रम्भातृतीयां वक्ष्ये च सौभाग्यश्रीसुतादिदाम् ।
मार्गशीर्षेसिते पक्षे तृतीयायामुपोषितः
rambhātṛtīyāṃ vakṣye ca saubhāgyaśrīsutādidām |
mārgaśīrṣesite pakṣe tṛtīyāyāmupoṣitaḥ
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रम्भातृतीयाव्रतं नाम विंशत्युत्तरशततमोऽध्यायः ॥
11 श्लोक · 120 में से 241
ब्रह्मा रम्भा तृतीया व्रत बताते हैं, जो सौभाग्य, श्री और पुत्र देता है। मार्गशीर्ष शुक्ल तृतीया से आरम्भ कर व्रती उपवास रखे और बिल्वपत्रों से गौरी की पूजा करे। हर मास देवी अलग नाम से पूजी जाती हैं: पौष में मरुबक से गिरिसुता, माघ में कल्हार से सुभद्रा, फाल्गुन में कुन्द से गोमती, चैत्र में दमनक से विशालाक्षी, फिर श्रीमुखी, उत्तमा, भाद्रपद में कमलों से देवी, आश्विन में जपा पुष्पों से राजपुत्री, और कार्तिक में जाती पुष्पों से पद्मजा, जिसमें व्रती पञ्चगव्य लेता है। वर्ष के अन्त में सपत्नीक ब्राह्मणों को घी भात खिलाया जाता है, उमामहेश्वर की पूजा होती है और वस्त्र और सोना दिया जाता है। गीत वाद्य के साथ रात्रि जागरण करके प्रातः गोदान किया जाता है, और व्रती सब कामनाएँ पाता है।
ब्रह्मोवाच
रम्भातृतीयां वक्ष्ये च सौभाग्यश्रीसुतादिदाम् ।
मार्गशीर्षेसिते पक्षे तृतीयायामुपोषितः
rambhātṛtīyāṃ vakṣye ca saubhāgyaśrīsutādidām |
mārgaśīrṣesite pakṣe tṛtīyāyāmupoṣitaḥ
गौरीं यजेद्बिल्वपत्रैः कुशोदककरस्ततः ।
कदम्बादौ गिरिसुतां पौषे मरुबकैर्यजेत्
gaurīṃ yajedbilvapatraiḥ kuśodakakarastataḥ |
kadambādau girisutāṃ pauṣe marubakairyajet
कर्पूरादः कृसरदो मल्लिकादन्तकाष्ठकृत् ।
माघेसुभद्रां कल्हारैर्घृताशो मण्डकप्रदः
karpūrādaḥ kṛsarado mallikādantakāṣṭhakṛt |
māghesubhadrāṃ kalhārairghṛtāśo maṇḍakapradaḥ
गीतीमयं तन्तकाष्ठं फाल्गुने गोमतीं यजेत् ।
कुन्दैः कृत्वा दन्तकाष्ठं जीवाशः शष्कुलीप्रदः
gītīmayaṃ tantakāṣṭhaṃ phālgune gomatīṃ yajet |
kundaiḥ kṛtvā dantakāṣṭhaṃ jīvāśaḥ śaṣkulīpradaḥ
विशालाक्षीं दमनकैश्चैत्रे च कृसरप्रदः ।
दधिप्राशो दन्तकाष्ठं तगरं श्रीमुखीं यजेत्
viśālākṣīṃ damanakaiścaitre ca kṛsarapradaḥ |
dadhiprāśo dantakāṣṭhaṃ tagaraṃ śrīmukhīṃ yajet
वैशाखे कर्णिकारैश्च अशोकाशो वटप्रदः ।
ज्येष्ठे नारायणीमर्चेच्छतपत्रैश्च खण्डदः ।
लवङ्गाशो भवेदेव आषाढे माधवीं यजेत्
vaiśākhe karṇikāraiśca aśokāśo vaṭapradaḥ |
jyeṣṭhe nārāyaṇīmarcecchatapatraiśca khaṇḍadaḥ |
lavaṅgāśo bhavedeva āṣāḍhe mādhavīṃ yajet
तिलाशो बिल्वपत्रैश्च क्षीरान्नवटकप्रदः ।
औदुम्बरं दन्तकाष्ठं तगर्याः श्रावणे श्रियम्
tilāśo bilvapatraiśca kṣīrānnavaṭakapradaḥ |
audumbaraṃ dantakāṣṭhaṃ tagaryāḥ śrāvaṇe śriyam
दन्तकाष्ठं मल्लिकाया क्षीरदो ह्युत्तमां यजेत् ।
पद्मैर्यजेद्भाद्रपदे शृङ्गदाशो गृडादिदः
dantakāṣṭhaṃ mallikāyā kṣīrado hyuttamāṃ yajet |
padmairyajedbhādrapade śṛṅgadāśo gṛḍādidaḥ
राजपुत्रीं चाश्वयुजे जपापुष्पैश्च जीरकम् ।
प्राशयेन्निशि नैवेद्यैः कृसरैः कार्तिके यजेत्
rājaputrīṃ cāśvayuje japāpuṣpaiśca jīrakam |
prāśayenniśi naivedyaiḥ kṛsaraiḥ kārtike yajet
जातीपुष्पैः पद्मजां च पञ्चगव्याशनो यजेत् ।
घृतोदनं च वर्षान्ते सपत्नीकान्द्विजान्यजेत्
jātīpuṣpaiḥ padmajāṃ ca pañcagavyāśano yajet |
ghṛtodanaṃ ca varṣānte sapatnīkāndvijānyajet
उमामहेश्वरं पूज्य प्रदद्याच्च गुडादिकम् ।
वस्त्रच्छत्रसुवर्णाद्यैः रात्रौ च कृतजागरः ।
गीतवाद्यैर्ददत्प्रतर्गवाद्यं सर्वमान्पुयात्
umāmaheśvaraṃ pūjya pradadyācca guḍādikam |
vastracchatrasuvarṇādyaiḥ rātrau ca kṛtajāgaraḥ |
gītavādyairdadatpratargavādyaṃ sarvamānpuyāt
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)