मार्गशीर्षे सिते पक्षे व्यासांनङ्गत्रयोदशी ।
मल्लिकाजं दन्तकाष्ठं धुतूरैः पूजयेच्छिवम्
mārgaśīrṣe site pakṣe vyāsāṃnaṅgatrayodaśī |
mallikājaṃ dantakāṣṭhaṃ dhutūraiḥ pūjayecchivam
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डेऽनङ्गत्रयोदशीव्रतं नाम सप्तदशोत्तरशततमोऽध्यायः ॥
15 श्लोक · 117 में से 241
ब्रह्मा व्यास को अनङ्ग त्रयोदशी बताते हैं, जो मार्गशीर्ष से आरम्भ करके हर मास शुक्ल त्रयोदशी को किया जाता है। हर मास के लिए वे शिव का रूप, पुष्प, दातुन और नैवेद्य बताते हैं। मार्गशीर्ष में धतूरे और मल्लिका की दातुन से शिव पूजा होती है और नैवेद्य अनङ्ग को अर्पित होता है; पौष में बिल्वपत्र से योगेश्वर; माघ में कुन्द और मोतियों की माला से नटेश्वर; फाल्गुन में मरुबक से वीरेश्वर; कार्तिक में रुद्र। वर्ष के अन्त में कमलों से शिव की पूजा होती है, और रति सहित अनङ्ग को स्वर्ण मण्डल पर स्थापित कर तिल और धान की दस हजार आहुतियाँ दी जाती हैं। व्रती ब्राह्मण को शय्या, छत्र, वस्त्र और गाय देता है, और श्री, पुत्र, आरोग्य, सौभाग्य तथा स्वर्ग पाता है।
ब्रह्मोवाच
मार्गशीर्षे सिते पक्षे व्यासांनङ्गत्रयोदशी ।
मल्लिकाजं दन्तकाष्ठं धुतूरैः पूजयेच्छिवम्
mārgaśīrṣe site pakṣe vyāsāṃnaṅgatrayodaśī |
mallikājaṃ dantakāṣṭhaṃ dhutūraiḥ pūjayecchivam
अनङ्गायेति नैवेद्यं मधप्राश्याथ पौषके ।
योगेश्वरं पूजयेच्च बिल्वपत्रैः कदम्बजम् ।
दन्तकाष्ठं चन्दनादि नैवेद्यं कृसरादिकम्
anaṅgāyeti naivedyaṃ madhaprāśyātha pauṣake |
yogeśvaraṃ pūjayecca bilvapatraiḥ kadambajam |
dantakāṣṭhaṃ candanādi naivedyaṃ kṛsarādikam
माघे नटेश्वरायार्च्य कुन्दैर्मौक्तिकमालया ।
प्लक्षेण दन्तकाष्ठं च नैवेद्यं पूरिका मुने
māghe naṭeśvarāyārcya kundairmauktikamālayā |
plakṣeṇa dantakāṣṭhaṃ ca naivedyaṃ pūrikā mune
वीरेश्वरं फाल्गुने तु पूजयेत्तु मरूबकैः ।
शर्कराशाकमण्डाश्च चूतजं दन्तधावनम्
vīreśvaraṃ phālgune tu pūjayettu marūbakaiḥ |
śarkarāśākamaṇḍāśca cūtajaṃ dantadhāvanam
चैत्रे यजेत्सु रूपाय कर्पूरं प्राशयेन्निशि ।
दन्तधावनाटजं नैवेद्यं शष्कुलीं ददेत्
caitre yajetsu rūpāya karpūraṃ prāśayenniśi |
dantadhāvanāṭajaṃ naivedyaṃ śaṣkulīṃ dadet
पूजा दमनकः शम्भोर्वेशाखेऽशोक्रपुष्पकैः ।
महारूपाय नैवेद्यं गुडभक्तं पुट्टबरम्
pūjā damanakaḥ śambhorveśākhe'śokrapuṣpakaiḥ |
mahārūpāya naivedyaṃ guḍabhaktaṃ puṭṭabaram
दन्तकाष्ठं प्राशयेच्च ददेज्जतीफलं तथा ।
प्रद्युम्नं पूजयेज्ज्येष्ठे चम्पकैर्बिल्वजं दशेत्
dantakāṣṭhaṃ prāśayecca dadejjatīphalaṃ tathā |
pradyumnaṃ pūjayejjyeṣṭhe campakairbilvajaṃ daśet
लवगारा तथा षढि उमामदति शासनः ।
अगुरुं दन्तकाष्ठं च तमपामार्गकैर्यजेत्
lavagārā tathā ṣaḍhi umāmadati śāsanaḥ |
aguruṃ dantakāṣṭhaṃ ca tamapāmārgakairyajet
श्रावणे करवीरं च शम्भवे शूलपाणये ।
गन्धाशनो घृताद्यैश्च करवीरजशोधनम्
śrāvaṇe karavīraṃ ca śambhave śūlapāṇaye |
gandhāśano ghṛtādyaiśca karavīrajaśodhanam
सद्योजातं भाद्रपदे बकुलैः पूपकैर्यजेत् ।
गन्धर्वाशो मदनकमाश्विने च सुराधिपम्
sadyojātaṃ bhādrapade bakulaiḥ pūpakairyajet |
gandharvāśo madanakamāśvine ca surādhipam
चम्पकैः स्वर्णवा
यादो जिन्मोदकसंप्रदः ।
खादिरं दन्तकाष्ठं च कार्तिके रुद्रमर्चयेत्
campakaiḥ svarṇavā
yādo jinmodakasaṃpradaḥ |
khādiraṃ dantakāṣṭhaṃ ca kārtike rudramarcayet
बदर्या दन्तकाष्ठं च मदनो दशमाशनः ।
क्षीरशाकप्रदः पद्मैरब्दन्ते शिवमर्चयेत्
badaryā dantakāṣṭhaṃ ca madano daśamāśanaḥ |
kṣīraśākapradaḥ padmairabdante śivamarcayet
रतिमुक्तमनङ्गं च स्वर्णमण्डलसंस्थितम् ।
गन्धाद्यैर्दशसाहस्रं तिलव्रीह्यादि होमयेत्
ratimuktamanaṅgaṃ ca svarṇamaṇḍalasaṃsthitam |
gandhādyairdaśasāhasraṃ tilavrīhyādi homayet
जागरं गीतवदित्रं प्रभितऽभ्यार्च्य वेदयेत् ।
द्विजाय शय्यां पात्रं च छत्रं वस्त्रमुपानहौ
jāgaraṃ gītavaditraṃ prabhita'bhyārcya vedayet |
dvijāya śayyāṃ pātraṃ ca chatraṃ vastramupānahau
गां द्विजं भोजयेद्भक्त्या कृतकृत्यो भवेन्नरः ।
एतदुद्यापनं सर्वं व्रतेषु ध्येपमीदृशम् ।
फलञ्च श्रीसुतारोग्यसौभाग्यस्वर्गतं भवेत्
gāṃ dvijaṃ bhojayedbhaktyā kṛtakṛtyo bhavennaraḥ |
etadudyāpanaṃ sarvaṃ vrateṣu dhyepamīdṛśam |
phalañca śrīsutārogyasaubhāgyasvargataṃ bhavet
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)