पूर्व खण्ड — आचार काण्ड

अध्याय 129: प्रतिपदा से नागपंचमी तक के तिथि-व्रत

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे दष्टोद्धारपञ्चमव्रितं नामैकोनत्रिंशोत्तरशततमोऽध्यायः ॥

32 श्लोक · 129 में से 241

इस अध्याय में क्या होता है

प्रतिपदा से नागपंचमी तक के तिथि-व्रत

ब्रह्मा तिथि के अनुसार व्रत गिनाते हैं। प्रतिपदा को शिखिव्रत, एक समय भोजन और अन्त में कपिला गाय का दान, अग्निलोक देता है। तृतीया के व्रत में श्री सहित श्रीधर और शिव सहित उमा पूजे जाते हैं; फाल्गुन से नमक छोड़ने पर सौभाग्य मिलता है, और गौरी, काली, उमा, भद्रा, दुर्गा आदि बारह नामों से देवी पूजी जाती हैं। चतुर्थी गणेश की है: मूलमन्त्र, अंग-मन्त्र, गणेश-गायत्री, तिल, लड्डू और मोदक का भोग, और वक्रतुण्ड, एकदन्त से भालचन्द्र और विनायक तक बारह नाम, जिनसे विद्या, धन, आयु और पुत्र मिलते हैं। पंचमी को वासुकि, तक्षक, कालिय, कर्कोटक आदि नागों को घी से नहलाने पर आरोग्य मिलता है। श्रावण में द्वार के दोनों ओर नाग बनाकर दूध और घी चढ़ाते हैं। यह विष हरने वाली दष्टोद्धार पंचमी है।

ब्रह्मोवाच

129.1

वक्ष्ये प्रतिपदादीनि व्रतानि व्यास शृण्वथ ।
वैश्वानरपदं याति शिखिव्रतमिदं स्मृतम्

vakṣye pratipadādīni vratāni vyāsa śṛṇvatha |
vaiśvānarapadaṃ yāti śikhivratamidaṃ smṛtam

129.2

प्रतिपद्येकभक्ताशी समाप्ते कपिलाप्रदः ।
चैत्रादौ कारयेच्चैव ब्रह्मपूजां यथाविधि ।
गन्धपुष्पार्चनैर्दानैर्माल्याद्यैश्च मनोरमैः

pratipadyekabhaktāśī samāpte kapilāpradaḥ |
caitrādau kārayeccaiva brahmapūjāṃ yathāvidhi |
gandhapuṣpārcanairdānairmālyādyaiśca manoramaiḥ

129.3

सहोमैः पूजयेद्देवं सर्वान्कामानवाप्नुयात् ।
कार्तिके त सितेऽष्टम्यां पुष्पहारी च वत्सरम्

sahomaiḥ pūjayeddevaṃ sarvānkāmānavāpnuyāt |
kārtike ta site'ṣṭamyāṃ puṣpahārī ca vatsaram

129.4

पुष्पादिदाता रूपेण रूपभागी भवेन्नरः ।
कृष्णपक्षे तृतीयायां श्रावणे श्रीधरं श्रिया

puṣpādidātā rūpeṇa rūpabhāgī bhavennaraḥ |
kṛṣṇapakṣe tṛtīyāyāṃ śrāvaṇe śrīdharaṃ śriyā

129.5

यजेदशून्यशय्यायां फलं दद्याद्द्विजातये ।
शय्यां दत्त्वा प्रार्थयेच्च श्रीधराय नमः श्रियै

yajedaśūnyaśayyāyāṃ phalaṃ dadyāddvijātaye |
śayyāṃ dattvā prārthayecca śrīdharāya namaḥ śriyai

129.6

उमांशिवं हुताशं च तृतीयायां च पूजयेत् ।
हविष्यमन्न नैवेद्य देय दमनकं तथा

umāṃśivaṃ hutāśaṃ ca tṛtīyāyāṃ ca pūjayet |
haviṣyamanna naivedya deya damanakaṃ tathā

129.7

चैत्रादौ फलमाप्नोति उमया मे प्रभाषितम् ।
फाल्गुनादितृतीयायां लवणं यस्तु वर्जयेत्

caitrādau phalamāpnoti umayā me prabhāṣitam |
phālgunāditṛtīyāyāṃ lavaṇaṃ yastu varjayet

129.8

समाप्ते शयनं दद्याद्गृहं चोपस्करान्वितम् ।
संपूज्य विप्रमिथनं भवानी प्रीयतामिति

samāpte śayanaṃ dadyādgṛhaṃ copaskarānvitam |
saṃpūjya vipramithanaṃ bhavānī prīyatāmiti

129.9

गौरीलोके वसेन्नित्यं सौभाग्यकरमुत्तमम् ।
गौरी काली उमा भद्रा दुर्गा कान्तिः सरस्वती

gaurīloke vasennityaṃ saubhāgyakaramuttamam |
gaurī kālī umā bhadrā durgā kāntiḥ sarasvatī

129.10

मङ्गला वैष्णवी लक्ष्मीः शिवा नारायणी क्रमात् ।
मार्गेतृतीयामारभ्य अवियोगादिमाप्नुयात्

maṅgalā vaiṣṇavī lakṣmīḥ śivā nārāyaṇī kramāt |
mārgetṛtīyāmārabhya aviyogādimāpnuyāt

129.11

चतुर्थ्यां सितमाघादौ निराहारो व्रतान्वितः ।
दत्त्वा तिलांस्तु विप्राय स्वयं भुङ्क्ते तिलोदकम्

caturthyāṃ sitamāghādau nirāhāro vratānvitaḥ |
dattvā tilāṃstu viprāya svayaṃ bhuṅkte tilodakam

129.12

वर्षद्वये समाप्तिश्च निर्विघ्नादिं समाप्नुयात् ।
गः स्वाहा मूलमन्त्रोऽयं प्रणवेन समन्वितः

varṣadvaye samāptiśca nirvighnādiṃ samāpnuyāt |
gaḥ svāhā mūlamantro'yaṃ praṇavena samanvitaḥ

129.13

ग्लैं ग्लांहृदये गां गीं हूं ह्रीं ह्रीं शिरः शिखा ।
गूं वर्म गों च गैं नेत्रं गों च आवाहनादिषु

glaiṃ glāṃhṛdaye gāṃ gīṃ hūṃ hrīṃ hrīṃ śiraḥ śikhā |
gūṃ varma goṃ ca gaiṃ netraṃ goṃ ca āvāhanādiṣu

129.14

आगच्छोल्काय गनन्धोल्कः पुष्पोल्को धूपकोल्ककः ।
दीपोल्काय महोल्काय बलिश्चाथ विस
जनम्

āgaccholkāya ganandholkaḥ puṣpolko dhūpakolkakaḥ |
dīpolkāya maholkāya baliścātha visa
janam

129.15

सिदेधोल्काय च गायत्त्री
न्यासोंगुष्ठादिरीरितः ।
ओं महाकर्णाय विद्महेवक्रतुण्डाय धीमहितन्नो दन्तिः प्रचोदयात्

sidedholkāya ca gāyattrī
nyāsoṃguṣṭhādirīritaḥ |
oṃ mahākarṇāya vidmahevakratuṇḍāya dhīmahitanno dantiḥ pracodayāt

129.16

पूजयोत्तिलहोमैश्च एते पूज्या गणास्तथा ।
गणाय गणपतये स्वाहा कूष्माण्डकाय च

pūjayottilahomaiśca ete pūjyā gaṇāstathā |
gaṇāya gaṇapataye svāhā kūṣmāṇḍakāya ca

129.17

अमोघोल्कायैकदन्ताय त्रिपुरान्तकरूपिणे ।
ओं श्याम
दन्तविकरालास्याहवेपाय वै नमः

amogholkāyaikadantāya tripurāntakarūpiṇe |
oṃ śyāma
dantavikarālāsyāhavepāya vai namaḥ

129.18

पद्मदंष्टाय स्वाहान्ते मुद्रा वै नर्तनं गणे ।
हस्ततालश्च हसनं सौभाग्यादिफलं भवेत्

padmadaṃṣṭāya svāhānte mudrā vai nartanaṃ gaṇe |
hastatālaśca hasanaṃ saubhāgyādiphalaṃ bhavet

129.19

मार्गशीर्षे तथा शुक्लचतुर्थ्यां पूजयेद्गण ।
अब्दं प्राप्नोति विद्याश्रीकीर्त्यायुः पुत्रसन्ततिम्

mārgaśīrṣe tathā śuklacaturthyāṃ pūjayedgaṇa |
abdaṃ prāpnoti vidyāśrīkīrtyāyuḥ putrasantatim

129.20

सोमवारे चतुर्थ्यां च समुपोष्यार्चयेद्गणम् ।
जपञ्जुह्वत्स्मरन्विद्या स्वर्गं निर्वाणतां व्रजेत्

somavāre caturthyāṃ ca samupoṣyārcayedgaṇam |
japañjuhvatsmaranvidyā svargaṃ nirvāṇatāṃ vrajet

129.21

यजेच्छुक्लचतुर्थ्यां यः खण्डलड्डुकमोद
कैः ।
विघ्नाचनेन सर्वान्स कामान्सौभाग्यमाप्नुयात्

yajecchuklacaturthyāṃ yaḥ khaṇḍalaḍḍukamoda
kaiḥ |
vighnācanena sarvānsa kāmānsaubhāgyamāpnuyāt

129.22

पुत्रादिकं दमनकैर्दमनाख्या चतुर्थ्यपि ।
आं गणपतये नमः चतुर्थ्यन्तं यजेद्गणम्

putrādikaṃ damanakairdamanākhyā caturthyapi |
āṃ gaṇapataye namaḥ caturthyantaṃ yajedgaṇam

129.23

मासे तु यस्मिन्कस्मिंश्चिज्जुहुयाद्वा जपेत्स्मरेत् ।
सर्वान्कामानवाप्नोति सर्वविघ्नविनाशनम्

māse tu yasminkasmiṃścijjuhuyādvā japetsmaret |
sarvānkāmānavāpnoti sarvavighnavināśanam

129.24

विनायकं मूर्तिकाद्यं यजेदेभिश्च नामभिः ।
सोऽपि सद्गतिमाप्नोति स्वर्गमोक्षसुखानि च

vināyakaṃ mūrtikādyaṃ yajedebhiśca nāmabhiḥ |
so'pi sadgatimāpnoti svargamokṣasukhāni ca

129.25

गणपूज्यो वक्रतुण्ड एकदंष्ट्री त्रियम्बकः ।
नीलग्रीवो लम्बोदरो विकटो विघ्नराजकः

gaṇapūjyo vakratuṇḍa ekadaṃṣṭrī triyambakaḥ |
nīlagrīvo lambodaro vikaṭo vighnarājakaḥ

129.26

धूम्रवर्णो भालचन्द्रो दशमस्त विनायकः ।
गणपतिर्हस्तिमुखो द्वादशारे यजेद्गणम्

dhūmravarṇo bhālacandro daśamasta vināyakaḥ |
gaṇapatirhastimukho dvādaśāre yajedgaṇam

129.27

पृथक्समस्तं मेधावी सर्वान्कामानवाप्नुयात् ।
श्रावणे चाश्विने भाद्रे पञ्चम्यां कात्तिक शुभे

pṛthaksamastaṃ medhāvī sarvānkāmānavāpnuyāt |
śrāvaṇe cāśvine bhādre pañcamyāṃ kāttika śubhe

129.28

वासुकिस्तक्षकश्चैव कालीयो मणिभद्रकः ।
ऐरावतो धृतराष्टः कर्कोटकधनञ्जयौ

vāsukistakṣakaścaiva kālīyo maṇibhadrakaḥ |
airāvato dhṛtarāṣṭaḥ karkoṭakadhanañjayau

129.29

घृताद्यैः स्नापिता ह्येते आयुरारोग्यसम्पदः ।
अनन्तं वासुकिं शङ्खं पद्मं कम्बलमेव च

ghṛtādyaiḥ snāpitā hyete āyurārogyasampadaḥ |
anantaṃ vāsukiṃ śaṅkhaṃ padmaṃ kambalameva ca

129.30

तथा कर्काटकं नागं धृतराष्ट्रं च शङ्खकम् ।
कालीयं तक्षकं चैव पिङ्गलं मासिमासि च

tathā karkāṭakaṃ nāgaṃ dhṛtarāṣṭraṃ ca śaṅkhakam |
kālīyaṃ takṣakaṃ caiva piṅgalaṃ māsimāsi ca

129.31

यजेद्भाद्रसिते नागानष्टौ मुक्तिं दिवं व्रजेत् ।
द्वारस्योभयतो लेख्याः श्रावणे तु सिते यजेत्

yajedbhādrasite nāgānaṣṭau muktiṃ divaṃ vrajet |
dvārasyobhayato lekhyāḥ śrāvaṇe tu site yajet

129.32

पञ्चम्यां पूजयेन्नागाननन्तान्द्यान्महोरगान् ।
क्षीरं सर्पिश्च नैवेद्यं देयं सर्वविषापहम् ।
नागा अभयहस्ताश्च दष्टोद्धारातु पञ्चमी

pañcamyāṃ pūjayennāgānanantāndyānmahoragān |
kṣīraṃ sarpiśca naivedyaṃ deyaṃ sarvaviṣāpaham |
nāgā abhayahastāśca daṣṭoddhārātu pañcamī

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)