पूर्व खण्ड — आचार काण्ड

अध्याय 107: कलियुग के लिए पराशर धर्म

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाक्ये आचारकाण्डे पराशरोक्तधर्मनिरूपणं नाम सप्तोत्तरशततमोऽध्यायः ॥

39 श्लोक · 107 में से 241

इस अध्याय में क्या होता है

कलियुग के लिए पराशर धर्म

सूत वह धर्म सुनाते हैं जो पराशर ने व्यास को बताया। कलियुग में दान ही मुख्य धर्म है; वहाँ पापी का दोष एक वर्ष में फल देता है। ब्राह्मण नित्य छह कर्म करे: सन्ध्या, स्नान, जप, होम, देवपूजा और अतिथिसत्कार। खेती करने वाला ब्राह्मण थके बैल को न जोते, और उपज का छठा भाग राजा को, बीसवाँ देवताओं को और तैंतीसवाँ ब्राह्मणों को दे। फिर अशौच की अवधि आती है: ब्राह्मण के लिए दस दिन, क्षत्रिय बारह, वैश्य पन्द्रह, शूद्र एक मास। दाँत निकलने से पहले मरे शिशु का दाह, पिण्ड और जलदान नहीं होता। अन्त में पुत्रों के प्रकार और पक्षियों, पशुओं तथा हर वर्ण के मनुष्यों के वध के लिए क्रमशः प्रायश्चित्त हैं।

सूत उवाच

107.1

पराशरोऽब्रवीद्व्यासं धर्मं वर्णाश्रमादिकम् ।
कल्पेकल्पे क्षयोत्पत्त्या क्षीयन्ते नु प्रजादयः

parāśaro'bravīdvyāsaṃ dharmaṃ varṇāśramādikam |
kalpekalpe kṣayotpattyā kṣīyante nu prajādayaḥ

107.2

श्रुतिः स्मृतिः सदाचरो यः कश्चिद्वे दकर्तृकः ।
वेदाः स्मृता ब्राह्मणादौ धर्मा मन्वादिभिः सदा

śrutiḥ smṛtiḥ sadācaro yaḥ kaścidve dakartṛkaḥ |
vedāḥ smṛtā brāhmaṇādau dharmā manvādibhiḥ sadā

107.3

दानं कलियुगे धर्मः कर्तारं च कलौ त्यजेत् ।
पापकृत्यं तु तत्रैव शापं फलति वर्षतः

dānaṃ kaliyuge dharmaḥ kartāraṃ ca kalau tyajet |
pāpakṛtyaṃ tu tatraiva śāpaṃ phalati varṣataḥ

107.4

आचारात्प्राप्नुयात्सर्वं षट्कर्माणि दिनेदिने ।
सन्ध्या स्नानं जपो होमो देवातिथ्यादिपूजनम्

ācārātprāpnuyātsarvaṃ ṣaṭkarmāṇi dinedine |
sandhyā snānaṃ japo homo devātithyādipūjanam

107.5

अपूर्वः सुव्रती विप्रो ह्यपूर्वा यतयस्तदा ।
क्षत्त्रियः परसैन्यानि जित्वा पृथ्वीं प्रपालयेत्

apūrvaḥ suvratī vipro hyapūrvā yatayastadā |
kṣattriyaḥ parasainyāni jitvā pṛthvīṃ prapālayet

107.6

वणिक्कृष्यादि वैश्ये स्याद्द्विजभक्तिश्च शूद्रके ।
अभक्ष्यभक्षणाच्चौर्यादगम्या गमनात्पतेत्

vaṇikkṛṣyādi vaiśye syāddvijabhaktiśca śūdrake |
abhakṣyabhakṣaṇāccauryādagamyā gamanātpatet

107.7

कृषिं कुर्वन्द्विजः श्रान्तं बलीवर्दं न वाहयेत् ।
दिनार्धं स्नानयोगादिकारी विप्रांश्च भोजयेत्

kṛṣiṃ kurvandvijaḥ śrāntaṃ balīvardaṃ na vāhayet |
dinārdhaṃ snānayogādikārī viprāṃśca bhojayet

107.8

निर्वपेत्पञ्च यज्ञानि क्रूरे निन्दां च कारयेत् ।
तिलाज्यं न विक्रीणित सूनायज्ञमघान्वितः

nirvapetpañca yajñāni krūre nindāṃ ca kārayet |
tilājyaṃ na vikrīṇita sūnāyajñamaghānvitaḥ

107.9

राज्ञो दत्त्वा तु षड्भागं देवतानां च विंशतिम् ।
त्रयस्त्रिंशच्च विप्राणां कृषिकर्ता न लिप्यते

rājño dattvā tu ṣaḍbhāgaṃ devatānāṃ ca viṃśatim |
trayastriṃśacca viprāṇāṃ kṛṣikartā na lipyate

107.10

कर्षकाः क्षत्त्रविट्छूद्राः खलेऽदत्त्वा तु चौरकः ।
दिनत्रयेण शुध्येत ब्राह्मणः प्रेतसूतके

karṣakāḥ kṣattraviṭchūdrāḥ khale'dattvā tu caurakaḥ |
dinatrayeṇa śudhyeta brāhmaṇaḥ pretasūtake

107.11

क्षत्त्रो दशाहाद्वैश्यास्तु द्वादशाहान्मासि शूद्रकः ।
याति विप्रो दशाहात्तु क्षत्त्रो द्वादशकाद्दिनात्

kṣattro daśāhādvaiśyāstu dvādaśāhānmāsi śūdrakaḥ |
yāti vipro daśāhāttu kṣattro dvādaśakāddināt

107.12

पञ्चदशाहाद्वैश्यस्तु शूद्रो मासेन शुध्यति ।
एकपिण्डास्तु दायादाः पृथग्द्वारनिकेतनाः

pañcadaśāhādvaiśyastu śūdro māsena śudhyati |
ekapiṇḍāstu dāyādāḥ pṛthagdvāraniketanāḥ

107.13

जन्मना च विपत्तौ च भवेत्तेषां च सूतकम् ।
चतुर्थे दशरात्रं स्यात्षण्णिशाः पुंसि पञ्चमे

janmanā ca vipattau ca bhavetteṣāṃ ca sūtakam |
caturthe daśarātraṃ syātṣaṇṇiśāḥ puṃsi pañcame

107.14

षष्ठे चतुर हाच्छुद्धिः सप्तमे च दिनत्रयम् ।
देशान्तरे मृते बाले सद्यः शुद्धिर्यतो मृते

ṣaṣṭhe catura hācchuddhiḥ saptame ca dinatrayam |
deśāntare mṛte bāle sadyaḥ śuddhiryato mṛte

107.15

अजातदन्ता ये बाला ये च गर्भाद्विनिः सृताः ।
न तेषामग्निसंस्कारो न पिण्डं नोदकक्रिया

ajātadantā ye bālā ye ca garbhādviniḥ sṛtāḥ |
na teṣāmagnisaṃskāro na piṇḍaṃ nodakakriyā

107.16

यदि गर्भो विपद्यत स्त्रवते वापि योषितः ।
यावन्मासं स्थितो गर्भस्तावद्दिनानि सूतकम्

yadi garbho vipadyata stravate vāpi yoṣitaḥ |
yāvanmāsaṃ sthito garbhastāvaddināni sūtakam

107.17

आनामकरणात्सद्य आचूडान्तादहर्निशम् ।
आव्रतात्तु त्रिरात्रेण तदूर्ध्वन्दशभिर्दिनैः

ānāmakaraṇātsadya ācūḍāntādaharniśam |
āvratāttu trirātreṇa tadūrdhvandaśabhirdinaiḥ

107.18

आचतुर्थाद्भवेत्स्त्रवः पातः पञ्चमषष्ठयोः ।
ब्रह्मचर्या दग्निहोत्रान्नाशुद्धिः सङ्गवर्जनात्

ācaturthādbhavetstravaḥ pātaḥ pañcamaṣaṣṭhayoḥ |
brahmacaryā dagnihotrānnāśuddhiḥ saṅgavarjanāt

107.19

शिल्पिनः कारवो वैद्या दासीदासाश्च भृत्यकाः ।
अग्निमाञ्छ्रोत्रियो राजा सद्यः शौचाः प्रकीर्तिताः

śilpinaḥ kāravo vaidyā dāsīdāsāśca bhṛtyakāḥ |
agnimāñchrotriyo rājā sadyaḥ śaucāḥ prakīrtitāḥ

107.20

दशाहाच्छुध्यते माता स्नानात्सूते पिता शुचिः ।
सङ्गात्सूतौ सूतकं स्यादुपस्पृश्य पिता शुचिः

daśāhācchudhyate mātā snānātsūte pitā śuciḥ |
saṅgātsūtau sūtakaṃ syādupaspṛśya pitā śuciḥ

107.21

विवाहोत्सवयज्ञेषु अन्तरा मृतसूतके ।
पूर्वसंकल्पितादन्यवर्जनं च विधीयते

vivāhotsavayajñeṣu antarā mṛtasūtake |
pūrvasaṃkalpitādanyavarjanaṃ ca vidhīyate

107.22

मृतेन शुध्यते सूतिः मृतवज्जातकं जनौ ।
गोग्रहादौ विपन्नानामेकरात्रं तु सूतकम्

mṛtena śudhyate sūtiḥ mṛtavajjātakaṃ janau |
gograhādau vipannānāmekarātraṃ tu sūtakam

107.23

अनाथप्रेतवहनात्प्राणायामेन शुध्यति ।
प्रेतशूद्रस्य वहनान्त्रिरात्रमशुचिर्भवेत्

anāthapretavahanātprāṇāyāmena śudhyati |
pretaśūdrasya vahanāntrirātramaśucirbhavet

107.24

आत्मघातिविषोद्वन्धकृमिदष्टे न संस्कृतिः ।
गोहतं कृमिदष्टं च स्पृष्ट्वा कृच्छ्रेण शुध्यति

ātmaghātiviṣodvandhakṛmidaṣṭe na saṃskṛtiḥ |
gohataṃ kṛmidaṣṭaṃ ca spṛṣṭvā kṛcchreṇa śudhyati

107.25

अदुष्टापतितं भार्या यौवने या परित्यजेत् ।
सप्तजन्म भवेत्स्त्रीत्वं वैधव्यं च पुनः पुनः

aduṣṭāpatitaṃ bhāryā yauvane yā parityajet |
saptajanma bhavetstrītvaṃ vaidhavyaṃ ca punaḥ punaḥ

107.26

बालहत्या त्वगमनादृतौ च स्त्री तु सूकरि ।
अगम्या व्रतकारिण्यो भ्रष्टपानोदकक्रियाः

bālahatyā tvagamanādṛtau ca strī tu sūkari |
agamyā vratakāriṇyo bhraṣṭapānodakakriyāḥ

107.27

औरसः क्षेत्रजः पुत्रः पितृजौ पिण्डदौ पितुः ।
परिवित्तेस्तु कृच्छ्रं स्यात्कन्यायाः कृच्छ्रमेव च

aurasaḥ kṣetrajaḥ putraḥ pitṛjau piṇḍadau pituḥ |
parivittestu kṛcchraṃ syātkanyāyāḥ kṛcchrameva ca

107.28

अतिकृच्छ्रं चरेद्दाता होता चान्द्रायणञ्चरेत् ।
कुब्जवामनषण्डेषु गद्गदेषु जडेषु च

atikṛcchraṃ careddātā hotā cāndrāyaṇañcaret |
kubjavāmanaṣaṇḍeṣu gadgadeṣu jaḍeṣu ca

107.29

जात्यन्धबधिरे मूके न दोषः परिवेदने ।
नष्टे मृते प्रव्रजिते क्लीबे वा पतिते पतौ

jātyandhabadhire mūke na doṣaḥ parivedane |
naṣṭe mṛte pravrajite klībe vā patite patau

107.30

पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ।
भर्त्रा सहमृता नारी रोमाब्दानि वसेद्दिवि

pañcasvāpatsu nārīṇāṃ patiranyo vidhīyate |
bhartrā sahamṛtā nārī romābdāni vaseddivi

107.31

श्वादिदष्टस्तु गायत्त्र्या जपाच्छुद्धो भवेन्नरः ।
दाह्यो लोकाग्निना विप्रश्चाण्डालाद्यैर्हतोऽग्निमान्

śvādidaṣṭastu gāyattryā japācchuddho bhavennaraḥ |
dāhyo lokāgninā vipraścāṇḍālādyairhato'gnimān

107.32

क्षीरैः प्रक्षाल्य तस्यास्थि स्वाग्निना मन्त्रतो दहेत् ।
प्रवासे तु मृते भूयः कृत्वा कुशमयं दहेत्

kṣīraiḥ prakṣālya tasyāsthi svāgninā mantrato dahet |
pravāse tu mṛte bhūyaḥ kṛtvā kuśamayaṃ dahet

107.33

कृष्णाजिने समास्तीर्य षट्शतानि पलाशजान् ।
शमीं शिश्ने विनिःक्षिप्य अरणिं वृषणे क्षिपेत्

kṛṣṇājine samāstīrya ṣaṭśatāni palāśajān |
śamīṃ śiśne viniḥkṣipya araṇiṃ vṛṣaṇe kṣipet

107.34

कण्डं दक्षिणहस्ते तु वामहस्ते तथोपभृत् ।
पार्श्वे तूलूखलं दद्यात्पृष्ठे तु मुसलं ददेत्

kaṇḍaṃ dakṣiṇahaste tu vāmahaste tathopabhṛt |
pārśve tūlūkhalaṃ dadyātpṛṣṭhe tu musalaṃ dadet

107.35

उरे निःक्षिप्य दृषदं तण्डुलाज्यतिलान्मुखे ।
श्रोत्रे च प्रोक्षणीं दद्यादाज्यस्थालीं च चक्षुषोः

ure niḥkṣipya dṛṣadaṃ taṇḍulājyatilānmukhe |
śrotre ca prokṣaṇīṃ dadyādājyasthālīṃ ca cakṣuṣoḥ

107.36

कर्णे नेत्रे मुखे घ्राणे हिरण्यशकलान् क्षिपेत् ।
अग्निहोत्रोपकरणाद्ब्रह्मलोकगतिर्भवेत्

karṇe netre mukhe ghrāṇe hiraṇyaśakalān kṣipet |
agnihotropakaraṇādbrahmalokagatirbhavet

107.37

असौ स्वर्गाय लोकाय स्वाहेत्याज्याहुतिः सकृत् ।
हंससारसक्रौञ्चानां चक्रवाकं च कुक्रुटम्

asau svargāya lokāya svāhetyājyāhutiḥ sakṛt |
haṃsasārasakrauñcānāṃ cakravākaṃ ca kukruṭam

107.38

मयरमेषघाती च अहोरात्रेण शुध्यति ।
पक्षिणः सकलान्हत्वा अहोरात्रेण शुध्यति

mayarameṣaghātī ca ahorātreṇa śudhyati |
pakṣiṇaḥ sakalānhatvā ahorātreṇa śudhyati

107.39

सर्वांश्चतुष्पदान्हत्वा अहोरात्रो षितो जपेत् ।
शूद्रं हत्वा चरेत्कृच्छ्रमतिकृच्छ्रं तु वैश्यहा ।
क्षत्त्रं चान्द्रायणं विप्रं द्वाविंशात्रिंशमाहरे
त्

sarvāṃścatuṣpadānhatvā ahorātro ṣito japet |
śūdraṃ hatvā caretkṛcchramatikṛcchraṃ tu vaiśyahā |
kṣattraṃ cāndrāyaṇaṃ vipraṃ dvāviṃśātriṃśamāhare
t

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)