व्रतानि व्यास वक्ष्यामि यैस्तुष्टः सर्वदो हरिः ।
शास्त्रोदितो हि नियमो व्रतं तच्च तपो मतम्
vratāni vyāsa vakṣyāmi yaistuṣṭaḥ sarvado hariḥ |
śāstrodito hi niyamo vrataṃ tacca tapo matam
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे व्रतपरिभाषा नामाष्टाविंशत्युत्तरशततमोऽध्यायः ॥
20 श्लोक · 128 में से 241
ब्रह्मा व्यास को बताते हैं कि व्रत क्या है: शास्त्र में कहा गया नियम, जो स्वयं तप है। व्रती दिन में तीन बार स्नान करता है, भूमि पर सोता है और इन्द्रियों को वश में रखता है; पाठ यह भी कहता है कि वह स्त्री, शूद्र और पतित से बातचीत न करे। उपवास में काँसे का पात्र, उड़द, मसूर, चना, मधु और पराया अन्न वर्जित हैं। पुष्प, आभूषण, गन्ध, अंजन, पान, बार-बार जल पीना, दिन में सोना और मैथुन उपवास को दूषित करते हैं। क्षमा, सत्य और दया से लेकर सन्तोष और अस्तेय तक दस धर्म सब व्रतों में समान हैं। मलमास में वर्जित कर्म और चार प्रकार के मास बताए गए हैं। व्रत टूटे तो तीन दिन उपवास और मुण्डन; रोगी पुत्र से व्रत करवाए।
ब्रह्मोवाच
व्रतानि व्यास वक्ष्यामि यैस्तुष्टः सर्वदो हरिः ।
शास्त्रोदितो हि नियमो व्रतं तच्च तपो मतम्
vratāni vyāsa vakṣyāmi yaistuṣṭaḥ sarvado hariḥ |
śāstrodito hi niyamo vrataṃ tacca tapo matam
नियमास्तु विशेषाः स्युः व्रतस्यास्य दमादयः ।
नित्यं त्रिषवणं स्नायादधः शयी जितेन्द्रियः
niyamāstu viśeṣāḥ syuḥ vratasyāsya damādayaḥ |
nityaṃ triṣavaṇaṃ snāyādadhaḥ śayī jitendriyaḥ
स्त्रीशूद्रपतितानां तु वर्जयेदभिभाषणम् ।
पवित्राणि च पञ्चैव जुहुयाच्चैव शक्तितः
strīśūdrapatitānāṃ tu varjayedabhibhāṣaṇam |
pavitrāṇi ca pañcaiva juhuyāccaiva śaktitaḥ
कृच्छ्राण्येतानि सर्वाणि चरेत्सुकृतवान्नरः ।
केशानां रक्षणार्थं तु द्विगुणं व्रतमाचरेत्
kṛcchrāṇyetāni sarvāṇi caretsukṛtavānnaraḥ |
keśānāṃ rakṣaṇārthaṃ tu dviguṇaṃ vratamācaret
कांस्यं माषं मसूरं चचणकं कोरदूषकम् ।
शाकं मधु परान्नं च वर्जयेदुपवासवान्
kāṃsyaṃ māṣaṃ masūraṃ cacaṇakaṃ koradūṣakam |
śākaṃ madhu parānnaṃ ca varjayedupavāsavān
पुष्पालङ्कारवस्त्राणि धूपगन्धानुलेपनम् ।
उपवासेन दुष्येत्तु दन्तधावनमञ्जनम्
puṣpālaṅkāravastrāṇi dhūpagandhānulepanam |
upavāsena duṣyettu dantadhāvanamañjanam
दन्तकाष्ठं पञ्चगव्यं कृत्वा प्रातर्व्रतं चरेत् ।
असकृज्जलपानाच्च ताम्बूलस्य च भक्षणात्
dantakāṣṭhaṃ pañcagavyaṃ kṛtvā prātarvrataṃ caret |
asakṛjjalapānācca tāmbūlasya ca bhakṣaṇāt
उपवासः प्रदुष्येत दिवास्वप्ना क्षमैथुनात् ।
क्षमा सत्यं दया दानं शौचमिन्द्रियनिग्रहः
upavāsaḥ praduṣyeta divāsvapnā kṣamaithunāt |
kṣamā satyaṃ dayā dānaṃ śaucamindriyanigrahaḥ
देवपूजाग्निहवने सन्तोषोस्तेयमेव च ।
सर्वव्रतेष्वयं धर्मः सामान्यो दशधास्मृतः
devapūjāgnihavane santoṣosteyameva ca |
sarvavrateṣvayaṃ dharmaḥ sāmānyo daśadhāsmṛtaḥ
नक्षत्रदर्शनान्नक्तमनक्तं निशि भोजनम् ।
गोमूत्रं च पल दद्यादर्धाङ्गुष्ठं तु गोमयम्
nakṣatradarśanānnaktamanaktaṃ niśi bhojanam |
gomūtraṃ ca pala dadyādardhāṅguṣṭhaṃ tu gomayam
क्षीरं सप्तपलं दद्याद्दध्नश्चैव पलत्रयम् ।
घृतमेकफलं दद्यात्पलमेकं कुशोदकम्
kṣīraṃ saptapalaṃ dadyāddadhnaścaiva palatrayam |
ghṛtamekaphalaṃ dadyātpalamekaṃ kuśodakam
गायत्त्र्या चैव गन्धेति आप्यायस्व दृ दधिग्रहः ।
तेजोऽसीति च देवस्य ब्रह्मकूर्चव्रतं चरेत्
gāyattryā caiva gandheti āpyāyasva dṛ dadhigrahaḥ |
tejo'sīti ca devasya brahmakūrcavrataṃ caret
अग्न्याधानं प्रतिष्ठां तु यज्ञदानव्रतानि च ।
वेदव्रतवृषोत्सर्गचूडाकरणमेखलाः
agnyādhānaṃ pratiṣṭhāṃ tu yajñadānavratāni ca |
vedavratavṛṣotsargacūḍākaraṇamekhalāḥ
माङ्गल्यमभिषेकं च मलमासे विवर्जयत् ।
दर्शाद्दर्शस्य चान्द्रः स्यात्त्रिंशाहोभिस्तु सावनः
māṅgalyamabhiṣekaṃ ca malamāse vivarjayat |
darśāddarśasya cāndraḥ syāttriṃśāhobhistu sāvanaḥ
रविसंक्रमणात्सौरो नाक्षत्रः सप्तविंशतिः ।
सौरो मासो विवाहाय यज्ञादौ सावनस्थितिः
ravisaṃkramaṇātsauro nākṣatraḥ saptaviṃśatiḥ |
sauro māso vivāhāya yajñādau sāvanasthitiḥ
युग्माग्नियुगभूतानि षण्मुन्योर्वसुरन्ध्रयोः ।
रुद्रेण द्वादशी युक्ता चतुर्दश्याथ पूर्णिमा
yugmāgniyugabhūtāni ṣaṇmunyorvasurandhrayoḥ |
rudreṇa dvādaśī yuktā caturdaśyātha pūrṇimā
प्रतिपद्यप्यमावास्या तिथ्योर्मस्यं महाफलम् ।
एतद्व्यस्तं महाघोरं हन्ति पुण्यं पुरा कृतम्
pratipadyapyamāvāsyā tithyormasyaṃ mahāphalam |
etadvyastaṃ mahāghoraṃ hanti puṇyaṃ purā kṛtam
प्रारब्धतपसा स्त्रीणां रजो हन्याद्व्रतं न हि ।
अन्यैर्दानादिकं कुर्यात्कायिकं स्वयमेव च
prārabdhatapasā strīṇāṃ rajo hanyādvrataṃ na hi |
anyairdānādikaṃ kuryātkāyikaṃ svayameva ca
क्रोधात्प्रमादाल्लोभाद्वा व्रतभङ्गो भवेद्यदि ।
दिनत्रयं न भुञ्जीत शिरसो मुण्डनं भवेत्
krodhātpramādāllobhādvā vratabhaṅgo bhavedyadi |
dinatrayaṃ na bhuñjīta śiraso muṇḍanaṃ bhavet
असामर्थ्ये शरीरस्य पुत्रादीन्कारयेद्व्रतम् ।
व्रतस्थं मूर्छितं विप्रं जलादीन्यनुपाययेत्
asāmarthye śarīrasya putrādīnkārayedvratam |
vratasthaṃ mūrchitaṃ vipraṃ jalādīnyanupāyayet
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)