नवम स्कन्ध

अध्याय 17: आयु के वंशज: काशी के राजा और रजि

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे सप्तदशोऽध्यायः ॥

18 श्लोक · 17 में से 24

इस अध्याय में क्या होता है

आयु के वंशज: काशी के राजा और रजि

पुरूरवा के पुत्र आयु के पुत्रों की वंशावली: नहुष, क्षत्रवृद्ध, रजि, रम्भ और अनेना। क्षत्रवृद्ध से काशी के राजा हुए, और गृत्समद, जिनके वंश में ऋग्वेद के श्रेष्ठ आचार्य शौनक हुए। काशी वंश में वासुदेव के अंश धन्वन्तरि हुए, जिन्होंने आयुर्वेद चलाया और जिनके स्मरण मात्र से कष्ट दूर होते हैं। आगे दिवोदास और प्रतर्दन हुए, जिन्हें ऋतध्वज और कुवलयाश्व भी कहते हैं, और अलर्क, जिन्होंने युवा रहकर छियासठ हज़ार वर्ष पृथ्वी का भोग किया। रजि के पाँच सौ बलवान पुत्र थे। देवताओं के कहने पर रजि ने दैत्यों को मारकर स्वर्ग इन्द्र को दिया, पर उनकी मृत्यु के बाद पुत्रों ने स्वर्ग नहीं लौटाया; बृहस्पति के होम से उनकी बुद्धि फिरी और इन्द्र ने सबको मार डाला। अध्याय रम्भ और अनेना के वंश से पूरा होता है।

श्रीशुक उवाच

17.1

यः पुरूरवसः पुत्र आयुः तस्याभवन् सुताः ।
नहुषः क्षत्रवृद्धश्च रजी रंभश्च वीर्यवान्

yaḥ purūravasaḥ putra āyuḥ tasyābhavan sutāḥ |
nahuṣaḥ kṣatravṛddhaśca rajī raṃbhaśca vīryavān

17.2

अनेना इति राजेन्द्र शृणु क्षत्रवृधोऽन्वयम् ।
क्षत्रवृद्धसुतस्यासन् सुहोत्रस्यात्मजास्त्रयः

anenā iti rājendra śṛṇu kṣatravṛdho'nvayam |
kṣatravṛddhasutasyāsan suhotrasyātmajāstrayaḥ

17.3

काश्यः कुशो गृत्समद इति गृत्समदादभूत् ।
शुनकः शौनको यस्य बह्वृचप्रवरो मुनिः

kāśyaḥ kuśo gṛtsamada iti gṛtsamadādabhūt |
śunakaḥ śaunako yasya bahvṛcapravaro muniḥ

17.4

काश्यस्य काशिः तत्पुत्रो राष्ट्रो दीर्घतमःपिता ।
धन्वन्तरिर्दैर्घतम आयुर्वेदप्रवर्तकः

kāśyasya kāśiḥ tatputro rāṣṭro dīrghatamaḥpitā |
dhanvantarirdairghatama āyurvedapravartakaḥ

17.5

यज्ञभुग् वासुदेवांशः स्मृतमात्रार्तिनाशनः ।
तत्पुत्रः केतुमानस्य जज्ञे भीमरथस्ततः

yajñabhug vāsudevāṃśaḥ smṛtamātrārtināśanaḥ |
tatputraḥ ketumānasya jajñe bhīmarathastataḥ

17.6

दिवोदासो द्युमांस्तस्मात् प्रतर्दन इति स्मृतः ।
स एव शत्रुजिद् वत्स ऋतध्वज इतीरितः ।
तथा कुवलयाश्वेति प्रोक्तोऽलर्कादयस्ततः

divodāso dyumāṃstasmāt pratardana iti smṛtaḥ |
sa eva śatrujid vatsa ṛtadhvaja itīritaḥ |
tathā kuvalayāśveti prokto'larkādayastataḥ

17.7

षष्टि वर्षसहस्राणि षष्टि वर्षशतानि च ।
नालर्काद् अपरो राजन् मेदिनीं बुभुजे युवा

ṣaṣṭi varṣasahasrāṇi ṣaṣṭi varṣaśatāni ca |
nālarkād aparo rājan medinīṃ bubhuje yuvā

17.8

अलर्कात् सन्ततिस्तस्मात् सुनीथोऽथ निकेतनः ।
धर्मकेतुः सुतस्तस्मात् सत्यकेतुरजायत

alarkāt santatistasmāt sunītho'tha niketanaḥ |
dharmaketuḥ sutastasmāt satyaketurajāyata

17.9

धृष्टकेतुः सुतस्तस्मात् सुकुमारः क्षितीश्वरः ।
वीतिहोत्रोऽस्य भर्गोऽतो भार्गभूमिरभून्नृप

dhṛṣṭaketuḥ sutastasmāt sukumāraḥ kṣitīśvaraḥ |
vītihotro'sya bhargo'to bhārgabhūmirabhūnnṛpa

17.10

इतीमे काशयो भूपाः क्षत्रवृद्धान्वयायिनः ।
रम्भस्य रभसः पुत्रो गम्भीरश्चाक्रियस्ततः

itīme kāśayo bhūpāḥ kṣatravṛddhānvayāyinaḥ |
rambhasya rabhasaḥ putro gambhīraścākriyastataḥ

17.11

तस्य क्षेत्रे ब्रह्म जज्ञे श्रृणु वंशमनेनसः ।
शुद्धस्ततः शुचिस्तस्मात् त्रिककुद् धर्मसारथिः

tasya kṣetre brahma jajñe śrṛṇu vaṃśamanenasaḥ |
śuddhastataḥ śucistasmāt trikakud dharmasārathiḥ

17.12

ततः शान्तरजो जज्ञे कृतकृत्यः स आत्मवान् ।
रजेः पञ्चशतान्यासन् पुत्राणां अमितौजसाम्

tataḥ śāntarajo jajñe kṛtakṛtyaḥ sa ātmavān |
rajeḥ pañcaśatānyāsan putrāṇāṃ amitaujasām

17.13

देवैरभ्यर्थितो दैत्यान् हत्वेन्द्रायाददाद् दिवम् ।
इन्द्रस्तस्मै पुनर्दत्त्वा गृहीत्वा चरणौ रजेः

devairabhyarthito daityān hatvendrāyādadād divam |
indrastasmai punardattvā gṛhītvā caraṇau rajeḥ

17.14

आत्मानमर्पयामास प्रह्रादाद्यरिशंकितः ।
पितरि उपरते पुत्रा याचमानाय नो ददुः

ātmānamarpayāmāsa prahrādādyariśaṃkitaḥ |
pitari uparate putrā yācamānāya no daduḥ

17.15

त्रिविष्टपं महेन्द्राय यज्ञभागान् समाददुः ।
गुरुणा हूयमानेऽग्नौ बलभित् तनयान् रजेः

triviṣṭapaṃ mahendrāya yajñabhāgān samādaduḥ |
guruṇā hūyamāne'gnau balabhit tanayān rajeḥ

17.16

अवधीद् भ्रंशितान् मार्गान् न कश्चित् अवशेषितः ।
कुशात् प्रतिः क्षात्रवृद्धात् संजयस्तत्सुतो जयः

avadhīd bhraṃśitān mārgān na kaścit avaśeṣitaḥ |
kuśāt pratiḥ kṣātravṛddhāt saṃjayastatsuto jayaḥ

17.17

ततः कृतः कृतस्यापि जज्ञे हर्यवनो नृपः ।
सहदेवस्ततो हीनो जयसेनस्तु तत्सुतः

tataḥ kṛtaḥ kṛtasyāpi jajñe haryavano nṛpaḥ |
sahadevastato hīno jayasenastu tatsutaḥ

17.18

सङ्कृतिस्तस्य च जयः क्षत्रधर्मा महारथः ।
क्षत्रवृद्धान्वया भूपा इमे श्रृणु वंशं च नाहुषात्

saṅkṛtistasya ca jayaḥ kṣatradharmā mahārathaḥ |
kṣatravṛddhānvayā bhūpā ime śrṛṇu vaṃśaṃ ca nāhuṣāt

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)