नवव्यूहार्चनं वक्ष्ये यदुक्तं कश्यपाय हि ।
जीवमुत्क्षिप्य मूर्द्धन्यां नाभ्यां व्योम्निनिवेशयेत्
navavyūhārcanaṃ vakṣye yaduktaṃ kaśyapāya hi |
jīvamutkṣipya mūrddhanyāṃ nābhyāṃ vyomniniveśayet
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नवव्यूहार्चनं नामैकादशोऽध्यायः ॥
44 श्लोक · 11 में से 241
श्रीहरि वह नवव्यूह पूजन बताते हैं जो कश्यप को कहा गया था। साधक पहले मन में शरीर शुद्ध करता है: रं बीज से वह जलता है, यं से बिखरता है, लं से प्लावित होता है और वं से अमृत बरसता है; फिर वह स्वयं को चतुर्भुज विष्णु रूप में देखता है। फिर द्वादशाक्षर मन्त्र और छह अंगों का हाथों तथा शरीर पर न्यास होता है। हृदय में धर्म, ज्ञान, वैराग्य और ऐश्वर्य से बना योगपीठ, नीचे अनन्त, सूर्य, चन्द्र और अग्नि मण्डलों सहित श्वेत शतदल कमल और विमला आदि आठ शक्तियाँ ध्यान की जाती हैं। वहाँ हरि का आवाहन होता है; पूर्व द्वार पर गरुड़, दक्षिण पर सुदर्शन, दोनों ओर श्री और लक्ष्मी। अंजलि से नृसिंह मुद्रा तक मुद्राएँ दिखाई जाती हैं।
हरिरुवाच
नवव्यूहार्चनं वक्ष्ये यदुक्तं कश्यपाय हि ।
जीवमुत्क्षिप्य मूर्द्धन्यां नाभ्यां व्योम्निनिवेशयेत्
navavyūhārcanaṃ vakṣye yaduktaṃ kaśyapāya hi |
jīvamutkṣipya mūrddhanyāṃ nābhyāṃ vyomniniveśayet
ततोरमिति बीजेन दहेद्भूतात्मकं वपुः ।
यमित्यनेन बीजेन तच्च सर्व विनाशयेत्
tatoramiti bījena dahedbhūtātmakaṃ vapuḥ |
yamityanena bījena tacca sarva vināśayet
लमित्यनेन बीजेन प्लावयेत्सचराचरम् ।
वमित्यनेन बीजेन चिन्तयेदमृतं ततः
lamityanena bījena plāvayetsacarācaram |
vamityanena bījena cintayedamṛtaṃ tataḥ
ततो बुद्वुदमध्ये तु पीतवासाश्चतुर्भुजः ।
अहं मतस्तथात्मानं ध्यानेन परिचिन्तयेत्
tato budvudamadhye tu pītavāsāścaturbhujaḥ |
ahaṃ matastathātmānaṃ dhyānena paricintayet
मन्त्रन्यासं ततः कुर्यात्त्रिविधं करदेहयोः ।
द्वादशाक्षरबीजेन उक्तबीजैरनन्तरम्
mantranyāsaṃ tataḥ kuryāttrividhaṃ karadehayoḥ |
dvādaśākṣarabījena uktabījairanantaram
षडङ्गेन ततः कुर्य्यात्साक्षाद्येन हरिर्भवेत् ।
दक्षिणाङ्गुष्ठमारभ्य मध्याङ्गुष्ठंदले न्यसेत्
ṣaḍaṅgena tataḥ kuryyātsākṣādyena harirbhavet |
dakṣiṇāṅguṣṭhamārabhya madhyāṅguṣṭhaṃdale nyaset
मध्ये बीजद्वयं न्यस्य न्यसेदङ्गे ततः पुनः ।
हृच्छिरसि शिखावर्म्मवक्क्राक्ष्युदहपृष्ठतः
madhye bījadvayaṃ nyasya nyasedaṅge tataḥ punaḥ |
hṛcchirasi śikhāvarmmavakkrākṣyudahapṛṣṭhataḥ
बाह्वोश्च करयोर्जान्वोः पादयोश्चापि विन्यसेत् ।
पद्माकारौ करौ कृत्वा मध्येऽङ्गुष्ठं निवेशयेत्
bāhvośca karayorjānvoḥ pādayoścāpi vinyaset |
padmākārau karau kṛtvā madhye'ṅguṣṭhaṃ niveśayet
चिन्तयेत्तत्र सर्वेशं परं तत्त्वमनामयम् ।
क्रमाच्चैतानि बीजानि तर्जन्यादिषु विन्य सेत्
cintayettatra sarveśaṃ paraṃ tattvamanāmayam |
kramāccaitāni bījāni tarjanyādiṣu vinya set
ततो मूर्द्धाक्षिवक्क्रेषु कण्ठे च हृदये तथा ।
नाभौ गुह्ये तथा जान्वोः पादयोर्विन्यसेत्क्रमात्
tato mūrddhākṣivakkreṣu kaṇṭhe ca hṛdaye tathā |
nābhau guhye tathā jānvoḥ pādayorvinyasetkramāt
पाण्योः षडङ्गबीजानि न्यस्य काये ततो न्यसेत् ।
अङ्गुष्ठादिकनिष्ठान्तं विन्यसेद्वीजपञ्चकम्
pāṇyoḥ ṣaḍaṅgabījāni nyasya kāye tato nyaset |
aṅguṣṭhādikaniṣṭhāntaṃ vinyasedvījapañcakam
करमध्ये नेत्रबीजमङ्गन्यासऽप्ययं क्रमः ।
हृदये हृदयं न्यस्य शिरः शिरसि विन्यसेत्
karamadhye netrabījamaṅganyāsa'pyayaṃ kramaḥ |
hṛdaye hṛdayaṃ nyasya śiraḥ śirasi vinyaset
शिखायां तु शिखां न्यस्य कवचं सर्वतस्तनौ ।
नेत्रं नेत्रे विधातव्यमस्त्रञ्च करयोर्द्वयोः
śikhāyāṃ tu śikhāṃ nyasya kavacaṃ sarvatastanau |
netraṃ netre vidhātavyamastrañca karayordvayoḥ
तेनैव च दिशो बद्धा पूजा विधिमथाचरेत् ।
हृदये चिन्तयेत्पूर्वं योगपीठं समाहितः
tenaiva ca diśo baddhā pūjā vidhimathācaret |
hṛdaye cintayetpūrvaṃ yogapīṭhaṃ samāhitaḥ
धर्म ज्ञनं च वैराग्यमैश्वर्यं च यथाक्रमम् ।
आग्नेयादौ च पूर्वादावधर्मादींश्च विन्यसेत्
dharma jñanaṃ ca vairāgyamaiśvaryaṃ ca yathākramam |
āgneyādau ca pūrvādāvadharmādīṃśca vinyaset
एभिः परिच्छन्नतनुं पीठभूतं तदात्मकम् ।
अनन्तं विन्यसेत्पश्चात्पूर्वकायोन्नतं स्थितम्
ebhiḥ paricchannatanuṃ pīṭhabhūtaṃ tadātmakam |
anantaṃ vinyasetpaścātpūrvakāyonnataṃ sthitam
ततो विद्यात्सरोजातं दलाष्टसमदिग्दलम् ।
सिताब्जं शतपत्राढ्यं विप्रकीर्णोर्द्धकर्णिकम्
tato vidyātsarojātaṃ dalāṣṭasamadigdalam |
sitābjaṃ śatapatrāḍhyaṃ viprakīrṇorddhakarṇikam
ध्यात्वा वेदादिना पश्चात्सूर्य्यसोमानलात्मनाम् ।
मण्डलानि क्रमादेवमुपर्य्युपरि चिन्तयेत्
dhyātvā vedādinā paścātsūryyasomānalātmanām |
maṇḍalāni kramādevamuparyyupari cintayet
ततः पूर्वादिदिक्संस्थाः शक्तीः केशवगोचराः ।
विमलाद्या न्यसेदष्टौ नवमीं कर्णिकागताम्
tataḥ pūrvādidiksaṃsthāḥ śaktīḥ keśavagocarāḥ |
vimalādyā nyasedaṣṭau navamīṃ karṇikāgatām
एवं ध्यात्वा समभ्यर्च्य योगपीठमनन्तरम् ।
मनसावाह्य तत्रेशं हरिं शार्ङ्गं न्यसेत्पुनः
evaṃ dhyātvā samabhyarcya yogapīṭhamanantaram |
manasāvāhya tatreśaṃ hariṃ śārṅgaṃ nyasetpunaḥ
हृदयादीनि पूर्वादिचतुर्दिग्दलयोगतः ।
मध्ये नेत्रं तु कोणेषु अस्त्रमन्त्रं न्यसेत्ततः
hṛdayādīni pūrvādicaturdigdalayogataḥ |
madhye netraṃ tu koṇeṣu astramantraṃ nyasettataḥ
सङ्कर्षणादिबीजानि पूर्वादिक्रमयोगतः ।
द्वारि पूर्वे परे चैव वैनतेयं तु विन्यसेत्
saṅkarṣaṇādibījāni pūrvādikramayogataḥ |
dvāri pūrve pare caiva vainateyaṃ tu vinyaset
सुदर्शनं सहस्त्रारं दक्षिणे द्वारि विन्यसेत् ।
श्रियं दक्षिणतो न्यस्य लक्ष्मीमुत्तरतस्तथा
sudarśanaṃ sahastrāraṃ dakṣiṇe dvāri vinyaset |
śriyaṃ dakṣiṇato nyasya lakṣmīmuttaratastathā
द्वार्य्यत्तरे गदां न्यस्य शङ्खं कोणेषु विन्यसेत् ।
देवदक्षिणतः शार्ङ्गं वामे चैव सुधीर्न्यसेत्
dvāryyattare gadāṃ nyasya śaṅkhaṃ koṇeṣu vinyaset |
devadakṣiṇataḥ śārṅgaṃ vāme caiva sudhīrnyaset
तद्वत्खङ्गं तथा चक्रं न्यसेत्पार्श्वद्वयोर्द्वयम् ।
ततोऽन्तर्लोकपालांश्च स्वदिग्भेदेन विन्यसेत्
tadvatkhaṅgaṃ tathā cakraṃ nyasetpārśvadvayordvayam |
tato'ntarlokapālāṃśca svadigbhedena vinyaset
वज्रादीन्यायुधान्येव तथैव विनिवेशयेत् ।
ऊर्घ्वं ब्रह्म तथानन्तमधश्च परिचिन्तयेत्
vajrādīnyāyudhānyeva tathaiva viniveśayet |
ūrghvaṃ brahma tathānantamadhaśca paricintayet
सर्वं ध्यात्वेति संपूज्य मुद्राः सन्दर्शयेत्ततः ।
अञ्जलिः प्रथमा मुद्रा क्षिप्रं देवप्रसाधनी
sarvaṃ dhyātveti saṃpūjya mudrāḥ sandarśayettataḥ |
añjaliḥ prathamā mudrā kṣipraṃ devaprasādhanī
वन्दनी हृदयासक्तात्सार्द्धं दक्षिणतोन्नता ।
ऊर्द्धाङ्गुष्ठो वाममुष्टिर्दक्षिणांगुष्ठबन्धनः
vandanī hṛdayāsaktātsārddhaṃ dakṣiṇatonnatā |
ūrddhāṅguṣṭho vāmamuṣṭirdakṣiṇāṃguṣṭhabandhanaḥ
सव्यस्य तस्य चांगुष्ठो यः स उद्ध्र्वः प्रकीर्त्तितः ।
तिस्त्रः साधारणा ह्येता मूर्त्तिभेदेन कल्पिताः
savyasya tasya cāṃguṣṭho yaḥ sa uddhrvaḥ prakīrttitaḥ |
tistraḥ sādhāraṇā hyetā mūrttibhedena kalpitāḥ
कनिष्ठादिप्रयोगेण अष्टौ मुद्रा यथाक्रमम् ।
अष्टानां पूर्वबीजानां क्रमशस्त्ववधारयेत्
kaniṣṭhādiprayogeṇa aṣṭau mudrā yathākramam |
aṣṭānāṃ pūrvabījānāṃ kramaśastvavadhārayet
अंगुष्ठेन कनिष्ठान्तं नामयित्वांगुलित्रयम् ।
मुद्रेयं नरसिंहस्य न्युब्जं कृत्वा करद्वयम्
aṃguṣṭhena kaniṣṭhāntaṃ nāmayitvāṃgulitrayam |
mudreyaṃ narasiṃhasya nyubjaṃ kṛtvā karadvayam
सव्यहस्तं तथोत्तानं कृत्वोर्द्धं भ्रामयेच्छनैः ।
नवमीयं स्मृता मुद्रा वराहाभिमता सदा
savyahastaṃ tathottānaṃ kṛtvorddhaṃ bhrāmayecchanaiḥ |
navamīyaṃ smṛtā mudrā varāhābhimatā sadā
मुष्टिद्वयमथोत्तानमृज्वेकैकेन मोचयेत् ।
उत्कुञ्चये त्सर्वमुक्ता अंगमुद्रेयमुच्यते
muṣṭidvayamathottānamṛjvekaikena mocayet |
utkuñcaye tsarvamuktā aṃgamudreyamucyate
मुष्टिद्वयमथो बद्धा एवमेवानुपूर्वशः ।
दशानां लोकपालानां मुद्राश्च क्रमयोगतः
muṣṭidvayamatho baddhā evamevānupūrvaśaḥ |
daśānāṃ lokapālānāṃ mudrāśca kramayogataḥ
स्वरमाद्यं द्वितीयं च उपान्त्यञ्चान्त्यमेव च ।
वासुदेवो बलः कामो ह्यनिरुद्धो यथाक्रमम्
svaramādyaṃ dvitīyaṃ ca upāntyañcāntyameva ca |
vāsudevo balaḥ kāmo hyaniruddho yathākramam
प्रणवस्तत्सदित्येतद् हुं क्षौं भूरिति मन्त्रकाः ।
नारायणस्तथा ब्रह्मा विष्णुः सिंहो वराहराट्
praṇavastatsadityetad huṃ kṣauṃ bhūriti mantrakāḥ |
nārāyaṇastathā brahmā viṣṇuḥ siṃho varāharāṭ
सितारुणहरिद्राभा नीलश्यामल्लोहिताः ।
मेघाग्निमधुपिंगाभा वर्णतो नवनामकाः
sitāruṇaharidrābhā nīlaśyāmallohitāḥ |
meghāgnimadhupiṃgābhā varṇato navanāmakāḥ
कं टं पं शं गरुत्मान्स्याज्जं खं वं च सुदर्शनम् ।
षं चं फं षं गदादेवी वं लं मं क्षं च शंखकम्
kaṃ ṭaṃ paṃ śaṃ garutmānsyājjaṃ khaṃ vaṃ ca sudarśanam |
ṣaṃ caṃ phaṃ ṣaṃ gadādevī vaṃ laṃ maṃ kṣaṃ ca śaṃkhakam
घँ ढँ भँ ङँ भवेच्छ्रीश्च गं जं वं शं च पुष्टिका ।
घं वं च वनमाला स्याच्छ्री वत्सं दं सं भवेत्
gham̐ ḍham̐ bham̐ ṅam̐ bhavecchrīśca gaṃ jaṃ vaṃ śaṃ ca puṣṭikā |
ghaṃ vaṃ ca vanamālā syācchrī vatsaṃ daṃ saṃ bhavet
छं डं पं यं कौस्तुभः प्रोक्तश्चानन्तो ह्यहमेव च ।
इत्यंगानियथायोगं देवदेवस्य वै दशा
chaṃ ḍaṃ paṃ yaṃ kaustubhaḥ proktaścānanto hyahameva ca |
ityaṃgāniyathāyogaṃ devadevasya vai daśā
गरुडोऽम्बुजसंकाशो गदा चैवासिताकृतिः ।
पुष्टिः शिरीषपुष्पाभा लक्ष्मीः काञ्चनसन्निभा
garuḍo'mbujasaṃkāśo gadā caivāsitākṛtiḥ |
puṣṭiḥ śirīṣapuṣpābhā lakṣmīḥ kāñcanasannibhā
पूर्णचन्द्रनिभः शंखः कौस्तुभस्त्वरुणद्युतिः ।
चक्रं सूर्य्यसहस्त्राभं श्रीवत्सः कुन्दसन्निभः
pūrṇacandranibhaḥ śaṃkhaḥ kaustubhastvaruṇadyutiḥ |
cakraṃ sūryyasahastrābhaṃ śrīvatsaḥ kundasannibhaḥ
पञ्चवर्णनिभा माला ह्यनन्तो मेघसन्निभः ।
विद्युद्रूपाणि चास्त्राणि यानि नोक्तानि वर्णतः
pañcavarṇanibhā mālā hyananto meghasannibhaḥ |
vidyudrūpāṇi cāstrāṇi yāni noktāni varṇataḥ
अर्घ्यपाद्यादि वै दद्यात्पुण्डरीकाक्षविद्यया
arghyapādyādi vai dadyātpuṇḍarīkākṣavidyayā
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)