो मृणालार्थो आगतोऽथ सरोवरम्

jalārthaṃ vijayā cāgādbhrā
trā sārdhaṃ ca sāpyagāt |
pipāsito mṛṇālārtho āgato'tha sarovaram

132.13

दिव्यस्त्रीणां च पूजादीन्दृष्ट्वा चाप्यथ विस्मितः ।
स ता गत्वा ययाचेऽन्नं सानुजोऽहं बुभुक्षितः

divyastrīṇāṃ ca pūjādīndṛṣṭvā cāpyatha vismitaḥ |
sa tā gatvā yayāce'nnaṃ sānujo'haṃ bubhukṣitaḥ

132.14

स्त्रियोऽब्रुवन्व्रतं कर्तुं दास्यामश्च कुरु व्रतम् ।
पत्न्यर्थं धनपाना
थं पूजयामासतुर्बुधम्

striyo'bruvanvrataṃ kartuṃ dāsyāmaśca kuru vratam |
patnyarthaṃ dhanapānā
thaṃ pūjayāmāsaturbudham

132.15

पुटद्वयं गृहीत्वान्नं बुभुजाते प्रदत्तकम् ।
स्त्रियो गतास्तौ धनदौ धनपानमपश्यताम्

puṭadvayaṃ gṛhītvānnaṃ bubhujāte pradattakam |
striyo gatāstau dhanadau dhanapānamapaśyatām

132.16

चौरैर्दत्तं गृहीत्वाथ प्रदोषे प्राप्तवान् गृहम् ।
वीरं च दुः खितं नत्वा रात्रौ सुप्तो यथासुखम्

caurairdattaṃ gṛhītvātha pradoṣe prāptavān gṛham |
vīraṃ ca duḥ khitaṃ natvā rātrau supto yathāsukham

132.17

कन्यां च युवतीं दृष्ट्वा कस्मै देया सुता मया ।
यमायेत्यब्रवीद्दुः खात्साचाराद्व्रतसत्फलात्

kanyāṃ ca yuvatīṃ dṛṣṭvā kasmai deyā sutā mayā |
yamāyetyabravīdduḥ khātsācārādvratasatphalāt

132.18

स्वर्गं गतौ च पितरौ व्रतं राज्याय कौ शिकः ।
चक्रेऽयोध्यामहाराज्यं दत्त्वा च भगिनीं यमे

svargaṃ gatau ca pitarau vrataṃ rājyāya kau śikaḥ |
cakre'yodhyāmahārājyaṃ dattvā ca bhaginīṃ yame

132.19

यमोऽपि विजयामाह गृहस्था भव मे पुरे ।
नोद्धाटयान्यत्रगते यमे सा न तथाकरोत् ।
अपश्यन्मातरं स्वां सा पाशयातनया स्थिताम्

yamo'pi vijayāmāha gṛhasthā bhava me pure |
noddhāṭayānyatragate yame sā na tathākarot |
apaśyanmātaraṃ svāṃ sā pāśayātanayā sthitām

132.20

अथोद्विग्ना कौशिकोक्तं ज्ञात्वा मुक्तिप्रदं व्रतम् ।
चक्रे च सा ततो मुक्ता माता तस्माच्चरेद्व्रतम्

athodvignā kauśikoktaṃ jñātvā muktipradaṃ vratam |
cakre ca sā tato muktā mātā tasmāccaredvratam

132.21

व्रतपुण्यप्रभावेण स्वर्गं गत्वावसत्सुखम्

vratapuṇyaprabhāveṇa svargaṃ gatvāvasatsukham

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)