व्रतानि व्यास वक्ष्यामि हरिर्यैः सर्वदो भवेत् ।
सर्वमासर्क्षतिथिषु वारेषु हरिरर्चितः
vratāni vyāsa vakṣyāmi hariryaiḥ sarvado bhavet |
sarvamāsarkṣatithiṣu vāreṣu harirarcitaḥ
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे तिथ्यादिव्रतवर्णनं नाम षोडशोत्तरशततमोऽध्यायः ॥
8 श्लोक · 116 में से 241
ब्रह्मा व्यास से व्रतों का वर्णन आरम्भ करते हैं: हर मास, नक्षत्र, तिथि और वार में एकभुक्त, नक्त, उपवास या फलाहार से पूजे गए हरि धन, धान्य, पुत्र, राज्य और विजय देते हैं। फिर हर तिथि का देवता बताया गया है। प्रतिपदा को वैश्वानर और कुबेर, और उपवास करके ब्रह्मा पूजे जाते हैं; द्वितीया को यम और लक्ष्मीनारायण; तृतीया को गौरी, विघ्नेश और शङ्कर, ये तीन देव; चतुर्थी को चतुर्व्यूह; पञ्चमी को हरि; षष्ठी को कार्तिकेय; सप्तमी को भास्कर; अष्टमी को दुर्गा; नवमी को मातृकाएँ और दिशाएँ; दशमी को यम और चन्द्र; एकादशी को ऋषि; द्वादशी को हरि और काम; त्रयोदशी को महेश्वर; चतुर्दशी और पूर्णिमा को ब्रह्मा और पितर। अमावस्या को रवि आदि वार पूजे जाते हैं, और पूजित नक्षत्र तथा योग भी सब कुछ देते हैं।
ब्रह्मोवाच
व्रतानि व्यास वक्ष्यामि हरिर्यैः सर्वदो भवेत् ।
सर्वमासर्क्षतिथिषु वारेषु हरिरर्चितः
vratāni vyāsa vakṣyāmi hariryaiḥ sarvado bhavet |
sarvamāsarkṣatithiṣu vāreṣu harirarcitaḥ
एकभक्तेन नक्तेन उपवासफलादिना ।
ददाति धनधान्यादि पुत्रराज्यजयादिकम्
ekabhaktena naktena upavāsaphalādinā |
dadāti dhanadhānyādi putrarājyajayādikam
वैश्वानरः प्रतिपदि कुबेरः पूजितोऽर्थदः ।
उपोष्य ब्रह्मा प्रतिपद्यर्चितः श्रीस्तथाश्विनी
vaiśvānaraḥ pratipadi kuberaḥ pūjito'rthadaḥ |
upoṣya brahmā pratipadyarcitaḥ śrīstathāśvinī
द्वितीयायां यमो लक्ष्मीनारायण इहार्थदः ।
तृतीयायां त्रिदेवाश्च गौरीविघ्नेशशङ्कराः
dvitīyāyāṃ yamo lakṣmīnārāyaṇa ihārthadaḥ |
tṛtīyāyāṃ tridevāśca gaurīvighneśaśaṅkarāḥ
चतुर्थ्यां च चतुर्व्यूहः पञ्चम्यामर्चितो हरिः ।
कार्तिकेयो रविः षष्ठ्यां सप्तम्यां भास्करोऽर्थदः
caturthyāṃ ca caturvyūhaḥ pañcamyāmarcito hariḥ |
kārtikeyo raviḥ ṣaṣṭhyāṃ saptamyāṃ bhāskaro'rthadaḥ
दुर्गाष्टम्यां नवम्यां च मातरोऽथ दिशोऽर्थदाः ।
दशम्यां च यमश्चन्द्र एकादश्यामृषीन्यजेत्
durgāṣṭamyāṃ navamyāṃ ca mātaro'tha diśo'rthadāḥ |
daśamyāṃ ca yamaścandra ekādaśyāmṛṣīnyajet
द्वादश्यां च हरिः कामस्त्रयोदश्यां महेश्वरः ।
चतुर्दश्यां पञ्चदश्यां ब्रह्मा च पितरोऽर्थदाः
dvādaśyāṃ ca hariḥ kāmastrayodaśyāṃ maheśvaraḥ |
caturdaśyāṃ pañcadaśyāṃ brahmā ca pitaro'rthadāḥ
अमावास्यां पूजनीया वारा वै भास्करादयः ।
नक्षत्राणि च योगाश्च पूजिताः सर्वदायकाः
amāvāsyāṃ pūjanīyā vārā vai bhāskarādayaḥ |
nakṣatrāṇi ca yogāśca pūjitāḥ sarvadāyakāḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)