ब्रह्मचारी गुरुकुले वसन्दान्तो गुरोर्हितम् ।
आचरन् दासवत् नीचो गुरौ सुदृढसौहृदः
brahmacārī gurukule vasandānto gurorhitam |
ācaran dāsavat nīco gurau sudṛḍhasauhṛdaḥ
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिरनारदसंवादे सदाचारनिर्णयो नाम द्वादशोऽध्यायः ॥
31 श्लोक · 12 में से 15
नारद ब्रह्मचर्य आश्रम का वर्णन करते हैं। ब्रह्मचारी गुरुकुल में संयम से, दास की भाँति समर्पित रहता है, दोनों सन्ध्याओं में गुरु, अग्नि, सूर्य और देवताओं की उपासना करता है, बुलाए जाने पर वेद पढ़ता है, आरम्भ और अन्त में गुरु के चरणों में सिर नवाता है, भिक्षा लाता है और स्त्रियों के प्रसंग में कठोर संयम रखता है। फिर वानप्रस्थ का नियम आता है: वन में कन्द-मूल पर जीना, उसी से चरु और पुरोडाश अर्पित करना और धूप, वर्षा, शीत सहना। अन्त में वह हर इन्द्रिय को उसके देवता को लौटाता है, पृथ्वी को जल में और क्रम से अव्यक्त में लीन करता है, आत्मा को चिन्मात्र जानकर बुझी अग्नि-सा शान्त हो जाता है।
नारद उवाच
ब्रह्मचारी गुरुकुले वसन्दान्तो गुरोर्हितम् ।
आचरन् दासवत् नीचो गुरौ सुदृढसौहृदः
brahmacārī gurukule vasandānto gurorhitam |
ācaran dāsavat nīco gurau sudṛḍhasauhṛdaḥ
सायं प्रातरुपासीत गुर्वग्न्यर्कसुरोत्तमान् ।
सन्ध्ये उभे च यतवाग् जपन्ब्रह्म समाहितः
sāyaṃ prātarupāsīta gurvagnyarkasurottamān |
sandhye ubhe ca yatavāg japanbrahma samāhitaḥ
छन्दांस्यधीयीत गुरोः आहूतश्चेत् सुयन्त्रितः ।
उपक्रमेऽवसाने च चरणौ शिरसा नमेत्
chandāṃsyadhīyīta guroḥ āhūtaścet suyantritaḥ |
upakrame'vasāne ca caraṇau śirasā namet
मेखलाजिनवासांसि जटादण्डकमण्डलून् ।
बिभृयाद् उपवीतं च दर्भपाणिर्यथोदितम्
mekhalājinavāsāṃsi jaṭādaṇḍakamaṇḍalūn |
bibhṛyād upavītaṃ ca darbhapāṇiryathoditam
सायं प्रातश्चरेद्भैक्ष्यं गुरवे तन्निवेदयेत् ।
भुञ्जीत यद्यनुज्ञातो नो चेदुपवसेत् क्वचित्
sāyaṃ prātaścaredbhaikṣyaṃ gurave tannivedayet |
bhuñjīta yadyanujñāto no cedupavaset kvacit
सुशीलो मितभुग् दक्षः श्रद्दधानो जितेन्द्रियः ।
यावदर्थं व्यवहरेत् स्त्रीषु स्त्रीनिर्जितेषु च
suśīlo mitabhug dakṣaḥ śraddadhāno jitendriyaḥ |
yāvadarthaṃ vyavaharet strīṣu strīnirjiteṣu ca
वर्जयेत्प्रमदागाथां अगृहस्थो बृहद्व्रतः ।
इन्द्रियाणि प्रमाथीनि हरन्त्यपि यतेर्मनः
varjayetpramadāgāthāṃ agṛhastho bṛhadvrataḥ |
indriyāṇi pramāthīni harantyapi yatermanaḥ
केशप्रसाधनोन्मर्द स्नपनाभ्यञ्जनादिकम् ।
गुरुस्त्रीभिर्युवतिभिः कारयेन्नात्मनो युवा
keśaprasādhanonmarda snapanābhyañjanādikam |
gurustrībhiryuvatibhiḥ kārayennātmano yuvā
नन्वग्निः प्रमदा नाम घृतकुम्भसमः पुमान् ।
सुतामपि रहो जह्याद् अन्यदा यावदर्थकृत्
nanvagniḥ pramadā nāma ghṛtakumbhasamaḥ pumān |
sutāmapi raho jahyād anyadā yāvadarthakṛt
कल्पयित्वाऽऽत्मना यावद् आभासमिदमीश्वरः ।
द्वैतं तावन्न विरमेत् ततो ह्यस्य विपर्ययः
kalpayitvā''tmanā yāvad ābhāsamidamīśvaraḥ |
dvaitaṃ tāvanna viramet tato hyasya viparyayaḥ
एतत् सर्वं गृहस्थस्य समाम्नातं यतेरपि ।
गुरुवृत्तिर्विकल्पेन गृहस्थस्यर्तुगामिनः
etat sarvaṃ gṛhasthasya samāmnātaṃ yaterapi |
guruvṛttirvikalpena gṛhasthasyartugāminaḥ
अञ्जनाभ्यञ्जनोन्मर्द त्र्यवलेखामिषं मधु ।
स्रग् गन्धलेपालंकारान् त्यजेयुर्ये बृहद्व्रताः
añjanābhyañjanonmarda tryavalekhāmiṣaṃ madhu |
srag gandhalepālaṃkārān tyajeyurye bṛhadvratāḥ
उषित्वैवं गुरुकुले द्विजोऽधीत्यावबुध्य च ।
त्रयीं साङ्गोपनिषदं यावदर्थं यथाबलम्
uṣitvaivaṃ gurukule dvijo'dhītyāvabudhya ca |
trayīṃ sāṅgopaniṣadaṃ yāvadarthaṃ yathābalam
दत्त्वा वरमनुज्ञातो गुरोः कामं यदीश्वरः ।
गृहं वनं वा प्रविशेत् प्रव्रजेत् तत्र वा वसेत्
dattvā varamanujñāto guroḥ kāmaṃ yadīśvaraḥ |
gṛhaṃ vanaṃ vā praviśet pravrajet tatra vā vaset
अग्नौ गुरावात्मनि च सर्वभूतेष्वधोक्षजम् ।
भूतैः स्वधामभिः पश्येद् अप्रविष्टं प्रविष्टवत्
agnau gurāvātmani ca sarvabhūteṣvadhokṣajam |
bhūtaiḥ svadhāmabhiḥ paśyed apraviṣṭaṃ praviṣṭavat
एवं विधो ब्रह्मचारी वानप्रस्थो यतिर्गृही ।
चरन्विदितविज्ञानः परं ब्रह्माधिगच्छति
evaṃ vidho brahmacārī vānaprastho yatirgṛhī |
caranviditavijñānaḥ paraṃ brahmādhigacchati
वानप्रस्थस्य वक्ष्यामि नियमान् मुनिसम्मतान् ।
यानास्थाय मुनिर्गच्छेद् ऋषिलोकमुहाञ्जसा
vānaprasthasya vakṣyāmi niyamān munisammatān |
yānāsthāya munirgacched ṛṣilokamuhāñjasā
न कृष्टपच्यमश्नीयाद् अकृष्टं चाप्यकालतः ।
अग्निपक्वमथामं वा अर्कपक्वमुताहरेत्
na kṛṣṭapacyamaśnīyād akṛṣṭaṃ cāpyakālataḥ |
agnipakvamathāmaṃ vā arkapakvamutāharet
वन्यैश्चरुपुरोडाशान् निर्वपेत्कालचोदितान् ।
लब्धे नवे नवेऽन्नाद्ये पुराणं च परित्यजेत्
vanyaiścarupuroḍāśān nirvapetkālacoditān |
labdhe nave nave'nnādye purāṇaṃ ca parityajet
अग्न्यर्थमेव शरणं उटजं वाद्रिकन्दरम् ।
श्रयेत हिमवाय्वग्नि वर्षार्कातपषाट् स्वयम्
agnyarthameva śaraṇaṃ uṭajaṃ vādrikandaram |
śrayeta himavāyvagni varṣārkātapaṣāṭ svayam
केशरोमनखश्मश्रु मलानि जटिलो दधत् ।
कमण्डल्वजिने दण्ड वल्कलाग्निपरिच्छदान्
keśaromanakhaśmaśru malāni jaṭilo dadhat |
kamaṇḍalvajine daṇḍa valkalāgniparicchadān
चरेद् वने द्वादशाब्दान् अष्टौ वा चतुरो मुनिः ।
द्वावेकं वा यथा बुद्धिः न विपद्येत कृच्छ्रतः
cared vane dvādaśābdān aṣṭau vā caturo muniḥ |
dvāvekaṃ vā yathā buddhiḥ na vipadyeta kṛcchrataḥ
यदाकल्पः स्वक्रियायां व्याधिभिर्जरयाथवा ।
आन्वीक्षिक्यां वा विद्यायां कुर्यादनशनादिकम्
yadākalpaḥ svakriyāyāṃ vyādhibhirjarayāthavā |
ānvīkṣikyāṃ vā vidyāyāṃ kuryādanaśanādikam
आत्मन्यग्नीन् समारोप्य सन्न्यस्याहं ममात्मताम् ।
कारणेषु न्यसेत् सम्यक् संघातं तु यथार्हतः
ātmanyagnīn samāropya sannyasyāhaṃ mamātmatām |
kāraṇeṣu nyaset samyak saṃghātaṃ tu yathārhataḥ
खे खानि वायौ निश्वासान् तजःसूष्माणमात्मवान् ।
अप्स्वसृक्श्लेष्मपूयानि क्षितौ शेषं यथोद्भवम्
khe khāni vāyau niśvāsān tajaḥsūṣmāṇamātmavān |
apsvasṛkśleṣmapūyāni kṣitau śeṣaṃ yathodbhavam
वाचमग्नौ सवक्तव्यां इन्द्रे शिल्पं करावपि ।
पदानि गत्या वयसि रत्योपस्थं प्रजापतौ
vācamagnau savaktavyāṃ indre śilpaṃ karāvapi |
padāni gatyā vayasi ratyopasthaṃ prajāpatau
मृत्यौ पायुं विसर्गं च यथास्थानं विनिर्दिशेत् ।
दिक्षु श्रोत्रं सनादेन स्पर्शेनाध्यात्मनि त्वचम्
mṛtyau pāyuṃ visargaṃ ca yathāsthānaṃ vinirdiśet |
dikṣu śrotraṃ sanādena sparśenādhyātmani tvacam
रूपाणि चक्षुषा राजन् ज्योतिष्यभिनिवेशयेत् ।
अप्सु प्रचेतसा जिह्वां घ्रेयैर्घ्राणं क्षितौ न्यसेत्
rūpāṇi cakṣuṣā rājan jyotiṣyabhiniveśayet |
apsu pracetasā jihvāṃ ghreyairghrāṇaṃ kṣitau nyaset
मनो मनोरथैश्चन्द्रे बुद्धिं बोध्यैः कवौ परे ।
कर्माण्यध्यात्मना रुद्रे यदहं ममताक्रिया ।
सत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे
mano manorathaiścandre buddhiṃ bodhyaiḥ kavau pare |
karmāṇyadhyātmanā rudre yadahaṃ mamatākriyā |
sattvena cittaṃ kṣetrajñe guṇairvaikārikaṃ pare
अप्सु क्षितिमपो ज्योतिषि अदो वायौ नभस्यमुम् ।
कूटस्थे तच्च महति तदव्यक्तेऽक्षरे च तत्
apsu kṣitimapo jyotiṣi ado vāyau nabhasyamum |
kūṭasthe tacca mahati tadavyakte'kṣare ca tat
इत्यक्षरतयाऽऽत्मानं चिन्मात्रमवशेषितम् ।
ज्ञात्वाद्वयोऽथ विरमेद् दग्धयोनिरिवानलः
ityakṣaratayā''tmānaṃ cinmātramavaśeṣitam |
jñātvādvayo'tha viramed dagdhayonirivānalaḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)