नवम स्कन्ध

अध्याय 7: पुरुकुत्स, त्रिशंकु और हरिश्चन्द्र का वरुण को वचन

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे सप्तमोऽध्यायः ॥

27 श्लोक · 7 में से 24

इस अध्याय में क्या होता है

पुरुकुत्स, त्रिशंकु और हरिश्चन्द्र का वरुण को वचन

मान्धाता के पुत्र पुरुकुत्स को नाग-कन्या नर्मदा रसातल ले गई, जहाँ उन्होंने विष्णु की शक्ति से गन्धर्वों को मारा; इस कथा का स्मरण करने वाले को सर्प-भय नहीं रहता। इसी वंश में त्रिशंकु हुए, जो विश्वामित्र के तेज से सशरीर स्वर्ग गए, देवताओं ने उन्हें सिर के बल नीचे गिराया, और वे आज भी आकाश में टँगे दिखते हैं। उनके पुत्र हरिश्चन्द्र ने निःसन्तान होकर वरुण से वचन दिया कि पुत्र हुआ तो उसी से यज्ञ करूँगा। रोहित जन्मा, और राजा बार-बार टालते रहे: दाँत निकलें, गिरें, फिर उगें, कवच धारण करे। रोहित वन भाग गया; वृद्ध ब्राह्मण बने इन्द्र ने उसे वहीं रोके रखा। उसने बदले में शुनःशेप को खरीदा। बाद में विश्वामित्र ने हरिश्चन्द्र को ज्ञान दिया, जिससे वे मुक्त हुए।

श्रीशुक उवाच

7.1

मान्धातुः पुत्रप्रवरो योऽम्बरीषः प्रकीर्तितः ।
पितामहेन प्रवृतो यौवनाश्वश्च तत्सुतः ।
हारीतस्तस्य पुत्रोऽभूत् मान्धातृप्रवरा इमे

māndhātuḥ putrapravaro yo'mbarīṣaḥ prakīrtitaḥ |
pitāmahena pravṛto yauvanāśvaśca tatsutaḥ |
hārītastasya putro'bhūt māndhātṛpravarā ime

7.2

नर्मदा भ्रातृभिर्दत्ता पुरुकुत्साय योरगैः ।
तया रसातलं नीतो भुजगेन्द्रप्रयुक्तया

narmadā bhrātṛbhirdattā purukutsāya yoragaiḥ |
tayā rasātalaṃ nīto bhujagendraprayuktayā

7.3

गन्धर्वान् अवधीत् तत्र वध्यान् वै विष्णुशक्तिधृक् ।
नागाल्लब्धवरः सर्पात् अभयं स्मरतामिदम्

gandharvān avadhīt tatra vadhyān vai viṣṇuśaktidhṛk |
nāgāllabdhavaraḥ sarpāt abhayaṃ smaratāmidam

7.4

त्रसद्दस्युः पौरुकुत्सो योऽनरण्यस्य देहकृत् ।
हर्यश्वः तत्सुतः तस्मात् अरुणोऽथ त्रिबन्धनः

trasaddasyuḥ paurukutso yo'naraṇyasya dehakṛt |
haryaśvaḥ tatsutaḥ tasmāt aruṇo'tha tribandhanaḥ

7.5

तस्य सत्यव्रतः पुत्रः त्रिशङ्कुरिति विश्रुतः ।
प्राप्तश्चाण्डालतां शापाग् गुरोः कौशिकतेजसा

tasya satyavrataḥ putraḥ triśaṅkuriti viśrutaḥ |
prāptaścāṇḍālatāṃ śāpāg guroḥ kauśikatejasā

7.6

सशरीरो गतः स्वर्गं अद्यापि दिवि दृश्यते ।
पातितोऽवाक्शिरा देवैः तेनैव स्तम्भितो बलात्

saśarīro gataḥ svargaṃ adyāpi divi dṛśyate |
pātito'vākśirā devaiḥ tenaiva stambhito balāt

7.7

त्रैशङ्कवो हरिश्चन्द्रो विश्वामित्रवसिष्ठयोः ।
यन्निमित्तमभूद् युद्धं पक्षिणोर्बहुवार्षिकम्

traiśaṅkavo hariścandro viśvāmitravasiṣṭhayoḥ |
yannimittamabhūd yuddhaṃ pakṣiṇorbahuvārṣikam

7.8

सोऽनपत्यो विषण्णात्मा नारदस्योपदेशतः ।
वरुणं शरणं यातः पुत्रो मे जायतां प्रभो

so'napatyo viṣaṇṇātmā nāradasyopadeśataḥ |
varuṇaṃ śaraṇaṃ yātaḥ putro me jāyatāṃ prabho

7.9

यदि वीरो महाराज तेनैव त्वां यजे इति ।
तथेति वरुणेनास्य पुत्रो जातस्तु रोहितः

yadi vīro mahārāja tenaiva tvāṃ yaje iti |
tatheti varuṇenāsya putro jātastu rohitaḥ

7.10

जातः सुतो ह्यनेनाङ्ग मां यजस्वेति सोऽब्रवीत् ।
यदा पशुर्निर्दशः स्याद् अथ मेध्यो भवेदिति

jātaḥ suto hyanenāṅga māṃ yajasveti so'bravīt |
yadā paśurnirdaśaḥ syād atha medhyo bhavediti

7.11

निर्दशे च स आगत्य यजस्वेत्याह सोऽब्रवीत् ।
दन्ताः पशोर्यत् जायेरन् अथ मेध्यो भवेदिति

nirdaśe ca sa āgatya yajasvetyāha so'bravīt |
dantāḥ paśoryat jāyeran atha medhyo bhavediti

7.12

दन्ता जाता यजस्वेति स प्रत्याहाथ सोऽब्रवीत् ।
यदा पतन्त्यस्य दन्ता अथ मेध्यो भवेदिति

dantā jātā yajasveti sa pratyāhātha so'bravīt |
yadā patantyasya dantā atha medhyo bhavediti

7.13

पशोर्निपतिता दन्ता यजस्वेत्याह सोऽब्रवीत् ।
यदा पशोः पुनर्दन्ता जायन्तेऽथ पशुः शुचिः

paśornipatitā dantā yajasvetyāha so'bravīt |
yadā paśoḥ punardantā jāyante'tha paśuḥ śuciḥ

7.14

पुनर्जाता यजस्वेति स प्रत्याहाथ सोऽब्रवीत् ।
सान्नाहिको यदा राजन् राजन्योऽथ पशुः शुचिः

punarjātā yajasveti sa pratyāhātha so'bravīt |
sānnāhiko yadā rājan rājanyo'tha paśuḥ śuciḥ

7.15

इति पुत्रानुरागेण स्नेहयन् त्रितचेतसा ।
कालं वञ्चयता तं तमुक्तो देवस्तमैक्षत

iti putrānurāgeṇa snehayan tritacetasā |
kālaṃ vañcayatā taṃ tamukto devastamaikṣata

7.16

रोहितस्तदभिज्ञाय पितुः कर्म चिकीर्षितम् ।
प्राणप्रेप्सुर्धनुष्पाणिः अरण्यं प्रत्यपद्यत

rohitastadabhijñāya pituḥ karma cikīrṣitam |
prāṇaprepsurdhanuṣpāṇiḥ araṇyaṃ pratyapadyata

7.17

पितरं वरुणग्रस्तं श्रुत्वा जातमहोदरम् ।
रोहितो ग्राममेयाय तमिन्द्रः प्रत्यषेधत

pitaraṃ varuṇagrastaṃ śrutvā jātamahodaram |
rohito grāmameyāya tamindraḥ pratyaṣedhata

7.18

भूमेः पर्यटनं पुण्यं तीर्थक्षेत्रनिषेवणैः ।
रोहितायादिशच्छक्रः सोऽप्यरण्येऽवसत् समाम्

bhūmeḥ paryaṭanaṃ puṇyaṃ tīrthakṣetraniṣevaṇaiḥ |
rohitāyādiśacchakraḥ so'pyaraṇye'vasat samām

7.19

एवं द्वितीये तृतीये चतुर्थे पञ्चमे तथा ।
अभ्येत्याभ्येत्य स्थविरो विप्रो भूत्वाऽऽह वृत्रहा

evaṃ dvitīye tṛtīye caturthe pañcame tathā |
abhyetyābhyetya sthaviro vipro bhūtvā''ha vṛtrahā

7.20

षष्ठं संवत्सरं तत्र चरित्वा रोहितः पुरीम् ।
उपव्रजन् अजीगर्ताद् अक्रीणान् मध्यमं सुतम्

ṣaṣṭhaṃ saṃvatsaraṃ tatra caritvā rohitaḥ purīm |
upavrajan ajīgartād akrīṇān madhyamaṃ sutam

7.21

शुनःशेपं पशुं पित्रे प्रदाय समवन्दत ।
ततः पुरुषमेधेन हरिश्चन्द्रो महायशाः

śunaḥśepaṃ paśuṃ pitre pradāya samavandata |
tataḥ puruṣamedhena hariścandro mahāyaśāḥ

7.22

मुक्तोदरोऽयजद् देवान् वरुणादीन् महत्कथः ।
विश्वामित्रोऽभवत् तस्मिन् होता चाध्वर्युरात्मवान्

muktodaro'yajad devān varuṇādīn mahatkathaḥ |
viśvāmitro'bhavat tasmin hotā cādhvaryurātmavān

7.23

जमदग्निरभूद् ब्रह्मा वसिष्ठोऽयास्यः सामगः ।
तस्मै तुष्टो ददौ इन्द्रः शातकौम्भमयं रथम्

jamadagnirabhūd brahmā vasiṣṭho'yāsyaḥ sāmagaḥ |
tasmai tuṣṭo dadau indraḥ śātakaumbhamayaṃ ratham

7.24

शुनःशेपस्य माहात्म्यं उपरिष्टात् प्रचक्ष्यते ।
सत्यंसारां धृतिं दृष्ट्वा सभार्यस्य च भूपतेः

śunaḥśepasya māhātmyaṃ upariṣṭāt pracakṣyate |
satyaṃsārāṃ dhṛtiṃ dṛṣṭvā sabhāryasya ca bhūpateḥ

7.25

विश्वामित्रो भृशं प्रीतो ददौ अविहतां गतिम् ।
मनः पृथिव्यां तामद्भिः तेजसापोऽनिलेन तत्

viśvāmitro bhṛśaṃ prīto dadau avihatāṃ gatim |
manaḥ pṛthivyāṃ tāmadbhiḥ tejasāpo'nilena tat

7.26

खे वायुं धारयन् तच्च भूतादौ तं महात्मनि ।
तस्मिन् ज्ञानकलां ध्यात्वा तयाज्ञानं विनिर्दहन्

khe vāyuṃ dhārayan tacca bhūtādau taṃ mahātmani |
tasmin jñānakalāṃ dhyātvā tayājñānaṃ vinirdahan

7.27

हित्वा तां स्वेन भावेन निर्वाणसुखसंविदा ।
अनिर्देश्याप्रतर्क्येण तस्थौ विध्वस्तबन्धनः

hitvā tāṃ svena bhāvena nirvāṇasukhasaṃvidā |
anirdeśyāpratarkyeṇa tasthau vidhvastabandhanaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)